SearchBrowseAboutContactDonate
Page Preview
Page 641
Loading...
Download File
Download File
Page Text
________________ लवणसमुद्द 617- अभिधानराजेन्द्रः - भाग 6 लवणसमुद्द महिषीणां चत्वारि भद्रासनसहस्राणि प्रज्ञातानि, तस्यसिंहासनस्य दषिणपूर्वस्यामाग्नेयकोण इत्यर्थः, अत्र विजयदेवस्य अभ्यन्तरपर्षदाम् अभ्यन्तरपर्षद्रूपाणामष्टानां देवसहस्राणां योग्यानि अष्टौ भद्रासनसहस्राणि प्रज्ञप्तानि, तस्य सिंहासनस्य दक्षिणस्यां दिशि अत्र विजयदेवस्य मध्यपर्षदो दशानां देवसहस्राणां योग्यानि दशभद्रासनसहस्राणि प्रज्ञप्तानि, तस्य सिंहासनस्य दक्षिणापरस्यां दिशि नैर्ऋतकोण इत्यर्थः / अत्र विजयदेश्वस्य माह्यपर्षदो द्वादशानां देवसहस्राणां योग्यानि द्वादश भद्रासनसह त्राणि प्रज्ञप्तानि / / 'तस्स णं सीहासणस्से' त्यादि, तस्रू सिंहासनस्य पश्चिमायां दिशि अत्र विजयस्य देवस्य सम्बन्धिनां सप्तानामनीकाधिपजीनां योग्यानि सप्त भद्रासनसनि प्रज्ञातानि, तस्य सिंहासनस्य 'सर्वतः-सर्वासु दिक्षु समन्तत:- सामस्त्येन अत्र विजयस्य देवस्य सम्बन्धिनां षोडशानामात्मरक्षकदेवसहस्राणां योग्यानिषोडशभद्रासन सहस्राणि प्रज्ञप्तानि, अवशेषेषु प्रत्येकं प्रत्येकं सिंहासनमपरिवार सामानिकादिदेवयोग्यभद्रासनरूपपरिवाररहितं प्रज्ञप्तम्॥ विजयस्य णं दारस्स उवरिमागार सोलसवहिं रयणेहिं उवसोभिता, तं जहा-रयणेहिं वयरेहिं वेलिएहिं० जाव रिटेहिं / / विजयस्य णं दारस्स उप्पिं बहवे अट्ठट्ठ मंगलगा पण्णत्ता,तं जहा-सोस्थितसिरिवच्छ०जाव दप्पणा सव्वरयणामया अच्छा० जाव पडिरूवा / विजयस्स णं दारस्स एप्पिं बहवे कण्हचामरज्झया० जाव सव्वरयणामया अच्छा० जाव पडिरूवा। विजयस्सणंदारस्स एप्पिं बहवे छत्तातिछत्तातहेव / / (सू०११३) 'विजयस्स ण' मित्यादि, विजयस्य द्वारस्य डवरिमाकारा:-इति दपरितन आकार:- उत्तरङ्गादिरूपः षोडशविधैः त्नैिरुपशोभितः, तद्यथा-रत्नैः सामान्यतः कर्केतनादिभि: 1 वज्रः २वैडूर्यैः 3 लोहिताक्षरू 4 मसारगल्लैः 5 हंसगर्भः 6 पुलकैः 7 सौगन्धिकैः 8 ज्योतिरसैः / अझैः 10 अञ्जनैः 11 रजतैः 12 जातरूपैः 13 अञ्जनपुलकैः 14 स्फटिकैः 15 रिष्टैः१६॥ 'विजयस्स ण' मित्यादि, विजयस्स्द्वारस्य उपरि अष्टावष्टौ स्वस्तिकादीनि मङ्गलकानि प्रज्ञप्तानि तद्यथेत्यादिना तान्येवोपदर्शयति-'सव्वरयणामया' इत्यादि प्राग्वत्॥ से केणटेणं भंते ! एवं वुचति ? विजय णं दारे 2, गोयमा ! विजये णं दारे विजये णाम देवे महिड्डीए महजुतीए० जाव महाणुभावे पलिओवमद्वितीए परिवसति, से णं तत्थ चउण्हं सामाणियसाहस्सीणं, चउण्हं अग्गमहिसीणं सपरिवाराणां, तिण्हं परिसाणं, सत्तण्हं अणीयाणं, सत्तण्हं अणीयाहिवईणं सेलसण्हं आयरक्खदेवसाहस्सीणं, विजयस्स णं दारस्स विजयाए रायहाणीए अण्णेसिं च बहूणं विजयाए रायहाणीए | वत्थव्वगाणं देवाणं देवीण य आहंवचं० जाव दिव्वाई भोगभोगाई मुंजमाणे विहरह, से तेणटेणं गोयमा! एवं दुचति-विजये दारे, (अदुत्तरं च णं गोयमा! विजयस्सणंदारस्स सासए णामधेजे पण्णते, तणकयाइ णासी, ण कयाइ णत्थि, ण कयाइ ण भविस्सति,जाव अवट्ठिए णिचे विजय दारे।।)(सू०१३४) ‘से केणटेणंभंते ! एवं वुचई' इत्यादि प्रश्नसूत्रं सुभमम्, भगवानाह'गोयमे' त्यादि, गौतम ! विजये द्वारे विजयो नाम, प्राकृतत्वात् अव्ययत्वाच नामशब्दात्परस्य टावचनस्य लोपस्ततोऽययमर्थ:प्रवाहतोऽनादिकालसन्ततिपतितेन विजय इति नाम्ना देव: 'तहर्द्धिकः' महती ऋदि: भवनपरिवारादिका यस्यासौ महर्द्धिकः 'महाद्युतिकः महति धुति:-शरीरगता आभारणगता च यस्यासौ महाछुतिकः, तथा महद् बलं-शारीर: प्राणो यस्य स महाबलः, तथा महद्यश:-ख्यातिर्यस्यासौ महायशाः, महेश इत्याख्या-प्रसिद्धिर्यस्य स महेशाख्यः, अथवाईशनमीशो भावे घञ्प्रत्यय: ऐश्वर्यमित्यर्थः 'ईश ऐश्वर्ये' इति वचनात् तत ईशनमैश्वर्यम् आत्मन: ख्याति:, अन्तर्भूतण्यर्थतया ख्यापयतिप्रथयति यः स ईशाख्यः, महांञ्चासावीशाख्यश्च महेशाख्यः, क्वचित् महायोक्खे इति पाठस्तत्र महत् सौख्यं प्रभूतसद्वेद्योदयवशायस्य स महायौख्य: पल्योपमस्थितिकः परिवसति, सच तत्र चतुर्णा सामानिकसहस्राणां चतसृणामग्रकहिषीणां सपरिवाराणां प्रत्येकमेकैकसहस्रसंख्यपरिवारसहितानां तिसुणाम् अभ्यन्तरमध्यमबाह्यरूपाणां यथाक्रममष्टदशद्वादशदेवसहस्रसंख्याकानां पर्षदां सप्तानामनीकानांहयानीकगजानीकरथानीकयदात्यनीकमहिषानीकगन्धर्वानाकनाटयानीकट्यानीकरूपाणां सप्तानामनीकाधिपतीनां षोडशानात्मरक्षसहस्राणां विजयस्य द्वारस्य विजयाया राजधान्या अन्येषां च बहूनां विजयाराजधानीवास्तव्यानां देवानां देवीनांच'आहेवच्चं ति आधिपत्यम् -अधिपतेः कर्म आधिपत्यं रक्षा इत्यर्थः, सा च रक्षा सामान्येनाप्यारक्षकेणेव क्रियते तत आह-पुरस्य पतिः पुरपतिस्तस्य कर्म पौपत्यं सर्वेषामग्रेसरत्वमिति भावः। तच्चाग्रेसरत्वं नायकत्वमन्तरेणापि स्वनायकनियुक्तथा विधगृहचिन्तकसामान्य-पुरुषस्येव (स्यात्) ततो नायकत्वप्रतिपत्त्यर्थमाह-'स्वामित्वम् स्वमस्यास्तीति स्वामी; तद्भव: स्वामित्वं नायकत्वमित्यर्थः, तदपि च नायकत्वं कदाचित्पोषकत्वमन्तरेणापि भवति, यथा- हरिण्यूथाधिपतेर्हरिणस्य तत आह-भर्तृत्वपोषकत्वम्, "दुभृञ्धारणपोषणयोः" इति वचनात्, अत एव महत्तरकत्वम्, तदपि चेह महत्तरकत्वं कस्यचिदाज्ञाविकलस्यापि भवति, यथा-कस्यचिद्वणिज: स्वादासीवर्ग प्रति तत आह 'आणाईसरसेणावच्चं' आज्ञया ईयवर आज्ञेयवर: सेनाया: सेनापतिः, आज्ञेश्वरश्चासौ सेनापतिश्च आज्ञेश्वरसेनापतिस्तस्य कर्म आज्ञेश्वरसेनापत्यं स्वसैन्यं प्रत्यद्रुतमा-ज्ञाप्राधान्यमिति भावः, कारवन् अन्यैर्नियुक्तैः पुरुषः पालयन स्वमेव, महता रवेणेतियोगः 'अहय,ति आक्ष्यानकप्रतिगद्धानि, यदि वा-अहतानि-अव्याहतानि नित्यानि-नित्यानुबन्धीनीति भावः, ये
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy