________________ वत्थ 572- अमिधानराजेन्द्रः - भाग 6 वत्थ विरतो पुण जो जाणं, कुणति अजाणं च अप्पमत्तोय। तत्थ वि अज्झत्तसमा, संजायति णिज्जराण चओ॥२६२।। यः पुनर्विरतः- प्राणातिपातादेर्निवृत्तः स जानानोऽपि स–दोषामिदमित्यवबुध्यमानोऽपि गीतार्थतया द्रव्यक्षेत्राद्यागाढेषु प्रलम्बादिग्रहणेन हिंसां करोति / यद्वा-न जानाति परम्, अप्रमत्तो-विकथादिप्रमादरहितः, उपयुक्तः सन् यत्कदाचित्प्राण्युपघातं करोति, ताप्यध्यात्मसमा चित्तप्रणिधानतुल्या निर्जरा संजायते / यस्य यादृशः तीव्रो मन्दो मध्यमोवा शुभा-ध्यवसायस्तस्य तादृश्येव कर्मनिर्जरा भवतीति भावः / 'न चओ' त्ति न पुनश्चयः कर्मबन्धः सूक्ष्मो भवति प्रथमस्य भगवदाज्ञया यतनया प्रवर्त्तमानत्वात्, द्वितीयस्य तुप्रमादरहि-तस्याजानतः कथं प्राण्युपघातनं, तद्भावाऽदुष्टत्वात्। अथ भावद्वारमाह-- एगो खओवसमिए, वट्टति भावेऽपरो उ ओदइए। तत्थ विबंधविसेसो,संजायति भावणाणत्तं // 263|| एकः कोऽपि क्षायोपशमिके भावे वर्तते अपरश्चौदयिके तत्रापि बन्धविशेषः संजायते भावनानात्वात्। तथाहि-य औदयिके भावे वर्त्तते यतीव्रतरं कर्मोपचिनोति, यस्तु क्षायोपशमिके समन्दतरमिति। एमेव ओवसमिए,खओवसमिए तहेव खइए य। बंधाऽबंधविसेसो,ण तुल्लबंधाय जे बन्धा // 26 // एवमेवौपशमिके-क्षायौपशमिके तथैव क्षायिके च भावे बन्धाबन्धविशेषाः सम्यगुपयुज्य वक्तव्याः / येऽपि बन्धिनः- कर्मबन्धका जीवास्तेऽपि नातुल्यबन्धकाः, किंतु-प्रकृकर्मबन्धका जीवास्तेऽपि नातुल्यबन्धकाः, किंतु-प्रकृतिस्थित्यनुभावप्रदेशैः परस्परविसदृशकर्मबन्धकाः। अथाधिकरणद्वारमाह - अहिकरणं पुवुत्तं, चउव्विहं तं समासओ दुविधं / णिव्वत्तणया एया, संयोगे चेवणेगविधं // 26 // अधिकरणं पूर्व-प्रथमोद्देशके यथा निर्वर्तनानिक्षेपणासंयोजनानिसर्जनाभेदाच्चतुर्विधमुक्तं तथैव ज्ञातव्यम्, नवरं तदधिकरणं समासतो द्विविधं भवति। तद्यथा-निर्वर्तनायां संयोगे चैव, संयोजनायां च पुनरेकैकमनेकविधं भवति। तत्र निर्वर्तनाधिकरणमनेकविधमुपदर्शयतिएगो करेति परसुं, णिव्यत्तेति णखछेदनं अवरो। कुंतकखग्गे या वज्जे, आरियसूई अ अवरो तु // 266|| एको लोहाकारः प -कुठारं करोति / अपरस्तु लोहकार आरिकां सूची वा करोति। तत्र यः कुठारकुन्तकरणकादीनि करोति स तीव्रकर्मबन्धभाक्, यस्तुनखछेदनारिकासूचीनिर्वर्त्तयतिसस्वल्पकर्मबन्धक इति। सूईसुपि विसेसे, कारणसूईस सिव्वणीसंच। संगामियपरियाणिय, एमेव यजाणमादीसं // 267 / / सूचीष्वपि विशेषो विद्यते, एकाः कारणसूच्यः अपराः सीवमसूच्यः / तत्र याः परव्यपरोपणादिकारणमुद्दिश्य कारयित्वा परस्य नखमूलादौ कुठ्यन्ते ताः कारणसूच्य उच्यन्ते, तासु विधीयमानासु महान् कर्मबन्धो भवति। यास्तु वस्त्रसीवनार्थं क्रियन्तेतासुस्वल्पतरः कर्मबन्धः / एवमेव च यानादिष्वपि वक्तव्यम् / तथाहि-किमपि यानं सांग्रामिकं भवति, यत्रा-रूढः संग्रामः क्रियते, अपरं तु पारियानिकम् / परियान-गमनं तत्प्रयोजनमस्येति पारियानिकम्, उद्यानदौ यस्मिन्नारूढैगम्यते। तत्र सांग्रामिकयानादीनि कुर्वतो महान् कर्मबन्धः। पारियानिकानि तुकुर्वाणस्याल्पतरः। आह-यदि नामाधिकरणं नैकविधं तत्तस्मिन्निमित्तः कर्मबन्धविशेषः कथमुपपद्यते? यावता परिणामवैचित्र्यप्रत्यय एवासाविष्यत इत्याहकारगकरेंतगाणं, अधिकरणं चेव तं तहा कुणति। जह परिणामविसेसो, संजायति तेसु वत्थूसु // 268|| उपकाराय कुर्वन्नसौ तदधिकरणमेव तथा तेन रूपेण करोति-बुद्धिमुपजनयति, यथा तेषु पशुनस्वच्छेदनादिषु वस्तुषु कार्यभाणेषु च परिणामविशेषः संल्किष्टासंल्किष्टरूपमध्यवसा यवैचित्र्यं संजायते, यथा कारयाम्यहमिदं पशुकुन्तवाणकादिकं ततोऽनेन तत्राध्यासितं बधमेव, यत् वस्त्रादेर्पाहणं पुराणस्य-प्रागगृहीतस्य चोलपट्टकादेः कूपरादिना ग्रहणं पुराणग्रहणम्, तच द्विधा-उपस्थापनाग्रहणमुपस्थितिग्रहणं च / तत्रोपस्थापनायां विधीयमानायां हस्तिदन्ताऽऽकारहस्तादिभिर्यद् रजोहरणादि गृह्यति तदुपस्थानाग्रहणम्, द्वितीयम्-उपधिस्थापितस्याच्छेदोपस्थापनीयचारित्रां प्रापितस्य यदुपधिधारणं परिभोगो वा तदुपस्थितिग्रहणम्। एनामेव गाथां व्याख्यानयतिओहोवहियोवगहियं, अभिनवगहणं तु होइ अचित्तं / इयरस्स वि होइ दुहा, गहणं तु पुराणउवहिस्स // 266 / / अचित्तस्य वस्त्रपात्रादेरभिनवग्रहणं द्विधा-ओघोपधिविधेयम्, औपग्रहिकोपधिविधेयं च / इतरस्यापि पुराणोपधिग्रहणं द्विधा-उपस्थापनाग्रहणमुपस्थितग्रहणं चेत्यर्थः।। अथवा अभिनवग्रहणमिदमनेकविधम् - जायणनिमतणुवस्सय, परियावन्नं परिदृवियनहूँ। पम्हहपडियगहियं, अभिनवगहणं अणेगविहं // 270 / / याञ्चा-अवभाषणं निमन्त्रणा गृहस्थानामभ्यर्चनापुरस्सरं यद्वस्त्रावग्रहणं यश्चोपाश्रये पर्यापन्नस्योपपध्यादिभिर्विस्मृत्य परित्यक्तस्य वस्त्रादेर्ग्रहणं यच्च परिष्ठापितस्य भूयः कारणे ग्रहणं तथा नष्टहारियं 'पम्हट्ठ'-विस्मृतं पतितं हस्तात्परिभ्रष्टं गृहीतं प्रत्यनीकेन बालदाच्छिद्य स्वीकृतम्, एतेषां पुनर्लब्धानां यद्ग्रहणमेवमादिकमनेकविधमभिनवग्रहणं मन्तव्यम्। अथवा याञ्चानिमन्त्रणाग्रहणयोर्विधिमतिदिशन्नाह -- जो चेव गमो हेट्ठा, उस्सग्गाई उ वण्णिओ गहणे। दुविहोवहिम्मि सो चिय, कास त्तिय किं न कीस त्ति // 271 / / यएव गमः-प्रकारोऽधस्तात्पीठिकायाम्, उत्सर्गादिः-कायोसाईदिको वस्त्रग्रहणविषयो वर्णितः स एवात्र द्विविधोपधेरौपधिकौपग्रहिकलक्षणस्य ग्रहणे कस्य सत्कमेतद्वस्त्रपात्रादिकं वा पूर्वमासीद्भविष्यति वा कस्माद्वा प्रयच्छसीति पृच्छाायपरिशुद्धो द्रष्टव्यः / उपाश्रयपर्यापन्नवस्वादिग्रहणविषयस्तु विधिरिहैवोद्देशके पुरस्तादभिधास्यते