________________ लेप 668 - अभिधानराजेन्द्रः - भाग 6 लेप हिंडेज असंथरणे, असती घेत्तुं अरइयं तु // 516|| यदि स भक्तार्थी, न च पात्रास्य लेपोऽद्यापि शुष्कस्ततोऽसंस्तरणे भोजनमन्तरेण संस्तरीतुमशत्कावभक्ता र्थिनामन्येषां वा साधूनामहिण्डमानानां तत्पात्रां समर्प्य हिण्डेत, असति अन्येषामभक्तार्थिनामहिण्डमानानां वा अभावे तत् अरञ्चितमद्याप्यपरिणतलेपं गृहीत्वा हिण्डेत्। न तरिज जह तिन्नि उ, हिंडावेउं ततो णु खारेण / ओयत्तेउं हिंडइ, अन्ने व दवंसें गिण्हंति // 520 / / यदि त्रीणि पात्राणि हिण्डापयितुं न शक्रोति ततो नु-निश्तिम्, तत् पात्रामुपाश्रये क्षारेणावनम्य स्थगयित्वा हिण्डते। यदि वा-(से) तस्य योग्यं द्रवमन्ये गृह्णन्ति, ततोऽतिरित्कपात्रवहने न कश्चिद्भार इत्यदोषः। लिथारियाणि जाणि उ, घट्टगमादीणि तत्थ लेवेणं / संजमभूतिनिमित्तं, ताई भूईए लिंपिज्जा // 521 / / तत्र पात्रलेपने यानि लेपेन घट्टकादीनि लित्थारियाणि देशीपदमेतत् खरण्टितानि संयमभूतिनिमित्तम्-संयमविभूति हेतोः विभूत्या क्षारण तानि लिम्पेत्, येन तत्संस्पर्शतः त्रसानां स्थावराणां वा विनाशो न भवति। एवं लेवग्गहणं, आणयणं लिंपणा य जयणा य। मणियाणि अतो वोच्छं, परिकम्मविहिं तु लित्तस्स / / 522 // एवमुक्तेन प्रकारेण लेपस्य ग्रहणमानयनंपात्रस्य लेपनाय सर्वत्र यतना, एतानि भणितानि। अत ऊर्ध्वं पुनर्लिप्तस्य परिकर्मविधिं वक्ष्यामि। तमेवाभिधातुकाम आह -- लित्ते छाणियछारो, घणेण चीरेण बंधिउं उण्हे। उव्वत्तण परियत्तण, अंच्छिय धोए पुणो लेवो // 523 / / पात्र लिप्ते सति यः क्षाणितो-गलितः क्षारो-भस्म स तत्रा प्रक्षिप्यते, ततो घनेन चीरेण बध्वा उष्णे ध्रियते, तत्र चपात्रास्योद्वर्तनं परिवर्तनं च तावत्कर्तव्यं यावत् लेपः शुष्को भवति। ततः पात्रामञ्चते-आकृष्यते, आकृष्य पानीयेन प्रक्षाल्यते, ततः प्रक्षालिते सति पुनरपिस लेपो दीयते। काउं सरयत्ताणं, पत्ताबंधं अबंधगं कुम्जा। साणाइरक्खणहा, पमजणाउण्हसंकमणा / / 524 // पात्रे भूयो लिप्ते सति तस्योपरि सरजस्त्राणसहितं पात्राबन्धम बन्धक मग्रन्थिकं कुर्यात् कस्मादबन्धकं कुर्यादत आहश्वादि रक्षणार्थम्, शुनः आदिशब्दात्-मर्कटमाञ्जारादिभ्योऽपिरक्षणार्थम्, अन्यथा हि ग्रन्थौ दत्ते सपात्राबन्धं पात्रं श्वादिभिर्नीयते। तथा छायायामुष्णे च पात्रस्य संक्रमणे प्रमृज्यते तत्पात्रं स्थापयितव्यम्। तदिवसं पडिलेहा, कुभमुहादीण होइ कायध्वा / छण्णे य निसिं कुज्जा, कयकजाणं विविगो उ॥५२५|| यस्मिन् दिने पात्रलेपनं तस्मिन्नेव दिवसे कुम्भमुखादीनां घटकण्ठादीनाम् आदिशब्दात्-स्थालीकण्ठादिपरिग्रहः-प्रत्यपेक्षा भवति -- कर्तव्या, कुटकण्ठादीनि तस्मिन् दिने आनेतव्यानीत्यर्थः / किमर्थमित्यत आह-निशि-रात्रौ तेषामुपरि छन्ने प्रदेशे लिप्तानि पात्राणि | कुर्यादित्येवमर्थ तदनन्तरं तेषां घटमुखादीनां कृतकार्याणां विवेकःपरिष्ठापनिकाः। अट्टगहेउं लेवा-ऽहिगं तु सेसं सरुतगं पीसे। अहवा विन दायव्वो, सरुयगं छारतो उण्हे // 526|| उष्णे शेषमधिकं लेपम् अट्टकहेतोः-अट्टकनिमित्तम् सरुतकम् पेषयेत्। अथवाऽपि न दातव्योऽट्टकस्ततस्तमधिकं सरुतक लेपं क्षारे भस्मनि उष्णे तत्परिष्ठापयेत्, अयं चार्थो या भणितस्तत्र प्रागेवोपदर्शितः। सम्प्रति तु गाथाक्रमानुलोमत उक्त:पढम चरमा उ सिसिरे, गिम्हे अद्धं तु तासि वज्जित्ता। पायं ठवेसिणेहा-दिरक्खणट्ठा पवेसे वा।।५२७|| शिशिरे-शीतकाले प्रथमचरमे पौरुष्यौ वर्जयित्वा ग्रीष्मे-उष्णकाले तयोः प्रथमचरमपौरुष्योरर्द्धमर्द्ध वर्जयित्वा पात्रामुष्णे स्थापयेत्, प्रथमचरमपौरुष्यादिकाले तु मध्ये प्रवेशयेत् / किमर्थमित्याह - स्नेहादिरक्षार्थ स्नेहोऽवश्मायः आदिशब्दात्-महिकाहिमवर्षादिपरिग्रहः तगाणार्थम्, इयमत्रा भावना-शिशिरकाले प्रथमायां पौरुष्यामतिक्रान्तायामुष्णे ददाति, चरमायां तु पौरुष्यामनवगाढायांमध्ये प्रवेशयति, अन्यथा शिशिरकालस्य स्निग्धतया प्रथमायांच पौरुष्यामवश्यायादिपतनभावतो लेपविनाशप्रसङ्गात्, उष्णकाले तु प्रथमायाः पौरुष्या अर्धे अपक्रान्तेपात्रामुष्णे दद्यात्, चरमायास्तुपौरुष्याः, पश्चिमेऽर्द्ध ऽनवगाढे मध्ये प्रवेशयत्, कालस्य रुक्षतया तत ऊर्द्ध पश्चाचावश्यायादिवस म्भवात्। उवयोगं च अभिक्खं, करेति वासादिसाण रक्खट्ठा। वावरेति च अण्णे, गिलाणमादीसु कजेसु // 528|| उष्णे च पात्र दत्ते सतिस वर्षादिभ्यो रक्षणार्थं वर्षम्वृष्टिः आदिशब्दात्हिमप्रपातादिपरिग्रहः श्वा-कुकुरः तद्रक्षणार्थ मभीक्ष्णमनवरतमुपयोगं करोति / यदि वा ग्लानादिप्रयोजनेषु समापतितेष्वन्यान् साधून व्यापारयति, सतु तत्रौव रक्षयन् तिष्ठति। अथ कियन्तः पात्रस्य लेपा दीयन्ते ?, इत्याहएको य जहन्नेणं, विय तिय चत्तारिपंच उक्कोसा। संजमहेउं लेवो, वज्जित्ता गारवविभूसं॥५२६|| पात्रस्य संयमहेतोर्जघन्येनैको लेपो दातव्यः। मध्यमतो द्वौत्रयो वा। उत्कर्षतः-चत्वारः,पञ्च वावर्जयित्वा गौरवम्, विभूषां च। गौरवेणात्मनो महर्द्धिकत्वमनेन लक्षणेन विभूषया वा न लेपो दातव्यः, किन्तु संयमस्यातिनिमित्तमिति। अणवढे ते तह विउ, सव्वं अवणेतु तो पुणो लिंपे। तज्जाय सचोप्पडयं, घट्टरएउं ततो धोवे // 530 / / उत्कर्षतः पञ्चस्वपि लेपेषु यदि स लेपो नावतिष्ठेत-न पात्रोण सह लोलीभवति, ततः तस्मिन्ननवतिष्ठमानेन सर्व लेपमपनीय ततः पुनर्मूलतः पात्रां लिम्पयेत्, यथा स लेपोऽवतिष्ठते। 'तज्जाये' त्यादि इह यत् अलाब्वादिपात्र तैलादिना सचोप्पडम्-सस्नेहं तत्र च धूलिः प्रभूता लग्ना, तं लेपं घट्टक पाषाणेन घट्टयित्वा तदगतेनैव लेपेन भूयस्तत्पात्र रज्जित्वा ततः प्रक्षालयेत्, एष तद्यातो नाम लेपः।