SearchBrowseAboutContactDonate
Page Preview
Page 690
Loading...
Download File
Download File
Page Text
________________ लेप 666 - अभिधानराजेन्द्रः - भाग 6 लेप टन वा अनुज्ञाते तैलस्य किल कटुको गन्ध इति कटुगन्धज्ञाना ऽर्थ- | कटुगन्धोऽस्ति न वेति परिज्ञानाऽर्थ नासामघट्टयन् असंस्पृशन् तं-लेपं दूरस्थो जिघ्रति, ध्राते च यदि कटुको गन्धः समायाति ततस्तैललेप इति कृत्वा तं समादत्ते। सम्प्रति 'छकायजयणाए' इति व्याख्यानयति -- हरिए बीए बले जुत्ते, वच्छे साणे जलट्ठिए। पुढवि संपातिमा सामा,महाँवाते महियामित्ते / / 506 // हरिते बीजे वा साधोः शकटे वा प्रतिष्ठिते तथा बलेबली वर्दाभ्यां युक्ते वा शकटे, तथा शकटेन सह बद्धे वत्स, शकट स्याधः स्थिते शुनि वा, तथा जलस्योपरि स्थिते पृथिव्यां वा सचित्तपृथिवीकायस्योपरि प्रतिष्ठिते शकटे, तथा-संपातिमेषुत्रसगणेषु सत्सु, तथा-श्यामा-रात्रिः तस्यां, महावाते वा वाति, महिकायां निपतन्त्यां लेपग्रहणं नानुज्ञातं, नाप्यमितस्य लेपस्य ग्रहणम्, एष द्वारगाथासंक्षेपार्थः / व्यासार्थस्तु प्रतिद्वारं वक्ष्यते। तत्र यद्यप्यनन्तरं प्रायश्चित्तगाथाद्वयं तथाऽपि नाऽ व्याख्यातेषु द्वारेषु तद्याख्यातुं शक्यमिति प्रथमतोद्वाराणि व्याख्यायन्ते। तत्र हरितद्वारबीजद्वारं चाधिकृत्याहहरिय बिय पतिहिते य, अनन्तर-परंपरे य बोधवे। परित्तऽणंते य तहा, चउभंगो होति नायव्वो // 507 / / हरिते बीजे ये साधौ शकटे वा अनन्तरपरम्परे वा प्रतिष्ठिते प्रत्येकं चतुर्भङ्गी भवति-ज्ञातव्या / गाथायां पुंस्त्वं प्राकृतत्वात्। तथा-हरिते बीजे च प्रत्येक परीत्तेऽनन्ते च साधौ शकटे वा वाऽनन्तरपरम्परप्रतिष्ठिते प्रत्येकं चतुर्भङ्गी। इयमत्रा भावना-हरितेषु साधुरनन्तरप्रतिष्ठितः ना परं परप्रतिष्ठितः 1 परंपर प्रतिष्ठितो नानन्तरप्रतिष्ठितः 2, अनन्तरप्रतिष्ठितोऽपि परंपर प्रतिष्ठितोऽपि 3, नानन्तरप्रतिष्ठितो नापि परंपरप्रतिष्ठितः 4, एवं बीजेष्वपि साधुमधिकृत्य चतुर्भङ्गो, एवं गन्त्रामप्याधिकृत्य हरितेषु बीजेषु च प्रत्येकं चतुर्भङ्गी द्रष्टव्या। हरितेष्वनन्तरं प्रतिष्ठिता गन्त्री नो परंपरप्रतिष्ठिता इत्यादि, एवं सर्वसङ्कलनया चतुर्भङ्गी चतुष्टयं जातम् / चतुर्भङ्गीद्विकं तु-साधुगन्त्रीसंयोगतो द्रष्टव्यम्, तथाहरितेषु च साधुर्गन्त्री चानन्तरप्रतिष्ठिता इत्यादिभङ्गचतुष्टयं प्राग्वत् / एवं बीजेष्वपि सर्वसंख्यया षट् चतुर्भङ्गयः / एतच चतुर्भङ्गषट्कं किल प्रत्येकेषु हरितबीजेषू त्कम्, एवमनन्तेष्वपि द्रष्टव्यमेवं मिश्रेष्वपि। साम्प्रतमौव प्रायश्चित्तमुच्यते। चउरो लहुगा गुरुगा, मासो लहु गुरु य पणगलहुगुरुयं / छसु परितणंमीसे, बीजे से अणंतरपरे य / / 508|| हरिते चशब्दसंसूचिते प्रत्येकके अनन्तरपरंपरभेदतस्त्रिष्वाद्येषु भङ्गेषु चत्वारो लघुका वक्तव्याः। इयमा भावना प्रत्येकेषु हरितेषु साधावनन्तरप्रतिष्ठिते प्रथम भङ्गे प्रायश्चित्तं चतुर्लघु, द्वितीये परम्परप्रतिष्ठिते चतुर्लघु, तृतीये भङ्गे अनन्तरपरम्परप्रतिष्ठिते द्वे चतुर्लधुके, चरमे भङ्गे शुद्धः। तथा प्रत्येकहरितेषु साधौगन्त्र्यां वाऽनन्तरप्रतिष्ठायां द्वे चतुर्लधुके, द्वितीयभङ्गेऽपि परम्परप्रतिष्ठितायां द्वे चतुर्लघुके, तृतीयभङ्गे उभयोः उभयत्रा प्रतिष्ठितयोश्चत्वारि लघुकानि, चरमभङ्गे शुद्धः / तथा हरितेष्वनन्तेषु साधावनन्तरप्रतिष्ठिते प्रायश्चितं चतुर्गुरुकम्, द्वितीयेऽपि परम्परप्रतिष्ठितेचतुर्गुरु, तृतीयेऽनन्तरपरम्परप्रतिष्ठितेद्वे चतुर्गुरुकें, चरमे शुद्धः, गन्त्र्याभप्यनन्तहरिते अनन्तरप्रतिष्ठितायां चतुर्गुरु परम्पर प्रतिष्ठितायामपि चतुर्गुरु, उभयप्रतिष्ठितायां द्वे चतुर्गुरुके, चरमे शुद्धः / अनन्तरहितेषु साधौ गन्त्र्यां वाऽनन्तरप्रतिष्ठितायां द्वे चतुर्गुरुके, परम्परप्रतिष्ठितायामपि द्वे चतुर्गुरुके, उभयप्रतिष्ठितायां चत्वारि चतुर्गुरुकाणि, चरमे शुद्धः, तथा-मिश्रेषु प्रत्येकहरितेषु साधावनन्तरप्रतिष्ठितेमासलघु, परम्पर प्रतिष्ठितेऽपि मासलघु, उभयप्रतिष्ठिते द्वेमासलघुके, चरमे भङ्ग शुद्धः / गन्त्र्यामप्यनन्तर-परंपरप्रतिष्ठितायामपि मासलघु, उभयप्रतिष्ठितायांद्वेमासलघुके, चरमे भङ्गे शुद्धः। साधौ गन्त्र्यां वाऽनन्तर प्रतिष्ठितायां द्वे मासलघुके, परंपरप्रतिष्ठितायामपि द्वे मासलघुके, उभयप्रतिष्ठितायां चत्वारि मासलघूनि, चरमे भने शुद्धः / तथा-मिश्रेष्वनन्तहरितेषु साधावनन्तरप्रतिष्ठिते मासगुरु, परंपर प्रतिष्ठिते पिमासगुरु, उभयप्रतिष्ठिते द्वे मासगुरुके, चतुर्थे शुद्धः / गन्त्र्यामपि तदनन्तरप्रतिष्ठितायां मासगुरु, परम्परप्रतिष्ठितायमपि मासगुरु, उभयप्रतिष्ठितायां द्वे मासगुरुके, चरमे शुद्धः / साधौ गन्त्र्यां वाऽनन्तरतिष्ठितायां द्वे मासगुरुके, परंपरप्रतिष्ठितायामपि द्वे मासगुरुके, उभय प्रतिष्ठितायां चत्वारि मासगुरुकाणि, चरमभङ्गे शुद्धः / 'पणग लहुगुरुगमिति' बीजेषु प्रत्येकेषु सचितेषु मिश्रेषु वा प्रत्येकं साधावनन्तरत्रातिष्ठिते लघुरात्रिंदिवपञ्चकम्, परंपरप्रतिष्ठितेऽपि लघुपञ्चकम्, उभयप्रतिष्ठिते द्वे लघुपञ्चके, चरमभङ्गे शुद्धः / तथा गन्त्र्यामनन्तर प्रतिष्ठितायां लघुपञ्चकम्, परंपरप्रतिष्ठितायामपि लघुपञ्चकम्, उभय प्रतिष्ठितायां वे लघुपञ्चके, चरमभङ्गे शुद्धः / साधौ गन्त्र्यां वाऽनन्तर प्रतिष्ठितायां वे लघुपञ्चके, परमप्रतिष्ठितायामाप द्वे लघुपञ्चके, उभयप्रतिष्ठितायां चत्वारि लघुपञ्चकानि चरमभङ्गे शुद्धः / एवमनन्तेषु रात्रिन्दिवपञ्चकं गुरुकं द्रष्टव्यम् / एवं बीजे, चशब्दात् हरिते च प्रत्येके सचित्तेऽनन्ते सचित्ते मिश्रे वा वाऽनन्तरे षट्पट्सु भङ्गेषु यथायोग प्रायश्चित्तमवगन्तव्यम्। इदानीं चलादिद्वारप्रतिपादनार्थमाह - दवे भावे य चलं, दव्वम्मी दुट्टियं तु जं दुपयं / आयाएँ संजमम्मिय, दुविहा उ विराहणा तत्थ / / 506 / / चलं नाम द्विविधम्, तद्यथा-द्रव्यतः, भावतश्च। तत्र द्रव्यतश्चलं यत् द्विपदं शकटं दुःस्थितं तत्र लेपं गृहृतश्चतुर्गुरुकम्, यतस्ततो द्विविधा विराधना-आत्मनि, संयमे च / तत्रात्मविराधना शकटने पततोऽभिघातसम्भवात्, संयमविराधनाशकटे संचाल्यमाने प्राणिजात्युपमर्दनात्। भावचलँ गंतुकाम, गोणाई अन्तराइयं तत्थ / जुत्ते वि अंतराई, वित्तस चलणे य आयाए॥५१०॥ भावचलं नाम-गन्तुकामं योज्यमानमित्यर्थः, तत्रा यावत् लेपो गृह्यते तावद् बलीवनां चारिपानीयनिरोधनम्, आदिशब्दात्मनुष्याणामप्यन्तरायम्, ततो भावचलेऽपि लेपं गृह तश्चत्वारो लघुकाः / गतं चलद्वारम् / अधुना युत्कद्वारमाह-"जुत्ते वी त्यादि युत्कं योक्वितबलीवर्हम्।तत् स्थापयित्वा यदि लेपं गृहति यतः प्राय
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy