________________ मोक्ख 446 - अभिधानराजेन्द्रः - भाग 6 मोक्ख - शमिकभाववृत्तिवय॑सामायिकचतुष्टयमपि / केवलस्य भावः कैवल्यं घातिकर्मवियोग इत्यर्थः, तस्मिन् कैवल्ये सति ज्ञानं कैवल्यज्ञानं केवलज्ञानमित्यर्थः,तल्लाभःपुनः कषायाणाम्-क्रोधादीनां सर्वथा क्षये सत्येव भवति, नान्यत्र नान्येन प्रकारेण। इह च यद्यपि धातिकर्मसु चतुर्वपि क्षीणेषु केवलज्ञानं भवति, न तु केवलेषु कषायेषु; तथापि प्राधान्यख्यापनार्थं तेषामेव ग्रहणम्, तत्क्षये शेषकर्मक्षयस्याऽवश्यंभावित्वात्। इति नियुक्तिगाथार्थः // 1180|| भाष्यम्सव्वं पि किमुय देसो, केवलवजाणि वावि सद्देणं। चत्तारिखओवसमे, सामइयाइंच पाएणं॥११९१॥ सव्वकसायावगमे केवलमिह नाणदंसणचरित्ते। देसक्खए वि सम्म, धुवं सिवं सव्वखइएसुं॥११८२॥ सर्वमपि श्रुतं क्षायोपशमिकभाववर्ति, किमुत तद्देशः, इत्यपिशब्दभावार्थः / अथवा-अपिशब्दात्-केवलज्ञानवानि चत्वारि ज्ञानानि, सामायिकानि च सम्यक्त्वश्रुतदेशसर्वविरमणरूपाणि चत्वारि, प्रायोग्रहणादक्षायिकौपशमिका नीति / इह 'नण्णत्थ खए कसायाणं' इति केवलज्ञानविषयसामान्योक्तावतिप्रसङ्गाद्, विशेषं दर्शयतिकेवलज्ञानम्, केवलदर्शनम्, केवलं परिपूर्ण क्षायिकंचारित्रं चेति। एतानि त्रीणि सर्वेषामेव कोधादिकषायाणामपगमे क्षये भवन्ति। क्षायिकं सम्यक्त्वं पुनस्तेषामनन्तानुबन्धिचतुष्टयरूपदेशक्षयेऽपि भवति। ततः सर्वेष्वपि ज्ञानदर्शनसम्यक्त्वचारित्रेषु क्षायिकेषु जातेषु सत्सुध्रुवं-निश्चितं शिवं-- मोक्षो भवति जीवस्येति ॥११८११११८२विशे० द०प० (मोक्षे नवसद्भावपदार्थज्ञानं मोक्षतत्त्वप्रतिपादकमिति 'तत्त' शब्दे चतुर्थभागे 2181 पृष्ठे गतम्) (धर्मस्य फलं मोक्षः इति 'अत्थ' शब्दे प्रथमभागे 507 पृष्ठे गतम्) (केवलज्ञानानन्तरं मोक्षः इति 'धम्म' शब्दे चतुर्थभागे २६८१पृष्ठे गतम्) (प्रातः स्नानादिषु मोक्षमिच्छतां मतम् 'उदग' शब्दे द्वितीयभागे 766 पृष्ट गतम्) | महेशानुग्रहान्मोक्ष इति पातञ्जलमतमवशिष्यते-- एतदेवाहअन्यतोऽनुग्रहोऽप्यत्र, तत्स्वाभाव्यनिबन्धनः। अतोऽन्यथा त्वदःसर्व,न मुख्यमुपपद्यते // 7 // "महेशानुग्रहाबोधनियमौ'' इति वचनाद् अन्यतो-महेशाद्, अनुग्रहः अपि-उपकारोऽपि शुद्धज्ञानक्रियालाभलक्षणः, किं पुनः पूर्वोक्ती संसारापवर्गावित्यपिशब्दार्थः / अत्र योगचिन्तायाम्, किम्? इत्याह-- तत्स्वाभाव्यनिबन्धनःस-महेशानुग्रहयोग्यः स्वभावो यस्य स तथा; तद्भावस्तत्स्वाभाव्यम्; तन्निबन्धनं-हेतुर्यस्य स तथा विपर्यये बाधामाह-अतः-तत्स्वाभाव्यात्, अन्यथा तु-अन्येन प्रकारेण, पुनः केवलमहेशानुग्रहादिरूपेण, अदः-संसारित्वादि, सर्व-कृत्स्नम्, न-नैव, मुख्यम्-अनुपचरितम्, उपपद्यते-घटते। यथा हि-कासादिः स्वभावत एवायोग्यो लाक्षारसादिना रज्यमानोऽपि न तात्त्विकं रागं प्रतिपद्यते, किंतु-रागाभासमेव, एवमात्मनां योग्यताविरहे महेशेन क्रियमाणावप्य- नुग्रहनिग्रहो न तात्विकौ स्यातामिति, तत्स्वाभाव्यमवश्यमभ्युपगतन्तव्यम् / तदभ्युपगमे च तत एव संसारमोक्षोपपत्त्या न किंचि-न्महेशानुग्रहादिना प्रयोजनमस्तीति सिद्धम् "आत्मा तदन्ययो-गात्संसारी" इत्यादि ।यो०वि०॥ अनुग्रहोऽप्यनुग्राह्य-योग्यतापेक्ष एव तु / नाणुः कदाचिदात्मा स्या-देवतानुग्रहादपि॥१२॥ अनुग्रहोऽपि महेशकृतः किं पुनः शेषक्रियाविशेष इत्यपिशब्दार्थः। अनुग्राह्यस्य-अनुग्रहविषयस्य,जन्तोर्योग्यतापेक्ष एव तु-योग्यतामेवापेक्ष्य नपुनरन्यथा। अमुमेवार्थं प्रतिवस्तूपमया भावयति-न-नैव, अणुः-पुद्गलविशेषः। कदाचित्-वापि काले, आत्मा-जीवः स्यात् / कुतोऽपीत्याह-देवतानुग्रहादपि-देवताया दिव्य-विशेषरूपाया, अनुग्रहः-प्रसादः, तस्मादपि किं पुनस्तदभाव इत्यपि शब्दार्थः। अमुमेवार्थं भावयतिकर्मणो योग्यतायां हि, कर्ता तद्रयपदेशभाक् / नान्यथाऽतिप्रसङ्गेन,लोकसिद्धमिदं ननु॥१३|| कर्मणः-क्रियाविषयस्य, सामान्येन मुद्रादेर्वस्तुनो योग्यतायाम्योग्यभावे, हि-यस्मात्कारणात्, कर्ता-पाचकादिः; तद्व्यपदेश-भाक्तं पाचकादिरूपं व्यपदेशं भजते यः स तथा। विपक्षे बाधा-माह-ननैव, अन्यथा अन्येन प्रकारेण कर्मणः पाकादियोग्यता-विरहे कर्ता तद्व्यपदेशभाक् / कथमित्याह-अतिप्रसङ्गेन-अति-व्याप्तिलक्षणेन लोकसिद्धं बालावालादिजनप्रतीतम् इदम् पूर्वोक्तं वस्तु ननु-निश्चितम्, नास्मिन्नर्थेऽन्यत्प्रमाणं गवेषणीयमिति भावः। पुनरप्यमुमेवार्थ पुरस्कृत्याऽऽहअन्यथा सर्वमेवैत-दौपचारिकमेव हि। प्राप्नोत्यशोभनं चैत-तत्त्वतस्तदभावतः||१४|| अन्यथा-स्वयोग्यतामन्तरेणापि, कर्मणो यदि कर्ता तद्व्यपदेशभागिष्यते; तदा सर्वमेवैतद्बाह्यम्, आभ्यन्तरंच, कार्यजातम्। किमित्याह-औपचारिकमेव-उपचारमात्रोद्भवमेव, हि-स्फुटम्, प्राप्नोतिप्रसज्यते, माणवकसिंहत्ववत्। यदि नामैवं, तथापि को दोष इत्याहअशोभनं च-अशोभनं पुनः एतत्-सर्वमेवौपचा--रिकतयाऽभ्युपगम्यमानम् / कुत इत्याह-तत्त्वतः-पारमार्थिक्या वृत्त्या, तदभावतःऔपचारिकवस्तुनोऽभावात् न [पचरिता भावा माणवकसिंहतादयः पारमार्थिक सिंहादिरूपं भजन्ते। एवं मोक्षादयोऽप्यात्मनः स्वयोग्यताया विरहे महेशानुग्रहादेः परैरभ्युपगम्यमाना न पारमार्थिकरूपभाजो भवेयुरिति। किंचउपचारोऽपि च प्रायो, लोके यन्मुख्यपूर्वकः। दृष्टस्ततोऽप्यदः सर्व-मित्थमेव व्यवस्थितम्॥१५॥ उपचारोऽपि च-उपचरितवस्तुव्यवहाररूपः किं पुनर्मुख्यपूर्वको व्यवहार इत्यपिचशब्दार्थः / प्रायोबाहुल्येन लोके - व्यवहाराहे जने यद्-यस्माद् मुख्यपूर्वकः-निरुपचरितव