________________ लोउत्तर 698 - अमिधानराजेन्द्रः- भाग 6 लोक लोउत्तर न० (लोकोत्तर) लोकस्योत्तरम्-प्रधानं लोकोत्तरम्। जिनशा सने, अनु० / नि० चू०। लोउत्तरिय न० (लोकोत्तरिक) लोकोत्तरे-जिनप्रवचने भवं लोकोत्तरिकम्। जिनप्रवचनभवे, लोकोत्तराणि यानि न लोके प्रसिद्धानि, किंतु-प्रवचन एव कृतानि तानि लोकोत्तराणि। शास्त्रमात्रप्रसिद्धे, सू०प्र० 10 पाहु० / व्य०। नि० चू०। लोक (ग)(य) पुं० (लोक) लोक्यत इति लोकः / लोक दर्शन इत्यस्माद् धातोः। "अकर्तरि च कारके संज्ञायाम्" इति घम्। आचा०१ श्रु०२ अ० 1 उ० / लोक्यते दृश्यते केवलज्ञानभास्व तेति लोकः। आव०५ अ०॥ चतुर्दशरज्ज्वात्मके (आचा०१ श्रु०२ अ०१3०1) धमाधास्तिकायव्यवच्छिन्ने अशेषद्रव्याधारे वैशाखस्थानकटिन्यस्तकरयुग्म पुरुषोपलक्षिते आकाशखण्डे, आचा०१श्रु०२ अ०१उ०। पञ्चास्तिकायात्मके, सूत्रा० 1 श्रु० 12 अ० / लोक्यते प्रमाणेन दृश्यत इति भावः / आव०६ अ०।आचा०ाल०। विशे०। आव०। सू० प्र०। आo म०।"धर्मादीनांवृत्तिर्द्रव्याणां भवति यत्र तत् क्षेत्रम्। तैर्व्यः सह लोकस्तद्विपरीतं ह्यलोकाख्यम्' ||1|| आव० 5 अ०। अनु० / विशे०। ल०। चतुर्दशरज्जुप्रमाणं चेत्थम् - (1) ता कियत्प्रामाणो लोक इत्याहचउदसरजू लोओ, बुद्धिकओ होइ सत्तरज्जुघणो (67) चतुर्दश रजवो यस्य य चतुर्दशरजुः, रज्जुप्रमाणं तु स्वयंभूरमण समुद्रस्य पोरस्त्यपाश्चात्यवेदिकान्तं यावद्दक्षिणोत्तरवेदिकान्तं वा यावदवसेयम्, उच्छ्यमानमिदमस्य अधस्ताद्देशोनसप्तरज्जु विस्तरः, तिर्यग्लोकमध्ये एकरज्जुविस्तरः ब्रह्मलोकमध्ये पञ्चरज्जुविस्तीर्णः उपरि तु लोकान्ते एकरजुविस्तृतः, शेष स्थानेषु पुनः कोऽपि कियानस्य विस्तर इति / तदेवंरुपो लोको बुद्धिकृतोमतिपरिकल्पनया विहितो भवति-संपद्यते, किरुपो भवतीत्याह-सप्त रज्जवः प्रमाणतया यस्यय सप्तरजुः स चासौ घनश्च समचतुरस्रआयामविष्कम्भबाहल्यैस्तुल्यत्वात् सप्तरज्जुघनः।स चेत्थं बुद्ध्या विधीयते- इह रज्जुविस्तीर्णा यास्रसनाड्या दक्षिणदिग्वयंधोलोकखण्डमधोदेशोनरज्जुायवि स्तृतम्, क्रमेण हीयमानाविस्तारं तावद्यावदुपरिष्टाद्रजुसंख्येय भागविस्तारं सातिकरेसप्तज्जूच्छ्यं गृहीत्वा असनाडिकाया एवोत्तरदिग्भागे विपरीतं योज्यते, उपरितनभागमधः कृत्वाऽधस्तनं थोपरि विधाय संघात्यते इत्यर्थः। एवं च कृतेऽ धस्तनं लोकस्या) सातिरेकसप्तरजूच्छ्रितं किंचिदूनरज्जुचतुष्ट यविस्तीर्ण बाहल्यतोऽप्यधः क्वचिद्देशोनसप्तरज्जुमानमन्यत्र पुनरनियतबाहल्यं जायते। इदानीमुपरितनलोकाधूसंवय॑त-तत्रापि रज्जुविस्तरायास्रसनाडिकाया दक्षिणदिग्वर्तिनी ब्रह्मलोकमध्यादधस्तनमुपरितनंचद्वे अपि खण्डे ब्रह्मलोकमध्ये प्रत्येकं द्विरज्जुविस्तरे उपर्यलोकसमीपेऽधस्तु रत्नप्रभाक्षुल्लकप्रतरसमीपेऽङ्गुलसहस्रभागविस्तरवती देशोन सार्धत्रयरज्जूच्छूिते बुद्ध्या गृहीत्वा त्रासनाडिकाया एवोत्तरपार्श्वे पूर्वोदितस्वरुपेणैव वैपरीत्येन संघात्वेते. एवंच कृते उपरितनं लोकस्यार्धद्वाभ्यामडल सहस्रभागाभ्यामधिकरज्जुत्र विष्कम्भम्, इह चतुर्णा खण्डानां पर्यन्तेषु चत्वारोऽङ्गुलसहस्र भागा भवन्ति, केवलमेकस्यां दिशि योजिताभ्यां द्वाभ्यामप्येक एवाङ्गुलसहस्रभाग एकदिग्वर्तित्वादेवमपरमपि द्वाभ्यामिथ्यमेवे त्यतस्तद्वयाधिकत्वमुक्तं देशोनसप्तरजूच्छ्रितम्।बाहल्यतस्तु ब्रह्मलोकमध्ये पञ्चरज्जुबाहल्यमन्यत्रा त्वनियमबाहुल्यम् / इदं च सर्व गृहीत्वा आधस्त्यसंवर्तितलोकार्धस्योत्तरपार्वे संघात्यते। एवं च योजिते आधस्त्यखण्डयोच्छ्रये यदितरोच्छ्याधिकं तत् खण्डयित्वोपरितनसंघातितखण्डस्य बाहल्ये ऊर्ध्वायतं संयोज्यते, एवं च सातिरेकाः पञ्चरजवः क्वचिद्वाहल्यं सिध्यति। तथा-आधस्त्यखण्डमधस्ताद्यथा संभवं देशोनसप्तरज्जुबाहल्यं प्रागुक्तम्, अत उपरितनखण्डबाहल्यादेशोनरज्जुद्वयमत्राधस्त्यखण्डेऽतिरिच्यते इत्यस्मादतिरिच्यमानबाहल्या देशोनरञ्जुरुपं गृहीत्वोपरितनखण्ड बाहल्ये संघात्त्यते, एवं च कृते बाहल्यतस्तावत् सर्वमप्येतचतुरस्त्रीकृत नभः खण्डा कियत्यपि प्रदेशे रज्जवसंख्येयभागाधिकाः षड्रज्जवो भवन्ति। व्यवहारतस्तुसर्वं सप्तरज्जुबाहल्यमिदमुच्यते / व्यवहारनयो हि किंचिदूनसप्तहस्तादिप्रमाणमपि पटादिवस्तु परिपूर्णसप्तहस्तादिमानं व्यपदिशति, देशतोऽपि च दृष्ट बाहल्या दिधर्म परिपूर्णेऽपि वस्तुन्यध्यवस्यति स्थूलदृष्टित्वादिति भावः / अतएव तन्मतेनैवात्र सप्तरज्जुबाहल्यता सर्वगता द्रष्टव्याः। आयामविष्कम्भाभ्यां तु प्रत्येक देशोनसप्तरज्जुप्रमाणमिदं जातम्। व्यवहारतस्तुतत्रापि सप्तरजुप्रमाणता द्रष्टव्या, तदेवं लोको व्यवहारनयमतेन / अायामविष्कम्भबाहल्यैः प्रत्येकं सप्तरज्जु प्रमाणो घनो भवतीति समुदायार्थः / एतच वैशाखस्थानस्थित पुरुषाकारं सर्वत्र वृत्तस्वरुपं लोकं संस्थाप्य सर्वं भावनीयमिति। कर्म०५ कर्म० / दश। (2) कोऽयं लोक :किमियं मंते ! लोए त्ति पवुचइ ?, गोयमा ! पंचत्थिकाया, एस णं पवत्तिए लोए त्ति पवुचा, तं जहा-धम्मत्थिकाए अधम्म स्थिकाए० जाव पोग्गलत्थिकाए (सू०४८१) भ०१३ श०४ उ०। (धर्मास्तिकायादीनां व्याख्या स्वस्वस्थाने) (3) लोकस्यैकत्वं नामादितश्चाष्टाविधत्वं निरुपयति -- एगे लोए। (सू०५) एको लोकः, त्रिविधोऽप्यसंख्येयप्रदेशोऽपि वा द्रव्यार्थतया / स०१ सम०। एकः अविवक्षितासंख्यप्रदेशाधस्तिर्यगादि दिग्भेदतया लोक्यतेदृश्यते केवलालोके नेति लोकः- धर्मास्तिकायादिद्रव्याधारभूत आकाशविशेषः, तदुत्कम् - "धर्मादीनां वृत्तिर्द्रव्याणां भवति यत्र तत् क्षेत्राम् / तैर्द्रव्यैः सह लोक-स्तद्विपरीतं ह्यलोकाख्यम् // 1 // " इति, अथवा-लोको नामादिरष्टधा / स्था०१ ठा०। आह चनाम ठवणा दविए, खित्ते काले भवे य भावे य। पज्जवलोए य तहा, अट्टविहो लोयनिक्खेवो // 1057|| आव० 2 अ० / नामस्थापने सुज्ञाने, द्रव्यलोको-जीवाजीव द्रव्यरुपः / क्षेत्रालोकः-आकाशमात्रामनन्तप्रदेशात्म -