________________ मोहणिजहाण 462- अभिधानराजेन्द्रः - भाग 6 मोहणिज्जट्ठाण ण्णओ-पुनभद्दे चेइए, कोणिए राया, धारिणी देवी, सामी समोसळे,परिसा णिग्गया, धम्मो कहितो, परिसापडिगया, अजो त्तिसमणे भगवं महावीरे बहवे निग्गंथाय निग्गंथीओय आमंतेत्ता एवं वदासी-एवं खलु अजो! तीसं मोहणिज्जहाणाइं जाइं इत्थी वापुरिसो वा अभिक्खणं 2 आयारमाणे वा मोहणिजत्ताए कम्म पकरेति / तं जहाजे केइ तसे पाणे, वारिभज्जं विगाहिता। उदएणं कम्ममारेति, महामोहं पकुव्वति // 1 // व्याख्या प्राग्वत्-'तेण कालेणं' इति / तस्मिन् काले तस्मिन् समये तस्मिन् पूर्णभद्रे चैत्ये 'समणे भगवं महावीरे' त्ति श्रमणो भगवान् महावीरः अर्हन् सर्वदशीं सप्तहस्तप्रमाणशरीरोच्छ्रयः समचतुरस्रसंस्थानो वज्रर्षभनाराचसंहननः कजलप्रतिमकालिमोपेतस्निग्धाकुञ्चितप्रदक्षिणावर्त्तमूर्द्धजःउत्तप्ततपनीयाभिरामकेशान्तकेशभूमिरातपत्राकारोत्तमाऽङ्ग सन्निवेशः परिपूर्णशशाङ्कमण्डलादप्यधिकतरवदनशोभः पद्मोत्पलसुरभिगन्धनिःश्वासो वदनविभागप्रमाणकम्बूः शश चारुकन्धरः सिंहशार्दूलवत्परिपूर्णविपुलस्कन्धप्रदेशो महापुरकपाटवत्पृथुलवक्षस्थलाभोगो यथा-स्थितलक्षणोपेतश्रीवक्षः परिघोपमप्रलम्बबाहुयुगलो रविशशिच-क्रकोशादिप्रशस्तलक्षणोपेतपाणितलःसुजातपावो झषोदरः सूर्यकरस्पर्शसंजातविकोशपद्मोपमनाभिमण्डलः सिंहवत्संवर्तितकटीप्रदेशो निगूढजानुः कुरुविन्दवृत्तगुम्फयुगलः सुप्रतिष्ठितकूर्मचारुचरणः प्रशस्तलक्षणाङ्कितचरणनतप्रदेशोऽनाश्रवः निर्ममः छिन्नश्रोता निरुपलेपोपगतप्रमेरागोद्वेषः चतुस्विंदतिशयोपेतो गगनगतेन धर्मथकेण आकाशगतेन छत्रेण आ१काशगताभ्यां चामराभ्याम् आकाशगतेनातिस्वच्छस्फटिकविशेषमयेन सपादपीठेन सिंहासनेन पुरतो देवैः प्रकृष्यमाणेन 2 धर्मध्वजेन चतुर्दशभिः श्रमणसहस्रैः परिवृतो यथा स्वकल्पं सुखेन विहरन्, यथारूपमवग्रहं गृहीत्या संयमेन तपसा चात्मानं भावयन्, 'जाव' त्ति यावत्करणात् तीर्थकरसाधुवर्णकः सर्वोऽपि वाच्यः। 'समोसरणं' त्ति समवसरणवर्णनं भगवत औपपातिकग्रन्थादवसेयम् 'परिसागय' त्ति चम्पानगरीवास्तव्यो लोको भगवन्तमागतं श्रुत्वा भगद्वन्दनार्थं स्वस्मात्स्वस्मादाश्रयादाकृष्टः कृतकौतुकमङ्गलप्रायश्चित्तोऽल्पमहर्घाभरणालङ्कृतशरीरः स्वस्वपरिकरसमेतो हस्त्यादिवाह-नारूढो निजचरणविहारचारी च सन् निर्गतः, भगवता च धर्मकथा कथिता; श्रुत्वा च तां हृष्टचित्तो वन्दित्वा-भगवन् ! स्वाख्यातो भगवद्धर्म इत्युक्त्वा पर्षतस्वस्थानं प्रतिगता।तदा-'अज्जो' त्ति प्राग्वत् 'तीस' ति–त्रिंशत्संख्यानि 'मोहणिज्जट्ठाणाई' ति मोहनीयस्थानानि-मोहनीयं सामान्येनाष्टप्रकारं कर्म विशेषतश्चतुर्थी प्रकृतिः, तस्याः स्यानानि-निमित्तानि मोहनीयस्थानानि। यानि इति पूर्वतनतीर्थङ्करैः प्रतिपादितानियानि इमानि अनन्तरवक्ष्यमाणानि स्त्री वा पुरुषो वा अभीक्ष्णम् 2 आचरन् असकृच्छठाध्यवसायादितया वा समाचरन् असकृत्तीव्राध्यवसायपरिगतो वा मोहनीयतया इति-मोहनीयकर्मत्वेन कर्म प्रकरोति / तद्यथा-'जे के' इत्यादि श्लोकः / यः-कश्चन त्रसान् स्त्रीपुरुषगृहस्थपाखण्डिप्रभृतीन वारिमध्ये विगाह्य प्रविश्य परिव्राजकवत् १-पंडिगय इत्यपि पाठः। 'उदएणं ति उदयेन तथा हिंसादिप्रवर्तककर्मोदयेन उदकेन वाशस्त्रभूतेन मारयति / कथमित्याह-- आक्रम्य पादादिना, स इति गम्यते / मार्यमाणस्य महामोहोत्पादकत्वात् संक्लिष्टचित्तत्वात, भवशते दुःखवेदनीयमात्मना महामोहं प्रकरोति-जनयति / तदेवंभूतं त्रसमारणेनैकं मोहनीयस्थानमेवं सर्वत्रेति।। पाणिणा संपिहित्ताणं, सोयमावरिय पाणिणं / अंतो णदंतं मारेति, महामोहं पकुव्वइ / / 2 / / प्राणिना हस्तेन संपिधाय स्थगयित्वा, किं तत्? श्रोतो-रन्ध्रमुखमित्यर्थः, तथा-आवृत्य-अवरुध्य प्राणिनं, ततः अन्तर्नदन्तंगलमध्ये रवं कुर्वन्तं घुरघुरायमाणमित्यर्थः स इति गम्यते महामोहं प्रकरोतीति द्वितीयम् // 2 // जायतेयं समारब्भ, बहुं ओरुज्झिय जणं। अंतो धूमेण मारेति, महामोहं पकुव्वति // 3 // जाततेजसम्-वैश्वानरं समारभ्य-प्रज्वाल्य बहु-प्रभूतम्-अवरुध्य महामण्डपवाटादिषु प्रक्षिप्य जनं लोकमन्तर्मध्ये मण्डपादेवूमेनबहिलिङ्गेन, अथवा-अन्तधूमो यस्यासावन्तधूमः तेन जाततेजसा विभक्तिविपरिणामात् मारयतियः, असौ महामोहं प्रकरोतीति तृतीयम्।।३।। सीसम्मि जो पहण्णेइ, उत्तमंगम्मि चेयसा। विभन्न मत्थयं फाले, महामोहं पकुव्वति // 4 // शीर्षे -शिरसि यः प्रहन्ति खड्गमुद्गरादिना प्रहरति प्राणिनमिति गम्यते,किंभूते शिरसि स्वभावतः उत्तमाङ्गे सर्वावयवानां प्रधाना-वयवे तद्विधातेऽवश्यं मरणात्,चेतसा-संक्लिष्टन मनसा न यथा-कथंचिदित्यर्थः, तथा विभाव्य मस्तकं प्रकृष्टप्रहारदानेन स्फोट-यति ग्रीवादिकं कायमपीति गम्यते। स इत्यस्य गम्यमानत्वात्, समहामोहं प्रकरोतीति चतुर्थम्। सीसावेढेण जे केइ, आवेढेइ अभिक्खणं। तिव्वासुभसमायारे, महामोहं पकुव्वइ // 5 // शीर्षावेष्टेनामादिमयेन यः कश्चिद् वेष्टयति स्त्रीपुरुषादिः त्रसान् इति गम्यते। अभीक्ष्णं भृशं तीव्रोऽशुभसमाचारः स इत्यस्य गम्यमानत्वात्स मार्यमाणस्य महामोहोत्पादकत्वेन आत्मनो महामोहं प्रकुरुते इति पञ्चमम् // 5 // पुणो पुणो पणिहिए, नासे उवहसे जणं / फलेणं अदुव दंडेणं, महामोहं पकुव्वइ // 6 // पौनःपुन्येन प्रणिधिना-मायया यथा-वाणिजकादिवेषं विधाय गलाकर्तकाः पथि गच्छता सहगत्वा विजनं विश्रब्धं वा मारयन्ति, तथा चविनाशे उपहसेत् आनन्दातिरेकात् जनं मूर्खलोकं हन्यमानं, केन हत्वा फलेन योगविभावेन मातुलिङ्गादिना, अथवा- तथा दण्डेन-प्रसिद्धेन इति गम्यते / महामोहं प्रकरोतीति षष्ठम्।।६।। गूढायारी निगृहेजा, मायं मायाएँ छायए। असचवाई णिण्हाइ, महामोहं पकुय्वइ // 7 // गूढाचारी-प्रच्छन्नाचारवान् निगूहयेत्-गोपयेत्, स्वकीयं प्रच्छन्नं दुष्टमाचार, तथा मायां परकीयां, मायया स्वकीयया