________________ वद्धमाण 881 - अभिधानराजेन्द्रः - भाग 6 वद्धमाणय म्मतिवृत्तये / सम्म०१ काण्ड। "जो देवाण वि देवो, जं देवा पंजली नमसंति / तं देवदेवमहियं, सिरसा वंदेमहावीरं // 1 // " ल०।" नमः श्रीवर्द्धमानाय, वर्द्धमानाय पर्ययैः / उक्ताचार-प्रपञ्चाय, निष्प्रपञ्चाय तायिने।।१॥" आचा०२ श्रु०१चू०२ अ०१उ०।"इक्को विनमुक्कारो, जिणवरवसहस्स वद्धमाणस्य। संसारसागराओ, तारेइ नरं वा नारिं वा ||1 // " आव० 5 अ० / स्कन्धारोपितपुरुष, भ०६ श०३३ उ०। कल्प० / त्रि० / कृताभिमाने, औ०। नपुं०। अनन्तजिनतीर्थकरस्य प्रथमभिक्षाालाभस्थाने, आ० म०१ अ०।। वद्धमाणगणि पुं० (वर्द्धमानगणिन) कुमारविहारप्रशस्तिग्रन्थ-कर्त्तरि हेमचन्द्रचार्यशिष्ये, जै० इ०॥ वद्धमाणय न० (वर्द्धमानक) वर्द्धम इति वर्द्धमानं तदेव वर्द्धमानकम, संज्ञायां कन्प्रत्ययः / बहुबहुतरे बन्धनप्रक्षेपादभिवर्धमानज्वलनज्वालाकलाप इव पूर्वावस्थातो यथायोगं प्रशस्तप्रशस्ततराध्यवसायिनो वर्धमाने अवधिज्ञाने, एतत्किलाङ्गुलासंख्येयभागादिविषयमुत्पद्य पुनर्वृद्धिविषयविस्तरेणात्मिकां याति, यावदलोके लोकप्रमाणान्यसंख्येयानि खण्डानीति। कर्म०। कर्म०१ कर्म०। से किं तंवद्धमाणयं ओहिनाणं? वड्डमाणयं ओहिनाणं पसत्थेसु अज्झवसाणट्ठाणेसु वट्टमाणस्स वड्डमाण चरित्तस्स विसुज्झमाणस्स विसुज्झमाणचरित्तस्ससव्वओ समंता ओही वड्डइ। "जावहअतिसमयाहा-रगस्स सुहमस्स पणगजीवस्स। ओगाहणा जहन्ना, ओहीखित्तं जहन्नं तु // 4 // सव्वबहुअगणिजीवा, निरंतरं जत्तियं भरिलंसु। खित्तं सव्वदिसागं, परमोही-खेत्तनिहिट्ठो॥॥ अंगुलमावलिआणं,भागमंसणिज दोसु संखिज्जा। अंगुलमावलिअंतो, आवलिआ अंगुलपुहत्तं / / 10 / / हत्थम्मि मुहुत्तंतो, दिवसंतो गाउअम्मि बोद्धव्वो। जोयणदिवसपुहुत्तं, पक्खंतो पन्नवीसाओ॥११॥ भरहम्मि अदूमासो, जंबुद्दीवम्मि साहिओ मासो। वासंच मणुअलोए, वासपुहुत्तं च रुअगम्मि।।५२|| संखिज्जम्मि उकाले, दीवसमुद्दा वि हुंति संखिजा। कालम्मि असंखिजे,दीवसमुद्दा उ भइअव्वा // 53 // काले चउण्ह वुड्डी, कालो भइअव्वुखित्तवुड्डीए। वुड्डीऍ दव्वपज्जव-भइअव्वा खित्तकालाय॥५४|| सुहुमो अ होइ कालो, तत्तो सुहुमयरं हवइ खित्तं / अंगुलसेढीमित्ते,ओसप्पिणिओ असंखिजा॥५५॥" सेत्तं वङ्घमाणयं ओहिनाणं / / (सू०-१२) अथ किं वर्द्धमानकवधिज्ञानम् ? सूरिराह-वर्द्धमानकमवधिज्ञानं प्रशस्तेष्वध्यवसायस्थानेषु वर्तमानस्य, इह सामान्यतो द्रव्यलेश्योपरिञ्जतं चित्तमध्यवसायस्थानमुच्यते, तच्चानवस्थितम्, तत्तलेश्याद्रव्यसाचिव्ये विशेषसम्भवात्, ततो बहुवचनमुक्तम् 'प्रशस्तेष्वि' ति, अनेन चाप्रशस्तकृष्णादि-द्रव्यलेश्योपरञ्जितव्यवच्छेदमाह-प्रशस्ते ष्यध्यवसायेषु वर्तमानस्येति। किमुक्तं भवति? प्रशस्ताध्यवसायस्थानकलि-तस्य सर्वतः समन्तादवधिः परिवर्द्धते, इति सम्बन्धः। अने-- नाविरतसम्यग्दृष्टरपि परिवर्द्धमानकोऽवधिर्भवतीत्याख्यायते, तथा'वद्धमाणचरित्तस्स'--प्रशस्तेष्वध्यवसायस्थानेषु वर्द्धमानचरित्रस्य, एतेन देशविरतसर्वविरतयोवर्धमानकमवधिमभिधत्ते / वर्धमानकश्यावधिरुत्तेरोत्तरां विशुद्धिमासादयतो भवति नान्यथा, तत आहविशुद्धमानस्य-तदावरणकमलक-लङ्कविगमत, उत्तरोत्तरविशुद्धिमासादयतः, अनेनाविरत सम्यग्दृष्टवर्द्धमानकावधेः शुद्धिजन्यत्वमाह, तथा-- 'विशुद्ध्यमानचरित्रस्यच, 'इदंच विशेषणं देशविरतसर्वविरतयोर्वेदितव्यम् सर्वतः-सर्वासु दिक्षु समन्तादवधिः परिवर्द्धते / स च कस्यापि सर्वजघन्यादारभ्य प्रवर्द्धते / ततः प्रथमतः सर्वजधन्यमवधिप्रतिपादयति-सिमयाहारकस्य आहारयति / आहारं गृह्वातीत्याहारकः, त्रयः समयाः समयाः समाहृतास्त्रिसमयम्, त्रिसमयमाहारकस्त्रिसमयाहारकः।'नामनाम्नैकार्थेसमासो बहुल' मितिसमासः, तस्य त्रिसमयाहारकस्य सूक्ष्मस्य-सूक्ष्मनामकर्मोदयवर्त्तिनः, पनकजीवस्य-- पनकश्चासौ जीवश्च पनकजीवश्च,पनकजीवो वनस्पतिविशेषः, तस्य 'यावती यावत्परिमाणा अवगाहन्ते क्षेत्रंयस्यां स्थिता जन्तवः साऽवगाहनातुनरित्यर्थः, जघन्या-त्रिसमयाहारकशेषसूक्ष्मपनकजीवापेक्षया सर्वस्तोका, एतावत्परिमाणमवधेर्जघन्यं क्षेत्रम्, तुशब्द एवकारार्थः, स चावधारणे, तस्य चैवं प्रयोगः जधन्यमवधिक्षेत्रमेतावदेवेति / अत्र चायं सम्प्रदायः- यः किल योजनसहस्रपरिमाणायामो मत्स्यः स्वशरीरबायैकदेश एवोत्पद्यमानं प्रथमसमये सकलनिजशरीरसम्बद्धमात्मप्रदेशानामायाम संहृत्याङ्गुलासंख्येयभागबाहल्यं स्वदेहविष्कम्भायामविस्तारं प्रतरं करोति, तमपि द्वितीयसमये संहृत्याङ्गुलासंख्येयभागबाहल्यविष्कम्भां मत्स्यदेहविष्कम्भायाममात्माप्रदेशानां सूचिं विरचयति, ततस्तृतीसमये तामपि संहृत्याङ्गुलासंख्येयभाग-मात्र एव स्वशरीरबहिः प्रदेशे सूक्ष्मपरिणामफ्नकरूपतयोत्पद्यते, तस्योपपातसमयादारभ्य तृतीय समये वर्तमानस्य यावत्प्रमाणं शरीरं भवति तावत्परिमाणं जघन्यमवधेः क्षेत्रमालम्बनवस्तुभाजनमवसेयम्, उक्तंच"योजनसहस्रमानो, मत्स्यो मृत्वा स्वकायदेशे यः। उत्पद्यते हि पनकः, सूक्ष्मत्वेनेह सग्राह्यः॥१॥ संहृत्य चाद्यसमये, स ह्यायामं करोति च प्रतरम्। संख्यातीताख्याङ्गुल-विभागबाहल्यमानं तु / / 2 / / स्वकतनुपृथुत्वमात्र, दीर्घत्वेनापि जीवसामर्थ्यात्। तमपि द्वितीयसमये, संहृत्य करोत्यसौ सूचिम्॥३॥ संख्यातीताख्याङ्गुल-विभागविष्कम्भमाननिर्दिष्टाम् / निजतनुपृथुत्वदीर्घा, तृतीयसमये तु संहृत्य।।४।। उत्पद्यतेचपनकः,स्वदेहदेशे ससूक्ष्मपरिणामः। समयायेण तस्या-वगाहना यावती भवति / / 5 / / तावज्जधन्यमवधे-रालम्बनवस्तुभाजनं क्षेत्रम्। इदमित्थमेव मुनिगण-सुसम्प्रदायात् समवसेयम्॥६॥"