________________ रहणेमि 467 - अभिधानराजेन्द्रः - भाग 6 रहणे मि 'दसाराय त्ति' दशार्हाः, चशब्दो भिन्नक्रमस्ततः 'बहु त्ति' बहवो जनाश्च अतिगताः-प्रविष्टा इति सूत्रत्रयार्थः। तदा च कीदृशी सती राजीमती किमचेष्टतेत्याहसोऊण रायकन्ना, पव्वजं सा जिणस्स उ। णीहासा उ निराणंदा, सोगेण उसमुच्छिया // 28 // राईमई विचिंतेइ, धिरत्थु मम जीवियं / जाऽहं तेणं परिचत्ता, सेयं पव्वइउं मम // 29|| अहसा भमरसन्निभे, कुत्रफणगप्पसाहिए। सयमेव लुचई केसे, घिइमंती ववस्सिया // 30 // सूत्रत्रयं स्पष्टं, नवरं निष्क्रान्ता हासान्निर्हासा, चशब्दो भिन्नक्रमस्ततो | निरानन्दा च समवसृता-अवष्टब्धा। धिगस्तु मम जीवितमिति स्वजीवितनिन्दोद्भावकं खेदवचो, याऽहं तेन परित्यक्तेति खेदहेतूपदर्शनम्, ततश्च श्रेयः-अतिशयप्रशस्य प्रव्रजितुं-प्रव्रज्यां प्रतिपत्तुं मम, येनान्य जन्मन्यपि नैवं दुःखभागिनी भवेयमिति भावः। इत्थं चाऽसौ तावदवस्थिता यावदन्यत्र प्रविहत्य तत्रैव भगवानाजगाम, तत उत्पन्नकेवलस्य भगवतो निशम्य देशनां विशेषत उत्पन्नवैराग्या किं कृतवतीत्याह-'अहे' त्यादि, अथ-अन्तरं सा-राजीमती भ्रमरसन्निभान्-कृष्णतया आकुञ्चिततया च, कूर्ची-गूढकेशोन्मोचको वंशमयः फणक:-कङ्कतकस्ताभ्यां प्रसाधिताः-संस्कृता ये तान्, स्वयम्-आत्मनैव, लुञ्चति-अपनयति, भगवदनुज्ञयेति गम्यते / केशान्-कचान् ‘धिइमंति त्ति' धृतिमति व्यवसितेतिअध्यवसिता सती, धर्म विधातुमिति शेष इति सूत्रत्रयार्थः। तत्प्रव्रज्याप्रतिपत्तौ चवासुदेवो अणं भणइ, लुत्तके सिं जिइंदियं। संसारसागरं घोरं, तर कन्ने ! लहुं लहुं // 31 // स्पष्टमेव, नवरं तर-इत्युल्लङ्घय, आशीर्वचनत्वादयमप्याशिषि लोट्, लघु लघु-त्वरितं, 2 संभ्रमे द्विवचनमिति सूत्रार्थः / तदुत्तरवक्तव्यतामाहसा पव्वईया संती, पव्वावेसी तहिं बहुं। सयणं परियणं चेव, सीलबंता बहुस्सुआ॥३२॥ गिरि रेवययं जंती, वासेणोल्लाउ अंतरा। वासंते अंधयारम्मि, अंतो लयणस्स साठिया॥३३॥ चीवराणि विसारंती,जहा जाय त्ति पासिया। रहनेमी भग्गचित्तो, पच्छा दिट्ठो अतीइ वि॥३४|| भीया य सा तहिं दटुं, एगते संजयं तयं / बाहाहिं काउँ संगुप्फं, वेवमाणी निसीयई / / 3 / / सूत्रचतुष्टयं स्पष्टमेव, नवरं सा इति-राजीमती 'पव्वावेसि' त्ति प्राविव्रजत्-प्रताजितवती 'तहि ति' तस्यां द्वारकापुरि, रैवतकम्उज्जयन्तं यान्ती-गच्छन्ती, भगवद्वन्दनार्थमिति गम्यते, वर्षेण वृष्ट्या 'उल्ल' ति-आर्द्रा स्तिमितसकलचीवरेति यावत्, अन्तरे अन्तराले अर्द्धपथ इत्यर्थः, 'वासंति' ति-वर्षति नीरद इति गम्यते। अन्धकारे अपगतप्रकाशे, कस्मिन्?-अन्तः-मध्ये, उक्तं हि, अन्तःशबदोऽधिकरणप्रधानम्, मध्यमाह-लयनमिह गृहा तस्यां सा-राजीमती स्थिता इत्यासिता, असंयमभीरुतयेति गम्यते, तत्र च चीवराणिसङ्घाट्यादिवस्त्राणि विसारयन्तीविस्तारयन्ती; अत एव यथा जाता-अनाचछादितशरीरतया जन्मावस्थोपमा 'इती' त्येवं रूपा पासिय' त्ति दृष्टा। तद्दर्शनाच रथनेमिः-रथनेमिनामा मुनिः भग्नचित्तः भग्नपरिणामः सन् प्रक्रमात्संयम प्रति, स हि तामुदाररूपामवलोक्य समुत्पन्नतदभिलाषतिरेकः परवशमनाः समजनि। पश्चाद् दृष्टश्च तया-राजीमत्या अपिः पुनरर्थे , प्रथमप्रविष्टर्हि नान्धकारप्रदेशे किश्चिद वलोक्यते, अन्यथा हि वर्षणसम्भ्रमादन्यान्याश्रयगतासु शेषसाध्वीष्वेकाकिनी प्रविशेदपि न तत्रेयमिति भावः, भीता च मा कदाचिदसौ मम शीलभङ्गं विधास्यतीति, तस्मिन् इति लयने दृष्ट्वा एकान्ते-विविक्ते तकम् इति-रथनेमिं, किं कृतवत्यसावित्याह- 'बाहाहिं ति' बाहुभ्यां कृत्वा संगोपंपरस्परबाहुगुम्फनं स्तनोपरिमर्कटबन्धमिति यावत, वेपमाना शीलभङ्ग भयाकम्पमाना निषीदति-उपविशति, तदाश्लेषादिपरिहारार्थमिति भाव इति सूत्रचतुष्टयार्थः / / अत्रान्तरेअह सोऽवि रायपुत्तो, समुहविजयंगओ। भीयं पवेवियं दटुं, इमं वकमुदाहरे // 36|| रहनेमी अहं भहे, सुरूवेचारुभासिणी! ममं भयाहि सुअणु !, न ते पीला भविस्सई // 37|| एहि ता भुजिमो भोगे, माणुस्संखु सुदुल्लहं। भुत्तभोगा पुणो पच्छा, जिणमग्गं चरिस्सिमो॥३|| अथ च सोऽपीति-स पुनः राजपुत्रः--रथनेमिः भीतां प्रवेपितां च प्रक्रमाद्राजामतीम् 'उदाहरे त्ति' उदाहरत्- उक्तवान्, किं तदित्याह'रथनेमिरहमिति' अनेनात्मनिरूपवत्त्याद्यभिमानतः स्वप्रकाशनंतस्या अभिलाषोत्पादनार्थं विश्वासविशसनहेत्वन्यशङ्कानिरासार्थ वा स्वनामख्यापनं, ममं ति' मां भजस्व-सेवस्व सुतनु ! न ते तव पीडाबाधा भविष्यति, सुखहेतुत्वाद्विषय-सेवनस्येति भावः। यद्वा-तां ससम्भ्रमां दृष्टुिवमाह-"मम भयाहि त्ति' मा मा भैषीः सुतनु! यतो नते-तव पीडा भविष्यति, कस्य चिदिह पीडाहेतोरभावात्, पीडया शङ्कया च भयं स्यादित्येवमुक्तम्, एहि-आगच्छ-'ता' इति-तस्मात्तावता मानुष्यं "खुः' इति-निश्चितं सुदुर्लभम्, तदेतदवाप्ताविदमपि तावद्भोगलक्षणमस्य फलमुपभुज्महे इत्याशयः 1 भुक्तभोगाः पुनः-पश्चाद् इति वार्धक्ये जिनमार्गजिनोक्तमुक्तिपथं 'चरिस्सामो त्ति' चरिष्यामः, शेषं स्पष्टमिति सूत्रत्रयार्थः॥ ततो राजीमती किमचेष्टतेत्याहदठूण रहनेमिं तं, मग्गुजोयपराइयं / राईमई असंभंता, अप्पाणं संवरे तहिं // 36|| अहसा रायवरकन्ना, सुट्टिया नियमव्वए। जाई कुलं च सीलं च, रक्खमाणी तयं वदे // 40 // जहऽसि रूवेण वेसमणो, ललिएण नलकूबरो।