________________ लेसा 692- अमिधानराजेन्द्रः - भाग 6 लेसा विति भावनीयम् / नाय उदधयः पल्योपमासंख्येयभागश्च, मकारस्यालक्षणिकत्वात् चस्य गम्यमानत्वाजजघन्या नीलायाः स्थितिदशोदधयः पल्योपमासंख्येयभागश्चोत्कृष्टा, इहापि जघन्या वालुकाप्रभायामेतावस्थितिकानामेव, उत्कृष्टा च धूमप्रभायामुपरितनप्रस्तटनारकाणाम्, तत्रापि येषामेतावती स्थितिरिति मन्तव्या, इहोत्तरत्र च पाठान्तरं दृश्यते, तत्र च जघन्यस्थितिः समयाधिकत्वमुक्तं तच्च न बुध्यत इति, न तद् व्याख्या, दशोदधयः पल्योपमासंख्येयभागो जघन्यिका भवति प्रक्रमात्स्थितिः कृष्णाया इति सम्बन्धः, अस्याश्च धूमप्रभाया मेतावत्स्थितिकेष्वेव नारकेषु सम्भवः,त्रयस्त्रिंशत्सागरोपमाणि उत्कृष्टा भवति कृष्णायाः स्थितिरिती हापि प्रक्रमः, इयं च महातमः प्रभायाम् तत्रैवैतावत्प्रमाणस्या युषः संभवात्, इह च नारकाणमुत्तरत्रा च देवानां द्रव्यलेश्या स्थितिरेवैवं चिन्त्यते तद्भावलेश्यानां परिवर्त्तमानतया अन्यथा ऽपि स्थितेः सम्भवात्, उक्तं हि-"देवाण नारयाण य, दव्वलेसा भवंति एयाओ / भावपरावत्तीए, सुरणेरइयाण छल्लेसा // 1 // " पूर्वोक्तं निगमयन्नुत्तरं च ग्रन्थं प्रस्तावयन्निदमाह - एषा-अनन्त रोक्ता निरये भवा नैरयिका स्तेषां संबन्धिनीनां लेश्यानां स्थितिः-अवस्थितिः तुःपूरणे, वर्णिता-आख्यात भवति 'तेण' ति सूत्रात्वात् ततः परमितिअग्रतो वक्ष्यामि प्रक्रमाले श्यानां स्थितिम्, तिर्यग्नमनुष्याणां तथादेवानाम्। यथा प्रतिज्ञातमेवाह - 'अंतोमुत्तमद्धं ति अन्तर्मुहूर्ताम्अन्त मुहूर्त-कालं लेश्यानां स्थितिर्जधन्योत्कृष्टा चेति शेषः, कतरा ऽसौ ? इत्याह-यस्मिन् इति-पृथिवीकायादौ संमूर्छिममनुष्यादौ च याः कृष्णाद्याः तुः-पूरणे तिरश्चां मनुष्याणां मध्ये संभवन्ति तासाम्, एता हि क्वचित्काश्चित्संभवन्ति, यत आगम:- "पुढवीकाइया णं भंते ! कई लेसातो पन्नत्ताओ?, गोयमा ! चत्तारि लेसाओ, तं जहा-कण्हलेसा० जाव तेउलेसा, आउवणप्फइकाइयाण वि एवं चेव, तेउवाउबेइदियतेइंदियचउरिदियाण जहा नेरइयाणं, पंचेदियतिरिक्खजोणियाणं पुच्छा, गोयमा ! छलेसाओ कण्हा० जाव सुक्कलेसा। मणुस्साणं पुच्छा, गोयमा ! छ एयाओ चेव समुच्छिममणुस्साणं पुच्छा, गोयमा! जहा नेरइयाणं" / / नन्वेवं शुल्कलेश्याया अप्यन्तर्मुहूर्तमेव स्थितिः प्राप्तेत्याशङ्कयाह - वर्जयित्वा केवलां शुद्धां लेश्यां शुल्कलेश्यामिति यावत् अस्याश्च यावतीस्थितिस्तामाह - 'मुहुत्तऽद्धं तु'त्ति प्राग्वदन्त र्मुहूर्तमेव जघन्या उत्कृष्टा भवति पूर्वकोटी तुः-विशेषणे, सच जघन्यस्थित्यपेक्षयाऽस्या उक्त मेव विशेषं द्योतयति, नवभि वर्षयूंना ज्ञातव्या शुल्कलेश्यायाः स्थितिरिति प्रक्रमः, इह च यद्यपि कश्चित्पूर्वकोट्यायुरष्टवार्षिक एव व्रतपरिणाममाप्नोति तथाऽपि नैतावद्वयः स्थस्य वर्षपर्यायादक शुल्कलेश्यायाः सम्भव इति नवभिर्वर्षेन्यूँना पूर्वकोटिरुच्यते। एसा' सूत्रां स्पष्टमेव / प्रतिज्ञातनुरुपमाह - दशवर्षसहस्राणि कृष्णायाः स्थितिर्जघन्यका भवति, भवनपतिव्यन्तरेषु चास्याः सम्भव स्तेषामेव। जघन्यतोऽप्येतावत्स्थितिकत्वात्, उक्तं च - "दसभवणवणयराणं वाससहस्सा ठिई जहन्नेणं' ति, पलिय मसंखेज्जइमो तिपल्योपमा संख्येयतमः प्रस्तावाद् भाग उत्कृष्टा भवति कृष्णायाः स्थितिरिति प्रक्रमः, एवंविधाविमध्य मायुषामेव भवनपतिव्यन्तराणाभियं द्रष्टव्या। सम्प्रति नीलायाः स्थितिमाहया कृष्णायाः स्थितिः 'खलुः-याक्यालकारे 'उत्कृष्टा अनन्तरमुक्तरुपा 'सा उत्ति सैव 'समयमब्भहिय' त्ति समयाभ्यधिका जघन्येन नीलायाः, पलियमसंखिज्ज' त्ति प्राग्वत्पल्योपमासंख्येयश्च भाग उत्कृष्टा स्थितिर्नवरमुक्तहेतोरेव बृहत्तरोऽयमसंख्येयभागो गृह्यते। या नीलायाः स्थितिः खलूत्कृष्टा सा उ' त्ति सैव समयाभ्यधिका जघन्येन कापोतायाः पल्योपमासंख्येयश्च भाग उत्कृष्टा स्थितिः, एतावदायुषामेव भवनपतिव्यन्तराणामिमेमन्तव्ये, इहाप्युक्तहेतोरेव पूर्वस्माद् बृहत्तरोऽसंख्यातभागः परिगृह्यते। इत्थं निकायद्वयभाविनीमाद्यलेश्यात्रयस्थितिमुपदर्थ्य समस्त निकायभाविनी तेजोलेश्यास्थितिमभिधातुं प्रतिज्ञासूत्रमाह-'तेण' त्ति ततः परं प्रवक्ष्यामि तेजोलेश्याम्, 'यथे ति येना वस्थानप्रकारेण सुरगणानां भवति तथेत्युपस्कारः, किमन्यतर निकायानामेवामीषामुतान्यथेमाह - भवनपतिवाणमन्तर ज्योतिर्वैमानिकानां चतुर्निकायानामिति योऽर्थः, चः-पूरणे, प्रतिज्ञातमे-वाह-पल्योपमं जघन्या उत्कृष्टा 'सागर' त्ति सागरोपमे तुः-प्राग्वत् द्वे-द्विसंख्ये अधिके-अर्गले, कियते-त्याहपल्योपमासंख्येयेनेति योगः, भवति तैजस्याः स्थितिरिति प्रक्रमः, इयं च सामान्योपक्रमेऽपि वैमानिकानिका यविषयतयैव नेया, तत्राच सौधर्मेशानदेवानां जघन्यत उत्कृष्ट श्चैतावदायुषः सम्भवात्, उपलक्षणं चैतच्छेषनिकाय तेजोलेश्यास्थितेः, ततश्च भवनपतिव्यन्तराणां जघन्यतो दश वर्षसहस्राणि, उत्कृष्टतस्तुभवनपतीनां सागरोपममधिकं, व्यन्तराणां च पल्योपर्म, ज्योतिष्काणांत जघन्यतः पल्योपमाष्टभागः, उत्कृष्टतस्तु वर्षलक्षाधिकं पल्योपमम्, एता यन्मात्राया एवैषांजघन्यत उत्कृष्टतश्चायु:- स्थितेः सम्भवात्। 'दसवाससहस्साइं.' इत्यादि स्पष्टमेव, नवरमेनन् निकाय भेदमनङ्गीकृत्यैव लेश्यास्थितिरुत्का। इह च दशवर्षसहस्राणि जघन्या तेजस्याः स्थितिरभिहिता, प्रक्रमानुरुपेण तु योत्कृष्टा कापोतायाः स्थितिरसावेवास्याः समयाधिक प्राप्रोति, अधीयते च केचनानन्तरसूत्रत्रयस्थाने 'जा काऊइ ठिई खलु उक्कोसे' त्यादि तदा तत्त्वं न विद्मः। पद्मायाः स्थितिमाह-या तेजस्याः स्थितिः खलुत्कृष्टा 'साउ' त्ति सैव समयाभ्यधिका जघन्येन पद्मायाः स्थितिरिति प्रक्रमः, 'दश तु' इति दशैव प्रस्तावात्सागरोपमाणि मुहूर्त्ताधि-कान्युत्कृष्टा, इयं च जघन्या सनत्कुमारे उत्कृष्टा च ब्रह्मलोके, तयोरेवैतदायुष्कसंभवात्, आह-यदीहा न्तर्मुहूर्तमधिकमुच्यते ततः पूर्वत्रापि किंनतदधिकमुच्यते? देवभवलेश्याया एव तत्र विवक्षितत्वात, प्रतिज्ञातं हि 'तेण परं वोच्छामि, लेसाण ठिई तु देवाणं' ति, एवं सतीहान्तर्मुहूर्त्ताधि कत्वं विरुध्यते, न अभिप्रायपरिज्ञानात्, अत्रा हि प्रागुत्तरभव लेश्याऽपि"अन्तोमुत्तम्मि गए 'त्ति वचनाद्देवभवसम्बधिन्ये वेति प्रदर्शनार्थमित्थमुक्तामिति न विरोध इति भावनीयम् / शुक्ललेश्यास्थितिमाह - या पद्मायाः स्थितिः खलत्कृष्टा 'सा उ' त्ति सैव समयाभ्यधिका जघन्येन शुल्कायाः स्थितिरिति प्रक्रमः, त्रयस्त्रिं