________________ सूरपण्णत्ति 1035 - अभिधानराजेन्द्रः - भाग 7 सूरपण्णत्ति मिद्धा पमुइयजणजाणवया० जाव पासाईया० 'क' (व्ह) (5) इति, ऋद्धा-भवनैः पौरजनैश्चातीव वृद्धिमुपगता 'ऋधू' बृद्धाविति वचनात् स्तिमितास्वचक्रपरचक्रतस्करडमरादिसमुत्थभयकल्लोलमालाविवर्जिता समृद्धाधनधान्यादिविभूतियुक्ता, ततः पदयत्रयस्यापि कर्मधारयः, तथा पमुझ्यजणजाणवय' ति-प्रमुदिताः-प्रमोदवन्तः प्रमोदहेतुवस्तूनां तत्र सदावाज्जनानगरीवास्तव्या लोका जानपदाजनपदभवास्तत्र प्रयोजनवशादायाताः सन्तो यत्र सा प्रमुदितजनजापदा, यावच्छब्देनौपपातिकग्रन्थप्रतिपादितः समस्योऽपि वर्णकः 'आइन्नजणसमूहा मणुस्सा' इत्यादिको द्रष्टव्यः। (सू०१) स च ग्रन्थगौरवभयान्न लिख्यते, केवलं तत् एवौपपातिकादवसेयः, कियान् द्रष्टव्य इत्याह'पासाईया 'व्ह' इति अत्र 'व्ह' शब्दोपादानात् प्रासादीया इत्यनेन पदेन सह पदचतुष्टस्य सूचा कृता, तानि च पदान्यमूनि-प्रासादीया दर्शनीया अभिरूपा प्रतिरूपा, तत्र प्रासादेषु भवा प्रासादीया; प्रासादबहुला इत्यर्थः, अएव दर्शनीया-द्रष्टुं योग्या, प्रासादानामतिरमणीयत्वात्, तथा अभिमुखमतीवोक्तरूपं रूपम्- आकारो यस्याः सा अभिरूपा प्रतिविशिष्टम्-असाधारणं रूपम्-आकारो यस्याः सा प्रतिरूपा, 'तीसे णं मिहिलाए णयरीए बहिया उत्तरपुरच्छिमे दिसीभाए एत्थ णं माणिभद्दे नामं चेइए होत्था वण्णओ' इति तस्या मिथिलानगर्या बहिर्य औत्तरपौरस्त्यः-उत्तरूपर्वरूपो दिग्विभाग ईशानकोण इत्यर्थः, एकारोमागधषाभानुरोधतः प्रथमैकवचनप्रभवः, यथा 'कयरे आगच्छइ दित्तरूवे' (उत्त० 12-6) इत्यादौ, 'अत्र' अस्मिन् औत्तरपौरस्त्ये दिग्विभागे माणिभद्रमिति नाम चैत्यमभवत्, चितेर्लेप्यादिचयनस्य भावः कर्म वा चैत्यं, तच्च संज्ञाशब्दत्वाद्दवताप्रतिबिम्बे प्रसिद्धं, ततस्तदाश्रयभूतं यद्देवताया गृहं तदप्युपचाराचैत्यं, तचेह व्यन्तरायतनं द्रष्टव्यं, नतु भगवतामर्हतामायतनमिति / 'वण्णओ' ति तस्यापि चैत्यस्य वर्णको वक्तव्यः, स चौपपातिकग्रन्थादवसेयः (सू०२)। 'तीसे णं मिहिलाए' इत्यादि, तस्यां च मिथिलायां नगर्या जिनशत्रुर्नाभ राजा, तस्य देवीसमस्तान्तःपुरप्रधाना भार्या सकल-गुणधारणाद्धारिणीनाम्नी देवी, 'वण्णओ' त्ति तस्य राज्ञः तस्याश्च देव्या औपपातिकग्रन्थोक्तो वर्णकोऽभिधातव्यः (सू०७) ते णं काले णं ते णं समए णं तंमि माणिभद्दे चेइए सामी समोसढे, परिसा णिग्गया, धम्मो कहिओ, परिसा पडिगया' तस्मिन् काले तस्मिन् समये तस्मिन् माणिभद्रे चैत्ये 'सामी समोसढे' त्ति स्वामी जगद्गुरुभगवान् श्रीमहावीरोऽर्हन् सर्वज्ञः सर्वदर्शी सप्तहस्तप्रमाणशरीरोच्छ्यः समचतुरस्रसस्थानो वज्रर्षभनाराच संहननः कज्जलप्रतिमकालिमोपेतस्निग्धकुञ्चितप्रदक्षिणावर्तमूर्धजः उत्तप्ततपनीयाभिरामकेशान्तकेशभूमिरातपत्राकारोत्तमाङ्गसन्निवेशः परिपूर्णशशाङ्कमण्डलादप्यधिकतरवदनशोभः पद्मोत्पलसुरभिगन्धनिःश्वासोवदनत्रिभागप्रमाणकम्बूपमचारुकन्धरः सिंहशार्दूलवत्परिपूर्णविपुलस्कन्धप्रदेशो महापुरकपाटपृथुलवक्षःस्थलाभोगो यथास्थितलक्षणोपेतः श्रीवृक्षपरिघापमप्रलम्बबाहुयुगलो रविशशिचक्रसौवस्तिकादिप्रशस्तलक्षणोपेतपाणितलः सुजातापार्यो झषोदरः सूर्यकरस्पर्शसञ्जातविकोशपद्मोपमनाभिमण्डलः सिंहवत्संवर्तितकटीप्रदेशो निगूडजानुः कुरुबिन्दवृत्तजङ्घायुगलः सुप्रतिष्ठितकूर्मचारुचरणतलप्रदेशः अनाश्रवो निर्ममः छिन्नश्रोता निरुपलेपोऽपगतप्रेमरागद्वेषश्चतुत्रिंशदतिशयोपेतोदेवोपनीतेषु नवसु कनककमलेषु पादन्यासं कुर्वन्नाकाशगतेन धर्मचक्रेण आकाशगतेन छत्रेण आकाशगताभ्यां चामराभ्याभाकाशगतेनातिस्वच्छस्फटिकविशेषमयेन सपादपीठेन सिंहासनेन पुरतो देवैः प्रकृष्यमाणेन प्रकृष्यमाणेन धर्मध्वजेन चतुर्दशभिः श्रमणसहस्रः षट्त्रिंशत्संख्यैरार्यिकासहस्रैः परिवृता यथास्वकल्पं सुखेन विहरन् यथारूपमवग्रह गृहीत्वा संयमेन तपसा चाऽऽत्मानं भावयन्समवसृतः, समवसरणवणीनं च भगवत औपपातिकग्रन्थादवसेयम्। (सू०१० यावत् 33) 'परिसा निग्गय' त्ति मिथिलाया नगर्या वास्तव्यो लोकः समस्तोऽपि भगवन्तमागतं श्रुत्वा भगवद्वन्दनार्थ स्वस्मादाश्रयाद्विनिर्गत इत्यर्थः, तन्निर्गमश्चैवम्'तए णं मिहिलाए नयरीए सिंघाडगतियचउक्कचच्चरचउम्मुहमहापहेसु बहुजणो अन्नमन्नस्स एमवाइक्खइ, एवं भासेइ, एवं पन्नवेइ, एवं परूवेइएवं खलु देवाणुप्पिया ! समणे भगवं महावीरे आइगरे० जाव सव्वन्नू सव्वदरिसी आगासगएणं छत्तेणं० जाव सुहं सुहेणं विहरमाणे इह आगए इह समागए इह समोसढे इहेव मिहिलाए नयरीय बहिआ माणिभद्दे चेइए अहापडिरूवं उग्गहं ओगिण्हित्ता अरिहा जिणे केवली समणगणपरिवुडे संजमेणं तवसा अप्पाणं भावेमाणे विहरइ, तंमहाफलं खलु देवाणुप्पिया ! तहारूवाणं अरहताणं भगवंताणं नामगोयस्स विसवणयाए किमंग! पुण अभिगमणवंदणनमंसणपअिच्छणपज्जुवासणयाए? तंसेयं खलु एगस्स विआयरियस्सधम्मियस्ससुवयणस्ससवणयाए, किमंग! पुण विउलस्स अट्ठस्स गहणयाए ? तं गच्छामो णं देवाणुप्पिया ! समणं भगवं महावीरं वंदामो नमसामो सक्कारेमो सम्माणेमो कल्लाणं मंगलं देवयं चेइयं पज्जुवासामो, एयं णो इहभवे परभवे य हियाए सुहाए खमाए निस्सेसाए आणुगामियत्ताए भविस्सइ, तएणं मिहिलाए नयरीए बहवे उग्गा भोगा' इत्याद्यौपपातिकग्रन्थोक्तं (सू० 27) सर्वमवसेयं यावत्समस्ताऽपि राजप्रभृतिका षर्षत् पर्युपासीना तिष्ठति। 'धम्मो कहिओ' त्ति तस्याः पर्षद पुरतो निःशेषजनभाषानुयायिन्या अर्द्धमागधभाषया धर्म उपदिष्टः, स चैवम्- 'अस्थि लोए अस्थि जीवा अत्थिं अजीवा' इत्यादि, तथा- "जह जीवा बझंति, मुचंति' जह यं संकिलिस्संति / जह दुक्खाणं अंते, करिति केई अपडिबद्धा 11 / / अट्टनियट्टियऽचित्ता, जह जीवा सागरं भवमुविति / जह य परिहीणकम्मा, सिद्धा सिद्धालयमुर्विति॥२॥ 'तहा आइक्खइ' त्ति 'जाव राजा जामेव दिसं पाउन्भूए तामेवदिसं पडिगए' इति, अत्र यावच्छब्दादिदमौपपातिकग्रन्थोक्तं द्रष्टव्यम्-'तएणं सा महइमहालिया परिसा समणस्स भगवओ महावीरस्स अंतिए धम्मं सोचा निसम्म हहतुट्ठा समणं भगव म