________________ वणप्फ 808 - अभिधानराजेन्द्रः - भाग 6 वणप्फइ जो विय मूले जीवो, सो विय पत्ते पढमयाए॥२३२। बीजे योनिभूते इति-बीजं हि द्विविधं भवति योनिभूतम्, अयोनिभूतं च। अविध्वस्तयोनि, विध्वस्तयोनिचा प्ररोहसमर्थं तदसमर्थं चेत्यर्थः। तत्रा योनिभूतं सचेतनमचेतनं च, अयोनिभूतं तु नियमादचेतनमिति। तत्रा बीज योनिभूते इत्यनेनायोनिभूतस्य व्यवच्छेदमाह-तत्रोत्पत्यसंभवाद, अबीजवादित्यर्थः / योनिभूतेतु योन्यवस्थे बीजे, योनिपरिणा ममत्यजतीत्युत्कं भवति। किमित्याह-जीवो व्युत्क्रामति उत्पद्यते स एव पूर्वको बीजजीवः बीजनाम गोत्रो कर्मणि वेदयित्वा मूलादिनामगोत्रो चोपनिबध्य, अन्यो वा पृथिवीकायि कादिजीव एवमेव, 'योऽपि च मूले जीव' इति य एव मूलतया परिणमते जीवः सोऽपि च पो प्रथमतयेतिस एव प्रथमपत्रतयाऽपि परिणमतइत्येकजीवकर्तृक मूलप्रथमपो इति! आह-यद्येवम्-"सव्वो वि किसलओ खलु, उम्गममाणो अणंतओ भणिओ' इत्यादिकथन विरुध्यते ? इति, उच्यते-इह बीजोजीवोऽन्यो वा बीजमूलत्वेनोत्पद्य तदुच्छनावस्थां करोति, ततस्तदनन्तरभाविनी किशलयावस्थां नियमेनानन्ता जीवाः कुर्वन्ति, पुनश्च तेषु स्थितिक्षणात्परिणतेष्वसावेव मूल जीवोऽनन्तजीवतनुं परिणमय्य स्वशरीरतया तावद्वर्द्धते यावत् प्रथमपत्रामिति न विरोधः। अन्ये तुव्याचक्षते-प्रथमपत्रकमिह याऽसौ बीजस्य समुच्छूनावस्था, नियमप्रदर्शनमेतत्, शेष किसलयादि सकलं नावश्यं मूलजीवपरिणामाविर्भावितामिति मन्तव्यम् / ततश्च-'"सव्वो वि किसलयो खलु, उग्गमाणो अणंतओ भणिओ' इत्याद्यप्यविरुद्धं मूलपअनिर्वर्तनारम्भ काले किसलयत्वाभावादिति गाथार्थः। एतदेवाह भाष्यकार :विद्धत्थाऽविद्धत्था,जोणी जीवाण होइ नायव्या। तत्थ अविद्धत्थाए, वुक्कमई सो य अन्नो वा // 18 // विध्वस्ताऽविध्वस्ता-अप्ररोहप्रदोहसमर्था योनिर्जीवानां भवति ज्ञातव्या, तत्राविध्वस्तायां योनौ व्युत्क्रामति स चान्यो वा, जीव इति / गम्यत इति गाथार्थः। जो पुण मूले जीवो, सो निव्वत्तेइ जा पढमपत्तं / कंदाइजाव बीयं, सेसं अन्ने पकुवंति // 56 // यः पुनर्मूले जीवो बीजगतोऽन्यो वा स निर्वर्त्तयति यावत् प्रथमपत्रं तावदेक एवेति, अत्रापि भावार्थः पूर्ववदेव। कन्दादियावद्वीजं शेषमन्ये प्रकुर्वन्ति, वनस्पतिजीवा एव, व्याख्याद्वय पक्षेऽप्येतदविरोधि, एकतः समुच्छनावस्थाया एव प्रथमपातया विवक्षितत्वात्तदनुकन्दादिभावतः अन्या कन्दा देवनस्पतिभेदत्वात्तस्य च प्रथमपत्रोत्तरकालमेव भावादिति गाथार्थः। अतिदेशमाहसेसं सुत्तप्पासं, काए काए अहम बूया। अज्झयणत्था पंच य, पगरणपयवंजणविसुद्धा // 6 // शेष सूत्रस्पर्शम् उत्कलक्षणं काये कार्य-पृथिव्यादो यथाक्रमम्यथापरिपाटि ब्रूयात अनुयोगधरएव, न केवलं सूत्रास्पर्शमेव, किं तुअध्ययनार्थान् पञ्च च प्रागुपन्यस्तान् जीवाजीवाभिगमादीन् प्रकरणपदव्यञ्जनविशुद्धान ब्रूयात, सूत्राएवं जीवाभिगमः काये काये इत्यनेनैव लब्ध इति पञ्चग्रहणम्, अन्यथा षडिहार्थाधिकारा इति / प्रक्रियतेऽर्थोऽस्मिन्निति प्रकरणम्, अनेकार्थाधिकारवत्कायप्रकरणादि, पदम्सुवन्तादि, कादीनि-व्यञ्जानि, एभिर्विशुद्धान्ब्रूयादिति गाथार्थः / दश० 4 अ०। विशे०। स्था०। दर्श० आचा.। सूत्रका व्य०।०। एवं वनस्पतेश्चैतन्यं प्रदर्श्य तदारम्भे बन्धं तत्परिहाररुपविरत्या सेवनेन च मुनित्वं प्रतिपादयन्नुपसंजिहीर्षुराहएत्थं सत्थं समारंभमाणस्स इचेति आरंभा अपरिण्णता भवंति, एत्थ सत्थं असमारंभमाणस्स इचेते आरंभा परिण्णाया भवंति, तपरिण्णाय मेहावीणेव सयं वणस्सइसत्थं समारंभेजाणेवsण्णेहिं वणस्सइसत्थं समारंभावेजा णेवण्णे वणस्सइसत्थं समारंभंते समणुजाणेजा जस्सेते वणस्सति सत्थसमारंभा परिण्णाया भवंति से हु मुणी परिण्णायकम्मे त्तिबेमि। (सू०१७) 'एत्थसत्थ' मित्यादि एतस्मिन् वनस्पतौ शत्रं द्रव्यभावा ख्यमारभमाणस्येत्येते आरम्भा अपरिज्ञाता अप्रत्याख्याता भवन्ति, एतस्मिंश्च वनस्पतौ शस्त्रमसमारभमाणस्येत्येते आरम्भाः परिज्ञाताः प्रत्याख्याता भवन्तीति पूर्ववचर्चः यावत् स एव मुनिः परिज्ञातकर्मेति ब्रवीमि पूर्ववदिति / आचा०१ श्रु०१ अ०५ उ01 (वनस्पतिकायप्रतिसेवना 'मूलगुणपडिसेवणा' शब्दे अस्मिन्नेव भागे 358 पृष्ठेउत्का।) (वनस्पतयः कंकालं सर्वाल्पाहारकाः इति'आहार' शब्दे द्वितीय भागे 51 पृष्ठउत्कम्।) उत्पलादिजीवानाम् - उप्पल सालु पलासे, कुंभी नाली य पउमकण्णी य। नलिण सिव लोग काला, लंभि य दस दो य एकारे ||5|| 'उप्पले त्यादि, उत्पलार्थः प्रथमउद्देशकः 1, सालु' त्ति-सालूकम्उत्पलकन्दस्तदर्थो द्वितीयः 2, 'पलासे' ति पलाश:-किंशुकस्तदर्थस्तृतीयः 3 'कुंभि' त्ति वनस्पतिविशेष स्तदर्शश्चतुर्थः 4 'नाडी यत्ति नाडीवद्यस्य फलानि सनाडीको-वनस्पतिविशेष एव तदर्थः पञ्चमः 5 'पउम तिपद्यार्थः षष्ठः 6, कण्णी यत्ति कर्णिकार्थः सप्तमः ७'नलिण' त्तिनलिानार्थोऽष्टमः, यद्यपि चोत्पलपद्मनलिनानां नाम कोशे एकार्थतयोच्यते तथाऽपीह रुढे र्विशेषोऽवसेयः, 'सिव' त्ति शिवराजर्षिवक्तव्यतार्थो नवमः 6, 'लोग' त्ति लोकार्थो दशमः 10, 'कालालभिए' त्ति कालार्थ एकादशः 11 आलभिकायां नगर्यां यत्प्ररूपितं तत्प्रतिपादक उद्देशकोऽप्यालाभिक इत्युच्यते, ततोऽसौ द्वादशः, 12 'दस दो य एक्कारित्तिद्वादशोद्देशका एकादशेशते भवन्तीति। तत्र प्रथमोद्देशकद्वार संग्रहगाथा वाचनान्तरे दृष्टास्ताश्चेमाः"उववाओ १परिमाणं 2, अवहारु ३च्चत्त 4 बंध 5 वेदे या 6 /