________________ राइभोयण 525 - अभिधानराजेन्द्रः - भाग 6 राइभोयण अन्ने वि विद्देवेहि य, अलमजो अहव तुम्भ मरिसेमि। तेसिं पि होइ बलियं, अकजमेयं न य तुदंति / / 817 // एष एवं कुर्वन्नन्यानपि साधून विद्रावयिष्यति-विनाशयिष्यति / अत आर्याः ! अलं-पर्याप्तमस्माकमेतेन / साधवो ब्रुवते--क्षमाश्रमणाः / न भूय एवं करिष्यति / एकवारपराधं क्षमयन्तु भगवन्तः / गुरवो भणन्तिख्येवं ततोऽहं युष्माकंन मर्षयामि, परमेतस्य पञ्चकल्याणक प्रायश्चित्तं दीयते। एवमुक्ते तेषामप्यगीतार्थानां वलिकमत्यर्थं हृदये भवति। यथानूनमकार्यमेतदिति,नच पश्चाज्ज्योतिः स्पर्शनादौ नोद्यमानास्तुदन्ति, प्रतिनोदनया अन्यथा-उत्पादन्तीत्यर्थः। एसो विहिउ अंतो, बाहिं रुद्धे इमो विही होइ। सावय तेणय पडिणी-य देवयाए विही ठाणं // 18 // एष विधिरन्तस्तिष्ठमभ्यन्तरे प्रविष्टानामक्तः / अथ बहिस्तिष्ठतां विधिरुच्यते। निरुद्धे-स्थगिते द्वारे ग्रामादौ विकाले वा तत्रापूर्वः प्रवेशे न लभते इत्यादिकारणसम्भवे बहिःस्थितानां यदि श्वापदभयं स्तेनकभयं वा भवति, तदा वक्ष्यमाणा यतना कर्तव्या। यवद्देवताया आकम्पनार्थ विधिना स्थानं कायोत्सर्गलक्षणं क्षपणकेण कत्तय॑मिति / यतनामेवाऽऽहभूमिघरदेउले वा, सहिया वरणे व रहिय आवरणे। रहिए विजा अचित-मीसं सचित गुरुआणा॥ 16 // बहिस्तिष्ठतां यदि श्वापदादिभयं, तथा भूमिगृहे देवकुले वा आवरणं-- कपाट तेन सहिते तिष्ठन्ति। गाथायां प्राकृतत्वात् व्यत्यासेन पूर्वापरनिपातः / अथ सकपाटं न प्राप्यते, तत आवरणरहितेऽपि तिष्ठन्ति, दिशां वा विद्याप्रयोगेण बन्धं विदधति, यतः श्वापदादयो न प्रविशन्ति, विद्याया अभावेऽचित्तकण्टिकाभिस्तदप्राप्तौ मिश्रकण्टिकाभिस्तदलाभे सचित्तकण्टिकाभिरपि स्थगयन्ति / तदभावे 'गुरुआण' त्ति गरुयो भागवतीमाज्ञां प्ररूपयन्ति / यथा-आचार्यादीनां मारणान्तिक उपसर्गे उपस्थिते यः समर्थो भवति, तेन यथासामर्थ्य तन्निवारणे पराक्रमणीयमिति नियुक्तिगाथासमासार्थः / अथैनामेव विवरीषुराहसंकवाडम्मि उपुट्विं, तस्सासइ आणइंति उ कवाडं। विजाएँ कंटियाहि व, अचित्तचित्ताहि ठगयंति॥२०॥ पूर्व सकपाटे भूमिगृहे देवकुले वा स्थातव्यम्, तस्याऽसति अकपाटे तिष्ठन्तः कपाटमन्यत आनयन्ति। अथ नास्तिकपाटं, ततो विद्यया द्वारं स्थगयन्ति, तदभावे कण्टिकाभिः प्रथममचित्ताभिस्ततो मिश्राभिस्ततः सचित्तताभिरपि स्थगयन्ति। एएसिं असईए, पागारवई व रुक्खनीसाए। परिखेव विज अचित्त-मीससचित्तगुरुआणा।। 521 // एतेषां भूमिगृहादीनामसति प्राकारं वाऽऽवृत्तिं वा वृक्ष वा निश्रये निश्रां कृत्वा तिष्ठन्ति। तत्राऽपि विद्यया परिक्षेपं कुर्वन्ति। तदभावे कण्टिकाभिर्यथाक्रममचित्तमिश्रसचित्ताभिः परिक्षिपन्ति, गुरवश्चाज्ञाप्ररूपणां कुर्वन्ति। गिरिनइतलागमाई, एमेवागम ठयंति विजाई। एगइगे तिदिसिं वा, ठयंति असई असव्वत्तो / / 522 / / गिरि वा नदीं तडागं वा आदिग्रहणाद्गादिकं च निश्रांकृत्वा तिष्ठन्ति तेषां च यत्रैक एव प्रवेशस्तत्र प्रथमस्तिष्ठन्ति, तदभावे यत्र द्वयार्दिशोः प्रवेशस्तत्र तदप्राप्तौ यत्र त्रिषु दिक्षु प्रवेशस्तत्राऽपि तिष्ठन्ति। तेषां चागर्म प्रवेशमुखे च विद्यादिभिः स्थगयन्ति 'असई असव्वत्तो त्ति' प्राकारादिनिश्राया एकप्रदेशादीनांवा अप्राप्तावाकाशे वसन्तः सर्वतो विद्याप्रयोगेण स्थगयन्ति-दिशाबन्धं कुर्वन्ति, तदभावे गुरवः आज्ञाप्ररुपणं कुर्वन्ति। केन विधिनेति चेदुच्यतेनाउमगीयत्थ बलि-ग ताव तेसिंच बलसारं। घोरे मयम्मिथेरा-भणंति अविगीयथेअत्थं / / 523 / / ज्ञात्वा कमप्यगीतार्थं बलिनम्-समर्थम्, यद्वा अविजानन्तस्तेषां स्वसाधूनां पराक्रममाहात्म्यं कस्य कीदृशः पराक्रमो विद्यते इत्येवमजानन्तं इत्यर्थः / घोरे रौद्रे स्वापदादिभये स्थविरा आचार्या अविगीतस्थैर्य स्थिरीकरणार्थ भणन्ति॥ कथमित्याह ?आयरिए गच्छम्मि य, कुलगणसंघे य चेइयविणासे। आलोइयपडिकंतो, सुद्धो जं निजरा विउला / / 24 / / षष्ठीसप्तम्योरर्थं प्रति अभेदः। आचार्यस्य वा गच्छस्य वा कुलस्य वा गणस्य वा चैत्यस्य वा विनाशे उपस्थिते सति सहस्रयोधिप्रभुतिना स्ववीर्यमहापयता तथापराक्रमणीयं यथा, तेषामाचार्यादीनां विनाशो नोपजायेत। स च तथा पराक्रममाणो यद्यपराधमापन्नस्तथाऽप्यालोचितप्रतिक्रान्तः शुध्दः, गुरुसमक्षमालोच्य मिथ्यादुष्कृतप्रदानमात्रेणैवाऽसौ शुद्ध इति भावः / कुत इत्याह यद्यस्मात् कारणात् विपुला महती निर्जरा कर्मक्षयलक्षणा तस्य भवति, पुष्टालम्बनमवलम्ख्य भगवदाज्ञया प्रवर्त्तमानत्वादिति। सोऊणं य पन्नवणं, कयकरणस्सा गयाइणो गहणं / सीहाई चेव तिगं, तवबलिपदे ववट्ठाणं // 525 / / एवंविधा प्रज्ञापनां श्रुत्वा यः कृतकरणस्रयोधिप्रभृतिकस्तस्य गदाया आदिशब्दाल्लगुडस्य वा ग्रहणं भवति, गृहीत्वा गदादिकमसौ गुरुन्न् ब्रवीति; भगवन् ! शेरत विश्वस्ताः सर्वेऽपि साधवः, अहं सिंहाऽऽदीनां निवारणं करिष्यामिाततः सुप्ता साधवः,सपुनरेकाकी गदाहस्तः प्रतिजाग्रदवतिष्ठते। तस्य च प्रतिजाग्रतः सिंहत्रिकं समागच्छत् आदिशब्दाव्याघ्रादिपरिग्रहः / (बृ०)(अस्मिविषये 'मूलगुणपङिसेवणा' शब्देऽस्मिन्नेवभागेव्याघ्रद्दष्टान्तो गतः) ईदशस्यकृतकरणस्याभावेयस्तपोवलिको विकृष्टपसा बलीयान्क्षपकः सदेवतायाआकम्पननिमित्तंस्थानकायोत्सर्ग करोतिएतातोभावयिष्यते।