________________ वणप्फइ 803 - अमिधानराजेन्द्रः - भाग 6 वणप्फइ रिण्टकबन्धुजीवकवाणकरवीरसिन्दुवारविचकिलजातियूथि कादयः, लतास्तुपद्मनागाऽशोकचम्पकचूतवासन्त्यतिमुत्क ककुन्दलताद्याः, वल्लयस्तुकुष्माण्डीकालिङ्गीत्रपुषीतुम्बी वालुकयेलुकीपटोल्यादयः, पर्वगाः पुनः-इक्षुवीरण्शुण्ठशरवेत्रा शतपर्ववंशनलवेणुकादयः, तृणानि तुश्वेतिकाकुशदर्भपर्वका र्जुनसुरभिकुरुविन्दादीनि, बलयानि चतालतमालतकलीशा लसरलाकेतकीकदलीकन्दल्यादीनि, हरितानि-- तन्दुलीयक धुयारुहवस्तुलबदरकमारिपादिकाचिल्लीपालक्यादीनि, औषध्यस्तु -शीलव्रीहिगोधूमयवकलममसूरतिलमुद्रमाष निष्पावक कुलत्थाऽतसीकुसुम्भकोद्रवकग्वादयः, जलरुहा-उदकावकपनकशैवलकलम्बुकापावककशेरुकोत्पलपद्मकुमुदन नलिनपुण्डरीकादयः, कुहुणास्तुभूमिस्फोटकाभिधानाः आयकायकुहुणकुण्हुक्कोद्देहलिकाशलाकासपच्छत्रादयः, एषां हि प्रत्येकजीवानां वृक्षाणां मूलस्कन्धकन्दत्वक्शालप्रवालादि ष्वसंख्येयाः प्रत्येक जीवाः, पत्राणि पुष्पाणि चैकजीवानिमन्त व्यानि, साधारणास्त्वनेकविधाः, तद्यथा-लोहीनिहुस्तुभायि काऽश्वकर्णीसिंहकर्णीशृङ्गवे रमालुकामूलककृष्णकन्दसूरणकन्दकाकोलीक्षीरकाकोलीप्रभृतयः / सर्वेऽप्येते संक्षेपात् षोढा भवन्तीत्युक्तम्। के पुनस्ते भेदा इत्याहअग्गबिया मूलविया, खंधबिया चेव पोरबीया य। बीयरुहा संमुच्छिम-समासओ वणप्फई जीवा।।१३०|| तत्र कोरिण्टकादयोऽग्रबीजाः, कदल्यादयो मूलबीजाः निहुशल्क्यरणिकादयः स्कन्धबीजाः, इक्षुवंशवेत्रादयः, पर्वबीजाः, बीजरुहाः शालिव्रीह्यादयः, सम्मूछेनजाः पद्मिनीश्टङ्गाटकपाठशैवालादयः, एवमेते समासात्तरुजीवाः षोढा कथिताः, नान्ये सन्तीति प्रतिपत्तव्यम्। किंलक्षणः पुनः प्रत्येकतरवो भवन्तीत्यत आहजह सगलसरिसवाणं, सिलेसमिस्साणवत्तिया वट्टी। पत्तेयसरीराणं, तह हॉति सरीरसंघाया॥१३१।। यथेति-द्रष्टान्तोपन्यासार्थः, यथा-सकलसर्षपाणां श्लेषय तीति श्लेषः-सर्जरसादिस्तेन मिश्रितानां वर्तितावलिता वर्तिः तस्याश्च वर्ती प्रत्येकप्रदेशाः क्रमेण सिद्धार्थका स्थिताः, नान्योन्यानुवेधेन, चूर्णिणतास्तु कदाचिदन्योऽन्यानुवेधभाजोऽपि स्युरित्यतः सकलग्रहणम्, यथाऽसौ पर्तिस्तथा प्रत्येकतरु शरीरसंघातः, यथा च सर्षपास्तथा तदधिष्ठायिनो जीवाः, यथा श्लेषविमिश्रितास्तथा रागद्वेषप्रचितकर्मपुरलोदयमिश्रिता जीवाः, पश्चिमार्द्धन गाथाया उपन्यस्तदृष्टान्तेन सह साम्यं प्रति पादितं तथेति शब्दोपादानादिति। अस्मिन्नेवार्थे दृष्टान्तान्तरमाहजह वा तिलसकुलिया, बहुएहि तिलेह मेलिया संती। पत्तेयसरीराणं, तह हुंति सरीरसंघाया॥१३॥ यथा वा तिलशष्कुलिका-तिलप्रधाना पिष्टमयपोलिका बहुभिस्तिलैर्निष्पादिता सती भवति, तथा प्रत्येकशरीराणां तरुणां शरीरसंघाता भवन्तीति द्रष्टव्यमिति। साम्प्रतं प्रत्येकशरीरजीवानामेकानेकाधिष्ठितत्वप्रतिपि पादयिषयाऽऽहनाणाविहसंठाणा,दीसंती एगजीविया पत्ता। खंधा वि एगजीवा, तालसरलनालिएरीणं // 133 // नानाविधम्-भिन्न संस्थानं येषां तानि नानविधसंस्थानानि, पत्राणि यानि चैवंभूतानि दृश्यन्ते तान्येकजीवाधिष्ठितान्यवगन्तव्यानि, तथा स्कन्धा अप्येकजी वाधिष्ठितास्तालसरलनालिकेर्यादीनाम्, नात्रानेकजीवाधिष्ठि तत्वं संभवतीति अवशिष्टानां त्वनेकजीवाधिष्ठितत्वं सामर्थ्या त्प्रतिपादितं भवति। साम्प्रतं प्रत्येकतरुजीवराशिपरिमाणाभिधित्सयाऽऽह - पत्तेयापज्जत्ता, सेठीएँ असंखभागमित्ताते। लोगासंखप्पज-तगाण साहारणाऽणंता॥१३॥ प्रत्येकतरुजीवाः पर्याप्तकाःसंवर्तितचतुरस्त्रीकृतलोकश्रेण्यसंख्येयभागवाकाशप्रदेशराशितुल्यप्रमाणाः, एते च पुन र्वादरतेजस्कायपर्याप्तकराशेरसंख्येयगुणाः, ये पुनरपर्याप्तकाः प्रत्येकतरुजन्तवः ते ह्यसंख्येयानां लोकानां यावन्तः प्रदेशास्तावन्त इति, एतेऽप्यपर्याप्तका बादरतैजस्कायजीवराशेर संख्येयगुणाः, सूक्ष्मास्तुवनस्पतयः प्रत्येकशरीरिणः पर्याप्तका अपर्याप्तका वानसन्त्येव, साधारणास्त्वनन्ता इति विशेषानुपा दानात् साधारणाः सूक्ष्माबादरपर्याप्तका पर्याप्तकभेदेन चतुर्विधा अपि पृथक् पृथगनन्तानां लोकानां यावन्ताः प्रदेशास्तावन्त इति, अयं तु विशेषः-साधारणबादरपर्याप्तकेभ्यो बादरा अपर्याप्तका असंख्येयगुणाः बादरापर्याप्तकेभ्यः सूक्ष्माः, अपर्याप्तका असंख्येयगुणास्तेभ्योऽपि सूक्ष्माः पर्याप्तका असंख्येयगुणा इति! सम्प्रत्येषां तरुणां यो जीवत्वं नेच्छति तं प्रति जीवत्वप्रति पादनेच्छया नियुक्तिकृदाहएएहिं सरीरेहि, पचक्खं ते परूविया जीवा। सेसा आणागिज्झा, चक्खुणों जे नदीसंति॥१३।। एतैः पूर्वप्रतिपादितैस्तशरीरैः प्रत्यक्षप्रमाणविषयैः प्रत्यक्षम्-साक्षात् ते वनस्पतिजीवाः, प्ररूपिताः-प्रसाधिताः, तथा हि-न ह्येतानि शरीराणि जीवव्यापारमन्तरेणैवंविधाकार भाजि भवन्ति, तथा च प्रयोग:जीवशरीराणि वृक्षाः, अक्षाधुपलब्धिभावात्, पाण्यादिसंघातवत्, तथा कदाचित् सचित्ता अपिवृक्षाः, जीवशरीरत्वात्पाण्यादिसंघातवदेव, तथा मन्द विज्ञानसुखादिमन्तस्तरवः, अव्यक्त चेतनानुगतत्वात् सुप्तादि पुरुषवत्, तथा चोत्कम्-- "वृक्षादयोऽक्षाधुपलब्धिभावात्, पाण्यादिसंघातवदेव देहाः। तद्वत्सजीवा अपि देहतायाः, सुप्तदिवत् ज्ञानसुखादिमन्तः॥१॥ शेषा इति-सूक्ष्मास्ते च चक्षुषा नोपलभ्यन्त इत्याज्ञता ग्राह्या इति, आज्ञा च भगवद्वचन मवितथमरत्कद्विष्टप्रणीतमिति श्रद्धातव्यमिति / आचा०१ श्रु०१ अ०५ उ०। (साधारणवनस्पतिकायलक्षणम् 'साहारण' शब्दे वक्ष्यामि) अथ ये बीजात्प्ररोहन्ति वनस्पतयस्तेषां कथमा विवि इत्यत आहजोणिन्मूए बीए, जीवो बक्कमइ सो व अण्णो वा।