________________ राग 545 - अभिधानराजेन्द्रः - भाग 6 रागदोसविजेता दानं तु सर्वज्ञैः , कुत्रापि न निषिध्यते // 1 // " तथा-'दानं यत्प्रथमोपकारिणि न तत्प्रायः स एवार्ण्यते, दीने याचनमूल्यमेव दयिते तक्ति न रागाश्रयात् / पात्रे यत्फलविस्तरप्रियतया तद्वार्द्धषीकं न किं, तद्दानं यदुपेत्य निःस्पृहतया क्षीणे जने दीयते।।१॥ इतिगाथार्थो ज्ञेयः।।१७०॥ सेन०४ उल्ला० / मन्मथपारवश्ये, तं०। रागकिरिया स्त्री० (रागक्रिया) येन परस्य राग उत्पद्यते तादृशे क्रियाभेदे, आ० चू०४ अ०॥ रागज्झवसाण न० (रागाध्यवसान) रागहेतुकेऽध्यवसानभेदे,आ० चू० 1 अ०। (अस्य कथा आउ' शब्दे द्वितीयभागे 11 पृष्ठे गता) रागज्झाण न० (रागध्यान) रागविषयकदुर्व्याने , आतु०।"रागज्झाणे "रागोऽभिष्वङ्गमात्रम् , स च कामरागस्नेहरागदृष्टिरागभेदात्रिधा। तत्र कामरागो विष्णुश्रियां विक्रमयशोराजस्येवा स्नेहरागोदामत्रकस्य सुरश्रेष्ठिन इव स्वपुत्रमरणश्रवणतो हृदयस्फाटात्, दृष्टिरागो ब्रह्मलोकादागत्य स्वदर्शनानुरागतः स्वशिष्यं प्रति-आसुरे ! रमसे इत्या-दिभणतः कपिलस्येव तस्य ध्यानम्। तस्मिन् , आतु०। रागदोसविजेतापुं० (रागद्वेषविजेतृ) जिने, रत्ना० / रागद्वेषविजेतारं, ज्ञातारं विश्ववस्तुनः। शक्रपूज्यं गिरमीशं ,तीर्थेशं स्मृतिमानये / / 1 / / तीथस्य चतुर्वणस्य श्रीश्रमणसङ्घस्य, ईशम्-स्वाभिनम् , आसन्नोपकारित्वेनात्र श्रीमहावीरम्; अहमिह प्रक्रमे स्मृतिमानये, इति सण्टङ्कः / रागद्वेषयोः , विशेषेण अपुनर्जेयतारूपेण जयनशीलमिति ताच्छीनिकस्तृन्; ततः "न कर्तृतजकाभ्याम् "इति तृचा षष्ठीसमासप्रतिषेधात् कथमत्रायम् ? ; इति नाऽऽरेकणीयम् / तथा विश्ववस्तुनः कालत्रयवर्तिसामान्यविशेषात्मकपदार्थस्य, ज्ञातारम्, अमकेवलालोकेन / शक्राणाम् -इन्द्राणाम् पूज्यम्-अर्च, नीयम्, जन्मस्नात्राष्टमहाप्रातिहार्यादिसम्पापनेन। गिराम् वाचाम् , ईशम्-ईशितारम् , अवितथवस्तुवातविषयत्वेन तासां प्रयोक्तृत्वात् / अनेन च विशेषण-चतुष्टयेनाऽमी यथाक्रमं भगवतो मूलातिशयाञ्चत्वारः प्ररूपिताः। तद्यथा-अपायापगमातिशयः, ज्ञानातिशयः, पूजातिशयः, वागतिशयञ्चे-ति। एतेनैव च समस्तेन गणधरादेः स्वगुरुपर्यन्तस्य स्मृतिः कृतैव द्रष्टव्या; तस्याप्येकदेशेन तीर्थेशत्वात् , / निगदितातिशयचतुष्टधारत्वाच / इति परापरप्रकारेण द्विविधस्याप्युपकारिणः सूत्रकाराः सस्मरूः / अपकारिणस्तु तथाभूतस्येत्थमनेनैव श्लोकेन स्मृतिमकुर्वन् तीर्थस्य-प्रागृक्तस्य, तदाधेयस्याऽऽ गमस्य वाः ईम्-लक्ष्मी, महिमानं वाः श्यति तत्तदसद्भूतदूषणोद्धोषणैः स्वाभिप्रायेण तनूकरोति यःस तीर्थशः, तीर्थान्तरीयो बहिरङ्गापकारी, तम्। किं रूपम् ? शक्रः पूज्यो यागादौ हविनादिना यस्य स तथा, तम्: एतावता वेदानुसारिणो भट्टप्रभाकरकणभक्षाक्षपादकपिलाः सूचयाञ्चक्रिरे / पुनः किं भूतं तीर्थेशम् ? -गिरामीशंवाचस्पतिमः इति नास्तिकप्रतप्रवर्तयितुर्वृहस्पतेः सूचा। तथा गिराम् वाचम् ईम्-लक्ष्मी शोभां, श्यति यः तमः परमार्थतः पदार्थप्रतिपादनं हि वाचां शोभा, तां च तासामपोहमात्रगोचर-तामाचक्षाणस्तथागतस्तनूकरोत्येव; इति विशेषणावृत्त्या सुगतोपक्षेपः / पुनः कीदृशं तम् ? ज्ञातारमविश्ववस्तुनः-नोऽस्माकं श्वेतभिक्षणां सम्बन्धि, विश्ववस्तु समस्तजीवादितत्त्वं कर्मताऽऽपन्नम्, समानतन्त्रत्वाज्ज्ञातारम्; इति दिगम्बरावमर्शः / ज्ञातारमिति च तृन्नन्तम्, इति "तृनुदन्त०"इत्यादिना कर्मणि षष्ठीप्रतिषेधः / नन्वेकस्मिन्नेव वक्तरि स्वात्मानं निर्दिशति कथम् 'आनये' इत्येकवचनम्, 'नः' इति बहुवचनं च समगंसाताम् ? इति चेत् / नैतद् वचनीयम्, 'नः' इत्यत्रापि वक्त्रा स्वस्यैकत्वेनैव निर्देशात्; बहुवचनं त्वेकशेषवशात्। तथाहि ते चान्ये सर्वे श्वेतवाससः, अहं च प्रचिक्रसितशास्वसूत्रधारः, वयम्; तेषां नः, "त्यदादिः" इत्यनेनाऽस्मन्छब्दोऽवशिष्यते, बहुवचनंच भवति। ततोऽस्माकं श्वेतवासोदर्शनाश्रितानां सर्वेषां तत्त्वं यो जानाति,तंचस्मरामीत्युक्तं भवति / इत्थं चैकशेषशालिविशेषणं कुर्वाणैस्तच्छब्दोपदिष्टमार्गस्थाशेषश्वेताम्बरपारतत्त्र्यं स्वसरूाऽऽविश्वक्रे / पुनः कीदृक्ष तम् ? रागद्वेषविजेताऽरम्-इतम्-प्राप्तसम्बन्धम्, आरम्-सांसारिकानेकक्लेशस्वरूपशत्रुसमूहोयस्मिस्तीर्थेशेस तथा,तंच; कथमतादृशं तम् ? इत्याह-रागद्वेषविजारागद्वेषाभ्यां कृत्वा याऽसौ विक् श्रीमदर्हत्प्रतिपादितत्वात् पृथग्भावः, तया। भगवदर्हत्प्रतिपादितं तत्त्वमनुभवन्तोऽपि हि रागद्वेषकालुष्यकलङ्काक्रान्तस्वान्ततया परेऽपरथैव प्रलपन्तः संसारिकक्लेशशात्रवगोचरतां गच्छन्त्येवा अनेन चाशेषाणां शेषाणामपि सम्भवैतिह्यप्रमाणवादिचरकप्रमुखाणामाविष्करणम् / न खलु मोहमहाशैलूषस्यैको नर्तनप्रकारो यदशेषतीर्थकानां प्रत्येकं स्मृतिः कर्तुं शक्येता नन्वेवमेतान् प्रतिक्षेपाथमुपक्षितोऽस्य रागद्वेषकालुष्यवृद्धिः स्यात्, इति श्रेयोविशेषार्थमुपस्थितस्याऽश्रेयसि प्रवृत्तिरापन्ना; इतिशङ्का निरसितुं 'रागद्वेष-' इति विशेषणं श्लिष्टमजीघटन्-अरम्-अत्यर्थम्, रागद्वेषयोर्विजयनशीलः; तेषां स्मृतिमस्मि करोमि, न त्वन्यथा, इति तत्र भवदभिप्रायः; प्रमाणनयतत्त्वं खल्वत्र शुचिविचारचातुरीपूर्वमालोकनीयम्। नच रागद्वेषकषायितान्तःकरणैर्विरच्यमानो विचारश्चारुतामञ्चति / इत्यन्तरङ्गापकारिस्मरणम् / ननु तथाऽपि कथमेतैर्दिव्यदृग्भिरर्वाग्दृशऽस्य तत्त्वविचारः साधीयान् ? इत्यारेकामपाकर्तुं श्लेषेणैव व्यशीशिषन्-ज्ञातारं विश्ववस्तुनः / विमलकेवलालोकाऽऽलोकितलोकालोकश्रीमदर्हत्प्रतिपादितागमवशात् खल्वहमपि कामं विश्वस्तूनां ज्ञातैवेति / बृहवृत्तौ तु स्वकर्तृकत्वाद नामीषामपकारिणां निराचिकीर्पितत्वेन स्मरणं व्याख्यायि, न खलु महामीदृशमर्थमित्थं प्रकटयतामौचिती नातिवर्त्तते; फलानुमेयप्रारम्भत्वात् तेषाम् / सूचामात्रं तु सूत्रे कतिपयात्यन्तसहृदयहृदयसंवेद्यमविरुद्धमिति। रत्ना०१परि०। रागदोसभिभूय न० (रागद्वेषाभिभूत) रागश्च-प्रीतिलक्षणो द्वेषश्च तद्विपरीतलक्षणस्ताभ्यामभिभूत आत्मा येषाम्। रागद्वेषाभिभूतस्वरूपे, सूत्र०१श्रु०३१०३उ०।