________________ वत्थ 873 - अभिधानराजेन्द्रः- भाग 6 वत्थ परिष्ठापनादेस्तु यथा कारणतो भूयोऽपि ग्रहणं क्रियते तथा व्यवहाराध्ययने भणिष्यते। गतमभिनवग्रहणम्। अथ पुराणग्रहणमुपस्थापितग्रहणं च वस्त्राद्यं तावदाहकोप्परपट्टगगहणं, वामकरनामियाए मुहपोत्ती। रयहरणहत्थिवंतु-नएहि हत्थेहुवट्ठाणं // 272 / / कूपराभ्यां चोलपट्टकस्य ग्रहणं कृत्वा वामकरसत्कया अनामिकया मुखपोत्तिकं गृहीत्वा रजोहरणं हस्तिदन्तोन्नताभ्यां हस्ताभ्यामादाय उपस्थापनं कर्तव्यं-शैक्षस्य व्रतस्थापना विधेयेत्यर्थः। अथोपस्थापितग्रहणमाहउवठावियस्स गहणं, अहभावे चेव तह य परिभोगे। एकेक पायादी, नेयव्वं आणुपुटवीए॥२७३।। उपस्थापितस्य यदुपकरणग्रहणं तत् द्विधा यथाभावः परिभोगश्च, अनेन च द्विविधेनापि ग्रहणेन एकैकं पात्रादिकमानुपूर्व्या-परिपाट्या नेतव्यम्। इदमेव भावयतिपडिसामियं तु इच्छा, पायाई एस हों ति जहभावो। सद्दष्वपाणमिक्खा, निल्लेवण पायपरिभोगे / / 275|| यत्पात्रादिकं प्रतिस्वामिकं विवक्षितसाधुलक्षणेन स्वामि-प्रतिगृहीतं सत् आस्ताम् तदानीं परिभुज्यते एष यथा-भावो भवति, स्वपरिग्रहे धारणीयमित्यर्थः। परिभोगो नाम यत्पात्रादि यस्यां वेलायां परिभुज्यते ता सत् शोभनमाचार्यादिप्रायोग्यं यद् द्रव्यं यच्च पानकं भैक्षं चात्मनो योग्यं तत्रा गृह्यते, निर्लेपनं च आचमनं तेन विधीयते एष पात्रस्य परिभोगः / इह च पात्रा-शब्देन प्रतिगृहे मात्रक वा गृहीतम्। तथापाणिदयासीयमत्थुय, मपज्जचिलिमिलिनिसिन कालगते। गेलनमज्जअमहु, च्छेअणसागारिए भोगो॥२७५।। वर्षाकल्पादिकं प्राणिदयार्थमकायादिजीवरक्षानिमित्तं परिभोगे वैरिणं व्यापाद्यात्मनः सुखमुत्पादयिष्यामीत्यादि, अतस्तत्त्वतः परिणामवैचित्र्यप्रत्यय एवात्रापि कर्मबन्धविशेष इति न किंचिदनुपपन्नम् / उत्कं निर्वर्तनाधिकरणम्। अथ संयोजनाधिकरणमाह - संयोजना य कूडं, हलं पडं ओसहे य अण्णोण्णे / भोयणविहिं च अण्णे, तत्थ विणाणत्तगं बहुहा / / 276 / / कश्चिल्लुब्धको मृगादीनां बन्धनाय कूटं रजवादिकमासं-योजयति। अपरो हालिकादिक्षेत्राकर्षणाय हलं युगादिना योजयति / अन्यस्तु पट पटान्तरेण सह सीवनप्रयोगेण संयुनत्कि। कश्चित्तु वैद्यादिरोषधानि हरीतकीपिप्पलीप्रभृतीनि विधिं शालिदालिघृतशालनकादिकं संयुनक्ति / तत्रापि कर्मबन्ध-विशेषस्य बहुधा नानात्वं प्रतिपत्तव्यम्, तथाहि-यः कूट संयो-जयति तस्य संल्किष्टपरिणामतया तीव्रतरः कर्मबन्धस्तदपेक्षया हलं संयोजयतः स्वल्पतरः, पटं संयोजयतः स्वल्पतमः इत्यादि स्वबुद्ध्या सम्यगुपयुज्य वक्तव्यम्। अथ निर्वर्तनासंयोजने द्वे अपि यत्रा सम्भवतः तान्युपदर्शयतिनिव्वत्तणा य संजो-जणाय सगडाइएसु अ भवंति। आसञ्जत्तरकरणं, णिवत्ती मूलकरणं तु // 227 // निवर्त्तना च संयोजनाच शकटादिषु द्वे अपि भवतः। तथाहि-शकटाङ्गानां द्विचक्रप्रभृतीनां या प्रथमतो घटना सा निर्वर्तना, पुनस्तेषामेव निवर्तितानामेकत्र संघातना सा संयोजना। अत्र चोत्तरकरणं संयोजनारूपामुत्तरक्रियामासाद्यप्रतीत्य निर्वृत्तिः-प्रथमतो निवर्त्तना मूलकरणं प्रतिपत्तव्यम् / गतमधिकरणद्वारम्। अथ वीर्यद्वारमाहदेहबलं खलु विरियं,बलसरिसो चेव होति परिणामो। आसज्ज देहविरियं, छट्ठाणगया तु सव्वत्तो॥२७८|| यद्देहबलं संहननजनितं शरीरसामर्थ्यं तत् खलु वीर्य मन्तव्यम्, तस्य च बलस्य सदृश एव प्राणिनां परिणामो भवति, तथाहि-यः सेवार्तसंहननो जघन्यबलो जीवस्तस्य परिणामःशुभोऽशुभोवा मन्द एव भवति नतीव्रः, ततः शुभाशुभकर्मबन्धोऽपि तस्य स्वल्पतर एव / अत एवास्योर्ध्वगतौ कल्पचतुष्टयादूर्ध्वमधोगतौ नरकपृथ्वीद्वयादध उपपाते भवतीति प्रवचने प्रतिपाद्यते, एवं कीलिकासंहननेष्वपि भावना कार्या / इदं च देहवर्षमासाधप्राप्य षट्स्थानगताः सर्वतः सर्वेष्वपि संहननेषु प्राणिनः परस्पर भवन्ति। तथाहि-सेवासंहननेषु ये सर्वजघन्यबलास्तदपेक्षया अपरेऽनन्तभागवृद्ध्या असंख्यातभागवृद्ध्या संख्यातभागवृद्ध्या अनन्तगुणवृद्ध्या असंख्यात- गुणवृद्ध्या संख्यातगुणवृझ्या वा भवन्ति, एवं कीलिकादिष्वपि। यतः षट्स्थानपतिताःप्राणिनः अतो देहबलवैचित्र्येण परिणामवैचित्र्यात् कर्मबन्धोऽपि विचित्रो भवतीति स्थितम्। बलद्वारमेव प्रकारान्तरेण व्याचष्टेअथवा बालाऽऽदीयं,तिविहं विरियं समासतो होति। बंधविसेसो तिण्ह वि, पंडियबंधी अबंधी वा // 276 / / अथवा–वीर्यं बालादिभेदात् त्रिविधम्, तत्र बालस्यासंयतस्य प्राणातिपाताद्यसंयमकरणे यद्वीर्यं तद्वालवीर्यम्, बालपण्डितस्य देशविरतस्य संयमासंयमविषयं वीर्य बालपण्डित–वीर्यम, पण्डितस्य सर्वविरतस्य सर्वसंयमविषयं वीर्य पण्डित-वीर्यम्, एतलिाविधं वीर्य सभासतो भवति, एषां त्रयाणामपि बन्धविशेषस्तद्यथा-बालवीर्यवान् प्रभूततरं कर्म बध्नाति, बालपण्डितवीर्यवान् अल्पतरम्, पण्डितवीर्यवान् अल्पतमम्। सच पण्डितो द्विधा-बन्धः, अबन्धो वा / प्रमादादीनां कर्म-बन्धहेतूनां क्वापि कियतां सद्भावादवश्यं बध्नातीति बन्धी, "णिन् चावश्यकाधमये' इति णिन् प्रत्ययः / न बन्धी अबन्धी, तत्र प्रमत्तसंयतमादौ कृत्वा सयोगिकेवलिनं यावत् बन्धकः, अयोगिकेवली तु नियमादबन्धकः / गतं वीर्यद्वारम्। __ अथोपसंहरन्नाहतम्हाण सव्वजीवा, उबंधणइ णेव बंधणा तुल्ला। अधिकिच संपरायं,इरियावहिबंधगा तुल्ला॥२०॥