________________ लेसा 667- अभिधानराजेन्द्रः - भाग 6 लेसा वीरस्य लेखशालाप्रवेशः"अथ तं मातापितरौ, विज्ञौ ज्ञात्वाऽष्टवर्षमतिमोहात्। वरममितालङ्कारी-रुपनयतो लेखशालायाम् / / 1 / / लग्रदिवसव्यवस्थिति-पुरस्सरं परमहर्षसम्पन्नौ। प्रौढोत्सवान्महा_न, वितेनर्तुघनधनव्ययतः // 2 // तथाहिमजतुरगसमूहः स्फारकेयूरहारैः, कनकघटितमुद्राकुण्डलैः कङ्कणाद्यैः। रुचिरतरदुकूलैः पञ्चवर्णैस्तदानीं, स्वजनमुखनरेन्द्राः सक्रियन्ते स्म भक्तया / / 3 / / तथापण्डितयोग्यं नाना, वस्त्रालङ्कारनालिकेरादि। अथ लेखशालिकानां, दानार्थमनेकवस्तूनि / / 4 / / तथाहिपूगीफलशृङ्गाटक-खर्जूरासितोपलास्तथा खण्डा। चारुकुलीचारुबीजा द्राक्षादिसुखाशिकावृन्दम्।।५।। सौवर्णरत्नराजत--मिश्राणि च पुस्तकोपकरणानि। कमनीयमषीभाजन-लेखनिकापट्टिकादीनि // 6 // वाग्देवीप्रतिमार्चा-कृतये सौवर्णभूषणं भव्यम्। नव्यबहुरत्नखचितं, छात्राणां विविधवस्त्राणि // 7 // " इत्यादि समग्रपठनसामग्रीसहितः, कुलवृद्धादिभिस्तीर्थोदकैः स्मपितः, परिहितप्रचुरालङ्कारभासुरः शिरोधृत मेघाडम्बरच्छत्राश्चतुरङ्ग सैन्यपरिवृत्तो वाद्यमानाऽनेकवादित्राः पण्डितगेहमुपाजगाम् / पण्डितोऽपि भूपालपुत्रापाठनोचितां पर्व परिधेयक्षीरोदकधौतिकमयज्ञोपवीतकेसरतिलकादि सामग्री यावत् करोति तावत् पिप्पलपर्णत्वात्, गजकर्णवत्, कपटिध्यानवत्, नृपतिमानवत् चलाचलसिंहासनः शक्रोऽव धिना ज्ञाततत्स्वरुपो देवान् इत्थमवादीत्-अहो ! महचित्राम्, यद्भगवतोऽपि लेखशालायां मोचनम्। यतः"सामे वन्दनमालिका समधुरीकारः सुधायाः सच, ब्राह म्याः पाठविधिः स शुभिमगुणारोपः सुधादीधितौ।। कल्याणे कनकच्छटाप्रकटनं पावित्र्यसंपत्तये, शास्त्राध्यापनमहतोऽपि यदिदं सल्लेखशालाकृते / / 1 / / मातुः पुरो मातुलवर्णनं तत्, लङ्कानगर्यां लहरीयकं तत्। तत्याभृतं लावणमम्बुराशेः, प्रभोः पुरोयद्वचसा विलासः // 2 // " यतः"अनध्ययनविद्वांसो, निद्रव्यपरमेश्वराः॥ अनलङ्कारसुभागाः, पान्तु युष्मान जिनेश्वराः॥१॥" इत्यादि वदन् कृतब्राह्मणरुपस्त्वरितं यत्रा भगवास्तिष्ठति तत्रापण्डितगेहे समाजगाम, आगत्य पण्डितयोग्ये आसने भगवन्तमुपवेश्य पण्डितमनोगतान् संदेहान् पपृच्छ, श्रीवीरोऽपि बालोऽयं किं वक्ष्यतीत्युत्कर्णेषु सकललोकेषु सर्वाणि उत्तराणि ददौ, ततो जैनेन्द्रं व्याकरणं जज्ञे। यतः "सको अतस्समक्खं, भगवन्तं आसणे निवेसिता / / सद्द (स्स) लक्खणं पुच्छे, वागरणं अवयवा इंद॥१॥" सर्वे जना विस्मयं प्रापुः, अहो बालेनापि वर्द्धमानकुमारेण एतावती विद्या कुत्राधीता, पण्डितोऽपि चिन्तयामास"आबालकालादपि मामकीनान्, यान संशयान् कोऽपि निरासयन्न। बिभेद तांस्तान्निखिलान् स एष, बालोऽपि भोः पश्यत चिामेतत् / / 1 / / " किंच-अहो ईदृशस्य विद्याविशारदस्यापि ईदृशं गाम्मीर्यम्। अथवायुत्कमेवेदम् ईदृशस्य महात्मनः। यतः''गर्जति शरदि न वर्षति, वर्षति वर्षासु निःस्वनो मेधः। नीचो वदतिन कुरुते, न वदति साधुः करोस्येव / / 1 / / तथाअसारस्य पदार्थस्य, प्रायेणडम्बरो महान्। न हि स्वर्णे ध्वनिस्ताद्दग, यादृक् कांस्ये प्रजायते॥२॥ इत्यादि चिन्तयन्तं पण्डितं शक्रः प्रोवाच"मनुष्यमात्र शिशुरेष विप्र!, न शङ्कनीयो भवता स्वचित्ते' विश्वत्रायी-नायक एष वीरो, जिनेश्वरो वाङ्मयपारद्दश्वा / / 3 / / " इत्यादि, श्रीवर्द्धमानस्तुति निर्माय शक्रः स्वस्थानं जगाम। भगवानापि सकलज्ञातक्षत्रियपरिकलितः स्वगृहमागात्, इति श्रीलेखशालाकरणम्। कल्प०१ अधि०५ क्षण। लेहायरिय पुं० (लेखाचार्य) उपाध्याये, आ०म०१०। / लेहुड-देशी-लोष्ठवाचके, दे० ना०७ वर्ग 24 गाथा। लोअ पुं० (लोच) "क-ग-च-ज-त-द-प-य-वां प्रायोलुक्" ||8/1 / 177 // इति चकारस्य लुक् / प्रा०। केशानामुत्पाटने, सूत्र०१ श्रु०५ अ०१ उ०। लोक-पुं०। जगति, "भुअणं जयं च लोओ' पाइ० ना० 100 गाथा। लोअण- स्त्री०। न०। लोचन - न०। नेत्रे, "वाऽक्ष्यर्थवचनाद्याः" // 1133 // इति प्राकृते स्त्रीत्वं-वा। लोअणा। लोअणाई। प्रा०१पाद। लोइय पुं० (लौकिक) लोके भवा, लोके वा विदिता इति लौकिका अध्यात्मादित्वादिकण। सूत्रा०१श्रु०३ अ०२ उ०। इतिहासादिकर्तृषु, दश०४ अ० लोकाचीर्णे , उत्त० / अनु० / सामान्यलोकाश्रये, स्था० 3 ठा० 3 उ०। सू० प्र०।०। लोइयकहास्त्री० (लौकिककथा) असंविग्नलोकसम्बन्धिन्यां कथायाम, प्रश्न०४ संव० द्वार। लोइयमग्गपुं० (लौकिकमार्ग) यथावस्थितशब्दार्थनभिज्ञमुग्धजनव्यव हारे, अने०१ अधि०। लोउज्जोय पुं०(लोकोद्योत) लोकप्रकाशे, स्था०। चउहिं ठाणेहिं लोउज्जोते सिता, तं जहा-अरहंतेहिं जाय माणेहिं अरहंतेहि पव्वतमाणेहिं अरहंताणं णाणुप्पायमहिमासु अरहताणं परिनिव्वाणमहिमासु 4 / (सू०३२४) 'चउही' त्वादि, सुगमश्चार्य, नवरं लोकोद्योतश्चतुलपि स्थानेषु देवागमात्, जन्मादित्रये तुस्वरुपेणापि। स्था० 4 ठा० 3 उ०।