________________ ववहार 106- अमिधानराजेन्द्रः - भाग 6 ववहार - षद्भिरित्यर्थः,सूत्रस्याभिधेयम् / तथा जीतं नाम प्रभूतानेकगीतार्थकृता मर्यादा तत्प्रतिपादको ग्रन्थोऽप्युपचारात्जीतम्। तथा कल्पन्ते समर्था भवन्ति संयमाध्वनि प्रवर्त्तमाना अनेनेति कल्पः। मृजूष्-- शुद्धौ, मृजन्ति शुद्धीभवन्त्यनेनातिचारकल्मषप्रक्षालनादिति मार्गः "उभयत्र व्यञ्जनात्धञ्" इतिघञ्प्रत्ययः। तथा इण-गती, निपूर्वान्नितरामीयते गम्यते मोक्षोऽनेनेति न्यायः, तथा सवैरपि मुमुक्षुभिरीष्यते प्राप्तुमिष्यते इतीप्सितव्यः, आचर्यते स्म बृहत्पुरुषैरप्याचरितम् / व्यवहार इति पूर्ववत्, उक्तान्येकार्थिकानि।। सम्प्रत्यत्रैवाक्षेपपरिहारावभिधित्सुराहएगट्ठिया अभिहिया, न य ववहारपणयं इहं दिई / भण्णइ एत्थेव तयं, दट्ठव्वं अंतगयमेव // 8 // नन्वभिहितान्येकार्थिकानि परमेतेष्वेकार्थिकेषु व्यवहारपञ्चकमागमश्रुताज्ञाधारणाजीतलक्षणं न दृष्टम्-नोपात्तं जीतस्यैव केवलस्योपत्तत्वात्, अत्र सूरिराह-भण्यते-अत्रोत्तरं दीयते। अत्रैव-एतेष्वेव एकार्थिकषु तत्-व्यवहारपञ्चकमन्तर्गतमेव द्रष्टव्यम्। कथमित्याहआगमसुया उसुत्तेण, सूइया अत्थतो उतिचउत्था। बहुजणमाइग्नं पुण, जीवं उचिगं ति एगटुं सूत्रेण-सूत्रशब्देन सूचिते आगमश्रुते-आगमश्रुतव्यवहारौ, तथाहिआगमव्यवहारिणः षट् / तद्यथा-केवलज्ञानी मनः पर्यायज्ञानी अवधिज्ञानी चतुर्दशपूर्वी दशपूर्वी नवपूर्वी च / श्रुतव्य-वहारिणोऽप्यशेषपूर्वधरा एकादशाङ्गधारिणः कल्पव्यवहारादिसूत्रार्थतदुभयविदश्च / ततो भवति सूत्रग्रहणेनागमश्रुतव्यवहारयोग्रहणं चतुर्दशपूर्वादीनां कल्पव्यवहारादिच्छेदग्रन्थानामपि च सूत्रात्मकत्वात्। तथा अर्थतःअर्थशब्देन सूचितौ त्रिचतुर्थी-तृतीयचतुर्थावाज्ञाधारणालक्षणौ व्यवहारौ। व्य०१उ०। (आज्ञाव्यवहारः 'आणा' शब्दे द्वितीयभागे 122 पृष्ठे गतः।) (धारणाव्यवहारः 'धारणाववहार' शब्दे चतुर्थभागे 2746 पृष्ठे गतः। जीतव्यवहा-रश्च'जीयववहार' शब्दे चतुर्थभागे 1513 पृष्ठे गतः।) (3) व्यवहारा धारणादयःकइविहे णं मंते ! ववहारे पण्णते ? गोयमा! पंचविहे ववहारे पण्णत्ते, तं जहा-आगमे,सुए,आणा, धारणा, जीए। जहा से तत्थ आगमे सिया आगमेणं ववहारं पट्ठवेला णो य से तत्थ आगमे सिया। जहा से तत्थ सुए सिया सुएणं ववहारं पट्टवेजा, णो वा से तत्थ सुए सिया। जहा से तत्थ आणा सिया आणाए ववहारं पट्ठवेजा, णो य से तत्थ आणा सिया / जहा से तत्थ धारणा सिया धारणाएणं ववहारं पट्टवेया,णोय से तत्थ धारणा सिया।जहा से तत्थजीए सियाजीएणं ववहारं पट्टवेखा, इचेएहिं पंचहिं जा ववहारं पट्टवेजा, तं जहा-आगमेणं सुएणं आणाए धारणाए जीएणं / जहा जहा से आगमे सुए आणा धारणा जीए तहा तहा ववहारं पट्टवेजा। से किमाइ भंते ! आगमवलिया समणा णिग्गंथा इचेयं पंचविहं ववहारं जहा जहा जहिं जहिं तहा तहातहिं तहिं अणिस्सिओवसितं सम्मं ववहारमाणे समणे णिग्गंथे आणाए आराहए भवइ / (सू०-३५०) 'कइविहे ण' मित्यादि, व्यवहरणं व्यवहारो-मुमुक्षुप्रवृत्तिनिवृत्ति-रूपः इह तु तन्निबन्धनत्वात् ज्ञानविशेषोऽपि व्यवहारः, तत्र आगम्यन्ते परिच्छिद्यन्ते अर्था अनेनेत्यागमः-केवलमनः पर्यायावधिपूर्वचतुर्दशकदशकनवकरूपः, तथाश्रुतं-शेषामाचारप्रकल्पादिनवादिपूर्वाणां च श्रुतत्वेऽप्यतीन्द्रियार्थेषु विशिष्टज्ञानहेतुत्वेन सातिशयत्वादागमव्यपदेशः केवलवदिति, तथा आज्ञायद्गीतार्थस्य पुरतो गूढार्थपदैर्देशान्तरस्थगीतार्थनिवेदनायातीचारालोचनमितरस्यापि तथैव शुद्धिदानम् / तथा धारणागीतार्थसंविग्नेन द्रव्याद्यपेक्षया यत्रापराधे यथा या विशुद्धि कृता तामवधार्य यदगुप्तमेवालोचनदानस्तत्रैव तथैव तामेव प्रयुक्त इति वैयावृत्त्यकरादेर्वा गच्छोपग्रहकारिणोऽशेषानुचितस्य प्रायश्चित्त-पदानां प्रदर्शितानां धरणमिति, तथा जीतं-द्रव्यक्षेत्रकालभावपुरुषप्रतिसेवानुवृत्त्या संहननधृत्यादिपरिहाणिमवेक्ष्य यत्चयश्चित्तदानं, यो वा यत्र गच्छे सूत्रातिरिक्तः कारणतः प्रायश्चित्तव्यवहारः प्रवर्तितो बहुभिरन्यैश्वानुवर्तित इति / आगमादीनां व्यापारणे उत्सर्गापवादावाह- 'जहे' त्यादि,यथेति यथाप्रकारः केवलादीनामन्यतमः 'से' तस्य व्यवहर्तुः स चोक्तलक्षणो व्यवहारस्तत्र तेषु पञ्चसु व्यवहारेषु मध्ये तस्मिन् वा प्रायश्चित्तदानादिव्यवहारकाले व्यवहर्तव्ये वा वस्तुनि विषये आगमः-- केवलादिः-स्याद्भवेत् तादृशेनेति शेषः। आगमेन व्यवहारं प्रायश्चित्तदाना दिकं प्रस्थापयेत्-प्रवर्तयेत् न शेषैः आगमेऽपि षड्डिधे केवलेनाबन्ध्यबोधत्वात्तस्य तदभावे मनः पर्यायेण एवं प्रधानतराभावे इतरेणेति। अथ नो-नैव चशब्दो-यदिशब्दार्थः, 'से' तस्य स वा तत्र व्यवहर्तव्यादावागमः स्यात् यथा-यत्प्रकारम् 'से' तस्य तत्र व्यवहर्त्तव्यादौ श्रुतं स्यात्,तादृशेन श्रुतेन व्यवहारं प्रस्थापयेदिति, 'इचेएहिं' इत्यादि निगमनम्, सामान्येन-'जहा जहा से' इत्यादितु विशेष-निगमनमिति, एतैर्व्यवहर्तुः फलं प्रश्नद्वारेणाह-'से किमित्यादि, अथ किं हे भदन्त ! भट्टारका आहुः-प्रतिपादयन्ति ? ये आगम-बलिकाः-उक्तज्ञानविशेषबलवन्तः श्रमणा-निर्ग्रन्थाः केवलि-प्रभृतयः 'इयेयं' ति इत्येतद् वक्ष्यमाणम्, अथवा-इत्येवमिति एवं प्रत्यक्षं पञ्चविधं व्यवहारं प्रायश्चित्तदानादिरूपम् ‘सम्म ववहरमाणे' त्ति सम्बध्यते,व्यवहरन् प्रवर्त्तयन्नित्यर्थः, कथम् ? 'सम्म' ति-सम्यक् तदेव कथम् ? इत्याहयदा यदायस्मिन्यस्मिन्नवसरे यत्र यत्र प्रयोजनेवा क्षेत्रे वायोय उचितस्तं तमिति शेषः तदा तदा काले तस्मिस्तस्मिन्प्रयोजनादौ, कथम्भूतम् ? इत्याह-('अणिस्सिओवसितं' इत्यादिसूत्रावयवम् 'अणिस्सिओवस्सिय' शब्दे प्रथमभागे 338 पृष्ठ व्याख्यातम्) आज्ञाया जिनोपदेशस्या-राधको भवतीति, हन्त ! आहुरेवेति गुरुवचनं गम्यमिति। अन्ये तु-'से किमाहु भंते ' इत्याद्येवं व्याख्यान्ति-अथ किमाहुर्भदन्त ! आगमबलिकाः श्रमणा निर्ग्रन्थाः पञ्चविधव्यहारस्य फलमिति शेषः। भ० ८श०८ उ०॥