________________ मंस 32 - अभिधानराजेन्द्रः - भाग 6 स्वजनन्या चाऽऽत्मीयमातरि च स्त्रीत्वादङ्ग नात्वेन हेतुना, तुल्यैव | समानवाभिगमरूपा पूज्यारूपव वा सा प्रवृत्तिरस्तु भवतु, ते तव, स्त्रीत्वाविशेषाद्वयोरपि, यथा प्राण्यङ्गत्वाविशेषान्मांसौदनयोरिति॥६॥ प्रकरणार्थनिगमनायाऽऽह - तस्माच्छास्त्रं च लोकं च, समाश्रित्य वदेद् बुधः / सर्वत्रैवं बुधत्वं स्या-दन्यथोन्मत्ततुल्यता॥७।। यस्माद्भवदुक्तसाधनमनन्तरोक्तनयायेन बहुदोषदुष्ट तस्मात्कारणाच्छास्त्रं चाऽऽतवचनं, लोक च विशिष्टजनं, समाश्रित्याङ्गीकृत्य, वदेत ब्रूयात, कोऽसौ ? बुधः पण्डितः, क्व विषये ? इत्याह-सर्वत्र न मांसभक्षणविषय एवाऽपि तु सर्वस्मिन्नपि विषये, अन्यथा हि बुवाणस्य लोकरूढिनिराकृताऽऽदयः पक्षदोषाः प्रासजेयुः, एवं ब्रुवाणस्स को गुण इत्याहएवमनेन प्रकारेण लोकशास्त्रसमाश्रयणपूर्वक वदनलक्षणेन, बुधत्वं पण्डितत्व, स्याद्भवेत्। विपर्यये किं स्यादित्याह-अन्यथा अन्येन प्रकारेण लोकशास्त्रानपेक्षतावदनलक्षणेन, उन्मत्ततुल्यता ग्रहगृहीतसमानता, स्यादिति गम्यते / आह च-"संता पथा प्रवृत्तस्य, तेजोवृद्धी रवेरिव / यदृच्छया प्रवृत्तस्य, रूपनाशोऽस्ति वायुवत् / / 1 / " इति // 7 // इति बौद्धाभ्युपगताऽऽप्तवचननिषिद्धत्वं मांसभक्षणस्य दर्शयन्नपसंहारर्थमाह - शास्त्रे चाऽऽप्तेन वाऽप्येत-निषिद्धं यत्नतो ननु। लङ्काऽवतारसूत्राऽऽदौ, ततोऽनेन न किञ्चन / / 5 / / न केवलं लोके, अरमच्छा स्त्रे चेदं निषिद्धं, शास्त्रे चाऽऽगमे चाऽऽअन क्षीणरागाऽऽदिदोषेण सुगतेन वाऽपि युष्माकमपि न केवलमस्माकमेव, एतन्मासभक्षणं निषिद्धं निवारित, यत्नत आदरेण, नन्वित्यक्षमाया, क शास्त्रे निषिद्धमित्याहलाऽवतारसूत्राऽऽदौ निशाचरविनयनाय लङ्कायामवतारः, सूच्यते तथागतस्य यत्र तल्लङ्काऽवतारसूत्र, तदादी, तत्र किलोक्तम्- "न प्राण्यङ्गसमुत्थं, मोहादपि शङ्खचूर्णमश्नीयात् / " आदिशब्दाच्छीलपटलाऽऽदिपरिग्रहः। 'तत इति' यस्मादेव तस्मादनेन मांसभक्षणसमर्थनेन, न किशन नास्ति किञ्चन, भवतोऽपि प्रयोजनमिति शेष इति / / 8 / / हा०१७ अष्ट० / तदेवं मांस न भक्षणीय, लोकशास्त्रविरोधादिति धर्मवादतो व्यवस्थापिते यः कश्चिदसहमान आह-"न मांसभक्षणे दोषः" इति तन्मतप्रस्तावनायाऽऽह - अन्योऽविमृश्य शब्दार्थ, न्याय्यं स्वथमुदीरितम्। पूर्वापरविरुद्धार्थ-मेवमाहात्र वस्तुनि।।१।। अन्यः-पूर्वपक्षीकृतबौद्धादपरो द्विज इत्यर्थः, अविमृश्यापर्यालोच्य, शब्दार्थ मांसमित्यस्य ध्वनेरभिधेयम् / आह इति संबन्धः किंभूतं शब्दार्थमित्याऽह-न्याय्य न्यायादनपेतम्, तथा स्वयमात्मना उदीरित प्रतिपादित "मास भक्षयिता" इत्यादिना श्लोकेन / कथमाहेत्याह पूर्वस्य ५वातस्य "मांस भक्षयिता" यासिभक्षणनिषेधार्थरय, अपरेण अपरोक्तेन "न मांसभक्षणे दोषः" इत्यनेन "प्रोक्षितं भक्षमेन्मासम् / " इत्यादि नावा। अथवा-"न मांसभक्षणे दोषः" इत्यस्य पूर्वस्य निति महाफलेत्यनेनापरेण सह विरुद्धो विसंवाद्यर्थोऽभिधेयो यत्र तत् पूर्वोपर विरुद्धार्थ क्रियाविशेषणं चेदम्, एवमिति वक्ष्यमाणप्रकारम्, आहबवीति, अत्र मांसभक्षणे, वस्तुनि पदार्थ इति / / 1 / / यदाह तदेव दर्शयति - न मांस भक्षणे दोषो, न मद्ये नच मैथुने। प्रवृत्तिरेषा भूतानां, निवृत्तिस्तु महाफला ||2|| (न) नैव मांसभक्षणे पिशिताशने दोष इति दूषणं कर्मबन्धलक्षण: अस्यैव चाऽऽद्यपदार्थस्य पूर्वश्लोकेन प्रस्तावना कृता तत्प्रसङ्गेन च शेष पदत्रयं श्कोकस्याधीनमिति तस्य व्याख्या-तथा (न) नैव मद्ये मधुनि, पीयमाने इति गम्यते, (न) नैव, चशब्दः सनुचयार्थः / मैथुने अब्रह्मचर्ये, क्रियमाणे इति गम्यते। कुत एतदेवमित्याह-यतः प्रवृत्तिः स्वभावः, एषा मासक्षणाऽऽदिकाऽनन्तरोक्ता, भूतानां प्राणि नां, निवृत्तिर्विरमणं पुनर्मा सभक्षणाऽऽदिभ्य इति गम्यते। महद बृहत फलं साध्यमभ्युदयाऽऽदिक यस्याः सा महाफलेति / / 2 / / योऽसौ स्वयमुदीरितो मांसशब्दार्थस्तमाह - मांस भक्षयिताऽसुत्र, यस्य मांसमिहाम्यहम् / एतन्मांसस्य मांसत्वं, प्रवदन्ति मनीपिणः||३|| मामिति भक्षक आत्मानं निर्दिशति, स इति भक्ष्यमाणो जीवः भक्षयितेति स्वस्तनीप्रथमपुरुषैकवचननिर्देशः, ततो भक्षयिष्यत इत्यर्थः / तृन् वाऽयंशीलार्थिकः / अभुत्र जन्मान्तरे कि विधेय इत्याह-यस्य पश्वादे सि पिशितमिहास्मिन् जन्मनि अघि भक्षयामि अहमित्यात्मानं भक्षको निर्दिशति, एतदनन्तरोदितं भक्षणलक्षणं, मांसस्य पिशितस्य, मांसत्वं मांसशब्दव्युत्पत्तिनिमित्तं, निरुक्तमित्यर्थः / प्रवदन्ति प्रतिपादयन्ति, मनीषिणो निरुक्तविधिकुशला हात / / 3 / / एतेन च मांसभक्षणापायप्राप्तिप्रतिपादनेन मांसभक्षणे दोषोऽस्तीति व्यक्तनेयोक्तमतः कथमुक्तम् "न मांसभक्षणे दोषः" इत्येतदेवाऽऽहइत्थं जन्मैव दोषोऽत्र, न शास्त्राद् बाह्यभक्षणम्। प्रतीत्यैष निषेधश्च, न्याय्यो वाक्यान्तरादतेः॥४॥ इत्थमनेन प्रकारेण भक्षकस्य भक्षितेन भक्षणीयत्वप्राप्तिलक्षणेन यञ्जन्म उत्पत्तिस्तदेव, किमपरदोषगवेषणेन, दोषो दूषणमनर्थावाप्तिरित्यर्थः, अत्र मांसभक्षणे, ततः कथमुक्तम्- "न मांसभक्षणे दोषः।" इति हृदयम्। अत्र किल परः प्राह-(न) नैवं यद्भक्षकस्य भक्षणीयत्वप्रानेा सभक्षणे दोष इति।कुत इत्याहयतः शास्त्राटागमाद, बाह्यभक्षणं बहिर्भूतमांसादनं, प्रतीत्याऽऽश्रित्य एषोऽनन्तरोक्त इत्थं जन्मलक्षणो दोषो, न पुनः शास्त्रीयमांसभक्षणे, तथा निषेधश्च मांसभक्षणप्रतिषेधोऽपि, “मांस भक्षा यितेत्यादिनिरुक्तबलप्रापितशास्त्राद्वाह्यभक्षणमेव प्रतीत्य न्याय्य उपपन्नः, कथं ! वाक्यान्तरात् “मांसभक्षयिता" इत्यादिवा क्यापेक्षया यदन्यद्वाक्यं तद्वाक्यान्तरं, तस्माद्गतेः परिच्छित्ते मसिभक्षणस्येति गम्यम् / अथवा-'इत्थ' जन्मैव दोषोऽत्र इत्येक तावद् दूषण, तथा अपर (न) नैव शास्त्राद्बाहाभक्षणं प्रतीत्यैषो ऽनन्तरोक्तो "न मांसभक्षणे दोष" इत्येवंलक्षणो निषेधो मांसभक्षणलक्षणे दोषप्रतिषेधः, चशब्दोदूषणान्तरसमुचयाओं, न्याय्यः सङ्गतः यक्ष्यमाणप्रोक्षिताऽऽदिविशेषमासादन एव दोषनिषेधो न्याय्य:, शास्त्रोक्तत्वादेव, न पुनः सामान्येनेति भावः /