SearchBrowseAboutContactDonate
Page Preview
Page 751
Loading...
Download File
Download File
Page Text
________________ लोगविजय 727- अभिधानराजेन्द्रः - भाग 6 लोगविजय विपरिणामाद्वा क्षणेन-अष्टमकारेण कर्मणा संसारबन्धनैर्वा विषयाभिष्वङ्गस्नेहादिभिर्मुक्तो भरतवदिति। ये पुनरनुपदेशवर्तिनः कण्डरीकाद्यास्ते चतुर्गतिकसं सारान्तर्वत्तिनो दुःखसागरमधिवसन्तीत्याह - अणाणाए पुट्ठा वि एगे नियट्टति, मंदा मोहेण पाउडा, अपरिग्गहा भविस्सामो समुट्ठाय लद्धे कामे अभिगाहइ, अणाणाए मुणिणो पडिलेहंति, इत्थ मोहे पुणो पुणो सन्ना नो हवाए नो पराए। (सू०७३) आज्ञाप्यत इत्याज्ञा-हिताहितप्राप्तिपरिहाररूपतया सर्वज्ञोपदेशस्तद्विपर्ययोऽनाज्ञा तया अनाज्ञया सत्या स्पृष्टाः परीषहोपसर्गः, अपिशब्दः सम्भावनायां स च भिन्नक्रमो निवर्तन्त इत्यस्मादनन्तरं द्रष्टव्यः, 'एके - 'मोहनीयोदयात्कण्डरीकादयोन सर्वे संयमात्समस्तद्वन्द्वोपशमरूपात निवर्तन्ते अपीति सम्भाव्यत एतन्मोहोदयस्येत्यपिशब्दार्थः / किंभूताः सन्तो निवर्तन्त इत्याह-मन्दाजडा अपगतकर्तव्याकर्तव्यविवेकाः, कुत एवंभूताः ? यतो 'मोहेन प्रावृत्ताः' मोहः-अज्ञानं मिथ्यात्वमोहनीयं वा तेन प्रावृतागुण्ठिताः, उक्तंच."अज्ञानं खलु कष्टम् क्रोधादिभ्योऽपि सर्वपापेभ्यः / अर्थ हितमहितं वा, न वेत्ति येनाऽऽवृत्तो लोकः॥१॥" इत्यादि, तदेवमवाप्तचारित्रोऽपि कर्मोदयात्परीषहोदयेऽङ्गीकृतलिङ्गः पश्चाद्धावतामालम्बत इत्युक्तम्। अपरेतु-स्वरुचिविरचितवृत्तयो नानाविधैरुपायैर्लोकादर्थं जिघृक्षयः किल वयं संसारोद्विग्ना मुमुक्षवस्तेषु तेषु आरम्भविषयाभिष्वङ्गेषु प्रवर्तन्त इति दर्शयति'अपरिग्गहा' इत्यादि, परिःसमन्तात् मनोवाक्कायकर्मभिर्गृह्यत इति परिग्रहः स येषां नास्तीत्यपरिग्रहाः, एवंभूता वयं भविष्याम इति शाक्यादिमतानुसारिणः स्वयूथ्या वा 'समुत्थाय' चीवरादिग्रहणं प्रतिपद्य, ततोलब्धान् कामान् अभिगाहन्ते-सेवन्ते, विड्व्यत्ययेनचैकवचनमिति, अत्र चान्त्यव्रतोपादानात् शेषाण्यपि ग्राह्याणि। अहिंसका वयं भविष्याम एवममृषावादिन इत्याद्यप्यायोज्यम् / तदेवं शैलूषा इत्यान्यथावादिनोऽन्यथाकारिणः कामार्थमेव तांस्तान् प्रव्रज्याविशेषाबिभ्राति, उक्तंच-"स्वेच्छाविरचितशास्त्रैः, प्रव्रज्यावेषधारिभिः क्षुद्रैः। नानाविधैरुपायैरनाथवन्मुष्यते लोकः॥१॥" इत्यादि।तदेवं प्रव्रज्यावेषधारिणो लब्धान्कामान वगाहन्ते तल्लामार्थं च तदुपायेषु प्रवर्तन्ते इत्याह-'अणाणाए' इत्यादि, अनाज्ञयास्वैरिण्या बुद्व्या'मुनय इतिमुनिवेषविडम्बिनः कामोपायान् प्रत्युपेक्षन्तेकामोपायारम्भेषु पौनःपुन्येन लगन्तीति, आह च-'एत्थ' इ-त्यादि, अत्र-अस्मिन् विषयाभिष्वङ्गाज्ञानमये भावमोहे पौनः-पुत्येन सन्नाः-विषण्णाः निमग्नाः पङ्कावमग्ना नागा इवात्मानमाक्रष्टुं नालभिति, आह च- 'नो हव्वाएनो पाराए' यो हि मध्ये महानदीपूरे निमग्नो भवत्यसौ नारातीयतीराय नापि पारे महानदीपूरमिति, एवमत्रापि कुतिश्चिन्निमित्तात्यक्तगृहगृहिणीपुत्रधनधान्यहिरण्यरत्नकुप्यदासीदासादिविभवः आकिञ्चन्यं प्रतिज्ञायारा तीयतीरदेश्याद् गृहवाससौख्यान्निर्गतः सन् 'नो हव्याए' ति भवति, पुनरपि वान्तभोगाभिलाषितया यथोक्तसंयमाभावेन तत्क्रियाया विफत्वात् 'नो पाराए' त्ति भवति, उभयतो मुक्तबन्धनामुक्तप्रतोलीवोभयभ्रष्टो न गृहस्थो नापि प्रव्रजित इत्युक्तं भवति। उक्तं च-"इन्द्रियाणि न गुप्तानि, लालितानिन चेच्छया। मानुष्यं दुर्लभं प्राप्य, न भुक्तं नापि शोषितम् // 1 // " इति। ये पुनरप्रशस्तरतिनिवृत्ताः प्रशस्तरतिमधिशयानास्ते - किंभूता भवन्तीत्याहविमुत्ता हु ते जणा जे जणा पारगामिणो, लोभमलोभेण दुगुंछमाणे लद्धे कामे नाभिगाहइ। (सू०७४) विविधम्-अनेकप्रकारं द्रव्यतो-धनस्वजनानुषङ्गाद्भावतोविषयकषायादिभ्योऽनुसमयं मुच्यमाना एव भाविनि भूतवदुपचारान्मुक्ताविमुक्ताः ते जना ये जनाः सर्वस्वजनभूता निर्ममत्वाः पारगामिनो भवन्ति, पारोमोक्षः संसारार्णवतटवृत्तित्वात्तत्कारणानिज्ञानदर्शनचारित्राण्यपि पार इति, भवति हि तादात्ताच्छच्यम् , यथा-'तन्दुलान् वर्षति पर्जन्यः' अतस्तत्पारम्-ज्ञानदर्शनचारित्राख्यं गन्तुं शीलं येषां ते पारगामिनः, ते मुक्ता भवन्तीति पूर्वेण सम्बन्धः / कथं पुनः सम्पूर्णपारगामित्वं भवती-त्याह- 'लोभं' इत्यादि,इह हि लोभः सर्वसङ्गानां दुस्त्यजो भवति, तथाहि-क्षपक श्रेण्यन्तर्गतस्यापगताशेषकषायस्यापि खण्डशः क्षिप्यमाणोऽप्यनुबध्यत इति, अतस्तं-लोभम् , तद्विपक्षण अलोभेन जुगुप्समानोनिन्दन्परिहरन किं करोतीत्याह-'लद्धे' इत्यादि, लब्धान्-प्राप्तानिच्छामदनरूपान् कामान् नाभिगाहते-न सेवते, यो हि शरीरादावपि निवृत्तलोभः स कामाभिष्वङ्गवान्न भवति, ब्रह्मदत्तामन्त्रितचित्रवदिति, प्रधानान्त्यलोभपरित्यागेनचोपसर्जनाधस्तनपरित्यागो द्रष्टव्यः, तद्यथा-क्रोधं क्षान्त्या जुगुप्समानो, मानमाईवेन, मायामार्जवेनेत्याद्यप्यायोज्यम्, लोभोपादानं तु सर्वकषायप्राधान्यख्यापनार्थमुपाददे, तथाहि-तत्प्रवृत्तः साध्यासाध्यविवेकविकलः कार्याकार्यविचाररहितः सन्नर्थकदत्तदृष्टिः पापोपादानमास्थाय सर्वाः क्रियाः अधितिष्ठतीति, तदुक्तम्-"धावेइरोहणं तरइ सायरं, भमइ गिरिणिगुंजेसुं। मारेइ बंधवं पिहु, पुरिसो जो होइधणलुद्धो॥१॥ अडइ बहुं वहइ भरं, सहइ छुहं पावमायरइ धिछ। कुलसीलजाइपच्चयधिइंचलोभद्दओ चयइ // 2 // " इत्यादि, तदेवं कुतश्चिन्निमित्तात्सहाँपि लोभादिना निष्कम्य, पुनर्लोभादिपरित्यागः कार्यः। अन्यस्तु लोभं विनापि प्रव्रज्यां प्रतिपद्यत इति दर्शयति - विणा विलोभं निक्खम्मएस अकम्मे जाणइपासइ, पडिलेहाए नावकंखइ, एस अणगारि त्ति पटवुबई, अहो य राओ परितप्पमाणे कालाकालसमुहाईसंजोगही अट्ठालोभी आलुंपे सहसकारे विणिविट्ठचित्ते इत्थ सत्थे पुणो पुणो से आयबले से नाइबले से मित्तबले से पिञ्चबले से देवबले से रायबले से चोर
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy