SearchBrowseAboutContactDonate
Page Preview
Page 925
Loading...
Download File
Download File
Page Text
________________ ववसाय 101 - अमिधानराजेन्द्रः - भाग 6 ववहरियव्व नयस्य सर्वसमयेष्वपि भावादिति॥१०॥ स्था०३ ठा०३ उ०। ववसायसभा-स्त्री०(व्यवसायसभा) व्यवसायनिबन्धनभूता सभा व्यवसायसभा / रा०ा व्यवसायार्थसभायाम्, यत्र पुस्तकवाचनतो व्यवसायं-तत्त्वनिश्चयं करोति देवेन्द्रादिः / स्था०५ ठा०३ उ०। तीसे णं अलंकारियसभाए उत्तरपुरत्थिमे णं महेगा ववसायसभा पण्णत्ता, जहा ववसायसभा०जाव सीहासणं सपरिवारमणिपेढिया। रा० ववसिय-न०(व्यवसित) भावेक्तः।व्यवसाये, ज्ञा०१श्रु० १०सौधर्मे, कल्प०१ अघि०३ क्षण / कर्तरि क्तः / त्रि०। अभ्युपगत-व ति, व्य० | ३उन ववहरण-न०(व्यवहरण) व्यवहारे, व्यवहियत इति व्यवहरणम् / बहुलवचनात् कर्मण्यनट् / व्यवहरणीये, द्रव्यादौ, व्य०१ उ०) ववहरियव्व-त्रि०(व्यवहर्त्तव्य) व्यवहा निष्पाद्ये कार्ये, व्य०। (भाष्यम्)ववहरियव्वं कर्ज, कुम्भादितियस्स जह सिद्धी।२। व्यवहारेण-हेतु (करण) भूतेन व्यवहरन्कर्ता यन्निष्पादयति कार्यं तद् व्यवहर्तव्यमित्युच्यते, तथा चाह-"ववहरियव्वं कज्ज'' यत्कार्य कर्तव्यं व्यवहारेण तद् व्यवहर्तव्यं, व्यवहर्त्तव्यकार्ययोगात् पुरुषा अपि व्यवहर्त्तव्याः, ततः प्रागुक्तम्-"ववहरियव्वा यजे जहा पुरिसा" इति। अथ कथं व्यवहारग्रहणेन व्यवहारी व्यवहर्त्तव्यश्च सूच्यते , न खलु देवदत्तग्रहणे यज्ञदत्तस्य सूचा भवतीति / तत आह-'कुम्भादितियस्स जह सिक्री'कुम्भ आदिरेषामिति कुम्भादयस्तेषां त्रिकं कुम्भादित्रिकम्, तस्य यथा सिद्धिः, कुम्भ ग्रहणेन तथा कुम्भ इत्युक्ते सकृतकः इति तस्य कर्ता कुलालः, करणं मृचक्रादि सामर्थ्यात् सूच्यते (तन्यते), कृतकस्यासतः कर्तृकरणव्यतिरेकेणासंभवात्। एवमत्रापि, व्यवहार इत्युक्ते व्यवहारी, व्यवहर्त्तव्यश्च सूच्यते। करणस्यापि सकर्मकक्रिया साधकतमरूपस्य कर्मकर्तृव्यतिरेकेणासंभवादिति त्रितयसिद्धिः। तदेवमेकग्रहणे सामर्थ्यादितरस्यद्वयस्य ग्रहणं भवतीत्येतत्सामान्येन सनिदर्शनमुक्तम्। सम्प्रति करणग्रहणेऽवश्यं कर्तृकर्मग्रहणं भवतीत्यर्थे निदर्शनमाहनाणं नाणी नेयं, अन्ना वि य मग्गणा भवे तितए। विविहं वा विहिणा वा, ववहरणं चेव ववहारो॥३॥ मार्गणा भवति। तामेवाह-'नाणं नाणी नेयं' इति / तत्र ज्ञायते वस्तु परिच्छिद्यते अनेनेति ज्ञानम्, तत्र यथा ज्ञानमित्युक्ते ज्ञानिनो ज्ञानक्रिया कर्तुज्ञेयस्य च--ज्ञानक्रियाविषयस्य परिच्छेद्यस्य सिद्धिर्भवति / तद्वितयसिकिद्धमन्तरेण ज्ञानस्य ज्ञानत्वस्यैवासंभवादेवमत्रापि व्यवहारग्रहणेन व्यवहारी व्यवहर्तव्यश्च सूच्यते इति; भवति त्रितयस्याप्युपक्षेपः / एका तावन्मार्गणा त्रितयविषया-कुम्मादित्रिकसिद्धिदृष्टान्तेन प्रागभिहिता। वाशब्दः प्रकारान्तरे। अथवा-इयमन्या त्रितयविषया। तदेवं संक्षेपतो व्यवहारादिपदत्रयस्य प्ररूपणा कृता।व्य०१३०१प्रका (आभवंते य पच्छित्ते, ववहरियव्वं समासतो दुविहं" / व्य०१० उ०। इति ववहार' शब्दे व्याकरिष्यते) निक्षेपः-संप्रति व्यवहर्तव्याः-ते च नामादिभेदाचतुर्दा। तद्यथा-नामव्यवहर्तव्याः, स्थापनाव्यवहर्त-वया, द्रव्यव्य-वहर्तव्या, भावव्यवहर्तव्याश्च। तत्र नामस्थापने प्रतीते। द्रव्यव्य-- वहर्त्तव्याः अपि द्विधा-आगमतो, नोआगमतश्चातत्राऽऽगमतो व्यवहर्तव्यशब्दार्थज्ञास्ते चानुपयुक्ता नोआगमतोऽपि त्रिधा-ज्ञशरीरभव्यशरीररूपाः प्रसीताः। तद्व्यतिरिक्तास्तु द्विधा-लौकिकाः, लोकोत्तरिकाश्च / भावव्यवहर्त्तव्या द्विधा-आगम-नो-आगमभेदात्। तत्र आगमतो व्यवहर्त्तव्यपदार्थज्ञाः सूत्रे चोपयुक्ताः, नोआगमतो, लौकिका लोकोत्तरिकाश्च / तत्रलौकिकद्रव्यभावव्यवहर्त्तव्यप्रतिपादनार्थमाहलोए चोराईया, दव्वे भावे विसोहिकामाओ। जायमयसूतकादिसु, निजूढापायकहयाओ॥१७॥ लोके-लोकविषया व्यवहर्त्तव्या द्विधा, तद्यथा-द्रव्यव्यवहर्त्तव्याः, भावव्यवहर्तव्याश्च / तत्र द्रव्ये-द्रव्यव्यवहर्तव्याः -चौरादयः, चौराःतस्कराः,आदिशब्दात्-पारदारिकघातकहेरिकादिपरिग्रहः। ते हि चौर्यादिकं कृत्वाऽपिन सम्यक् प्रतिपद्यन्ते। बलात् प्रतिपाद्यमानाः, अपि न भावतो विशोधिमिच्छन्ति, ततस्ते द्रव्यव्यवहर्त्तव्याः। भावे-भावविषया व्यवहर्त्तव्या विशोधिकामा एव / तुशब्दस्य एव-कारार्थत्वात् विशोधौ कामोऽभिलाषा येषां ते विशोधिकामाः, कथमस्माकमेतत्कुकर्मविषया विशुद्धिर्भविष्यतीति विशुद्धिप्रत्यभ्युद्गतभावाव्यवहर्तव्या इति भावः। न केवलं द्रव्यव्यवहत-व्याश्चौरादयः, किं तु- 'जायमयसूयगाइसु निजूढा' इत्यादि सूतकशब्दः प्रत्येकमभिसंबध्यते। जातसूतके नाम जन्मानन्तरंदशाहानियावत्, मृतकसूतकं नाम-मृतानन्तरं दश दिवसान् यावत्। तत्रजातकसूतके मृतकसूतके वा आदिशब्दात्-तदन्येषु तथाविधेषु शूद्रगृहादिषु ये कृतभोजनाः सन्तोधिग्जातीयैर्नियूंढा असंभाष्याः कृतास्तथा ये पातकहताश्चपातकेन ब्रह्महत्या-लक्षणेन मातापित्रादिघातलक्षणेन वाहताः पातकहताः। एते हि द्वयेऽपि यदानस्वदोष प्रतिपद्यन्ते, प्रतिपद्यमाना वा नसम्यगा-लोचयन्ति; किन्तु-व्याजान्तरेण कथयन्ति तदा द्रव्यव्यवहर्त्तव्याद्रष्टव्याः। तथाहि-"एगो धिजाइतो उरालाएण्हुसाए चंडालीए वा अज्झोववण्णो, ततोतं काएण फासेत्ता पायच्छित्तनिमित्तं चतुव्वेयमुवट्ठितो भणइ-सुमिणे पहुसं चंडालिं वा गतोमि'' त्ति। एवमादयोऽपि द्रव्यव्यवहर्तव्याः। तथा चाहफासेऊण अगम्म, भणाइ सुमिणे गओ अगम्मं ति। एमादिलोयदवे, उज्जूपुण होइ भावम्मि||१८|| स्पृष्ट्वा कायेनेति गम्यते। अगम्यां-स्नुषां चाण्डाल्यादिकां वा स्त्रियमिति शेषः। भणति प्रायश्चित्तनिमित्तं चतुर्वेदमुपस्थितः सन्, यथा-स्वप्नेगतोऽगम्यामिति,एवमादयः। आदिशब्दात्-अपेयम्-सुरादिकं पीत्वा प्रायश्चित्तनिमित्तं चतुर्वेदमुपस्थितोब्रूते-स्वप्ने अपेयपानं कृतवानहमित्यादिपरिग्रहः। 'लोयदव्व' ति लौकिका द्रव्यव्यवहर्त्तव्याः ‘उज्जू पुण होइ भावम्मि' अत्र सामान्यविवक्षाया-मेकवचनम्। ततोऽयमर्थः-तएव जातमृतसूतकादिनियूंढादय ऋजवः सन्तोयदासम्यगालोचयन्तितदा भावे-भावविषयालौ---
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy