________________ मंडलसंकमण 20 - अभिधानराजेन्द्रः - भाग 6 मंडलिअणुवजीवंत अनन्तरमुच्यमानो दोषः, तमेवाऽऽह-येन यावता कालेन अन्तरेण अपान्तरालेन मण्डलान्मण्डल संक्रामन् सूर्यः भेदघातेन संक्रामतीत्युच्यते, एतावतीमद्धां पुरतो द्वितीये मण्डले न गच्छति / किमुक्त भवति ? मण्डलान्मण्डलं संक्रामन् यावता कालनापान्तरालं गच्छति तावतकालानन्तरं परिभ्रमितुमिष्ट द्वितीयमण्डलसत्काहोरात्रमध्यात् त्रुट्यति, ततो द्वितीये मण्डले परिभ्रमन पर्यन्ते तावन्तं कालं न परिभ्रमेत्, तगताहोरात्रस्य परिपूर्णीभूतत्वात्, एवमपि को दोष इत्याह-पुरतो द्वितीयमण्डलपर्यन्ते अगच्छन् मण्डलकालं परिभवति, यावता कालेन मण्डल परिपूर्ण परिभभ्यते, तस्य हानिरुपजायते. तथा च सति सकलजगद्विदितप्रतिनियतदिवसरात्रिपरिमाणव्याघातप्रसङ्गः। (लेसि णमयं दोसे त्ति) तेषामयं दोषः (तत्थ इत्यादि) तत्र येते वादिन एवमाहुः-मण्डलान्मण्डलं संक्रामन् सूर्योऽधिकृतभण्डलं कर्णकलं निर्वेष्टयति मुद्धति तेषामयं विशेषो गुणस्तमेवाऽऽह-(जेणेत्यादि) येन यावता कालेनापान्तरालेन मण्डलान्मण्डल संक्रामन् सूर्यः कर्णकलमधिकृतं मण्डलं निर्वेष्टयति, एतावतीमद्धा पुरतोऽपि द्वितीयमण्डलपर्यन्तेऽपिगच्छति। इयमत्र भावना-अधिकृतं मण्डल किल कर्णकलं निष्टितमतोऽपान्तरालगमनकालोऽधिकृतमण्डलसत्क एवाऽहोरात्रेऽन्तर्भूतस्तथा च सति द्वितीये मण्डले संक्रान्तः सन्तगतकालस्य मनागप्यहीनत्वात् यावता कालेनाऽपान्तरालं गम्यते तावता कालेन पुरतो गच्छति, ततः किमित्याह-पुरतो गच्छन् मण्डलकालं न परिभवति, यावता कालेन प्रसिद्धेन तत् मण्डलं परिसमाप्यते तावता कालेन तन्मण्डलं परिपूर्ण समापयति, न पुनर्भनागपि भण्डलकालपरिहाणिस्ततो न कश्चित्सकलजगत्प्रसिद्धप्रतिनियतदिवसरात्रिपरिमाणच्याघातप्रसन्द :, एष तेषामेवंवादिनां विशेषो गुणः, तत इदमेव मतं समीचीन तरदित्यावेदयन्नाह-(तत्थेत्यादि) तत्रये ते वादिन एवमाहुः-मण्डलान्गण्डलं संक्रामन् सूर्योऽधिकृतं मण्डलं कर्णकलं निर्वेष्टयति, एतेन | नयेनाभिप्रायेणामस्मन्मतेऽपि मण्डलान्मण्डलान्तरसंक्रमणं ज्ञातव्यं, न चैवम् इतरेण नयेन, तत्र दोषस्योक्तत्वात् / च० प्र०२ पाहु०२ पाहु० पाहु० / सू०प्र०। मंडलसंठिय त्रि० (मण्डलसंस्थिति) मण्डलसंस्थाने, सू० प्र०। ता कहं ते मंडलसंठिती आहिता ति वदेजा! तत्थ खलु इमातो अट्टपडिवत्तीओ पण्णत्ताओ, तत्थेगे एवमाहंसु-ता सव्वा वि मंडलवता समचउरंससंठाणसंठिता पण्णत्ता, एगे एवमाहंसु१, एगे पुण एवमाहंसु-ता सव्वा वि णं मंडलवता विसमचउरंससंठाणसंठिता पण्णत्ता, एगे एवमाहंसु 2, एगे पुण एवमाहंसुसव्वा वि णं मंडलवया समचउक्कोणसंठिता पण्णत्ता, एगे एवमाहंसु 3, एगे पुण एवमाहंसु-सव्वाऽविमंडलवता विसमचउकोणसंठिया पण्णत्ता, एगे एवमाहंसु 4, एगे पुण एवमाहंसु-ता सव्वा वि मंडलवता समचक्कवालसंठिया पण्णत्ता, एगे एवमाहंसु 5, एगे पुण एवामाहंसुता सव्वा वि मंडलवता विसमचक्कवालसंठिया पण्णत्ता, एगे एवमाहंसु 6, एगे पुण एवमाहंसु-ता सव्वा विमंडलवता चक्कऽद्धबालसंठिया पण्णत्ता, एगे एवपाहंसु 7. एगे पुण एवमाहंसु-ता सव्वा वि मंडलवता छत्ताऽऽगारसंठिया पण्णत्ता, एगे एवमाहंसु 8, तत्थ जे ते एवमाहंसु ता सव्वा वि मंडलवता छत्ताकारसंठिता पण्णत्ता, एतेणं णएणं णायव्वं णो चेवणं इतरेहिं, पाहुडगाहाओ भाणियव्वाओ। (सूत्र-१६) (ता कह ते मंडलसंठिई इत्यादि) 'ता' इति पूर्ववत्, कथं भगवन ! 'ते' त्वया मण्डलसंस्थितिराख्याता इति भगवान् वदेत, एवं भगवता गौतमेन प्रश्ने कृते सत्येतद्विषयपरतीर्थिकप्रतिपत्तीनां मिथ्याभावोपदर्शनार्थ प्रथमतस्ता एवोपदर्शयति-(तत्थ खलु इत्यादि) तत्र तस्यां मण्डलसंस्थितौ विषये खल्विमा वक्ष्यमाणस्वरूपा अष्टौ प्रतिपत्तयः प्रज्ञप्ताः, तद्यथा-तत्र तेषामष्टाना परतीथिकानां मध्ये एके प्रथमे तीर्थान्तरीया एवमाहुः, 'ता' इति तेषामेव तीर्थान्तरीयाणामनेकवक्तव्यतोपक्रमे क्रमोपदर्शनार्थः (सव्वा विमंडलवय त्ति) मण्डल मण्डलपरिभ्रमणमेषामस्तीति मण्डलवन्ति चन्द्राऽऽदिविमानानि तद्भावो मण्डलबत्ता, तत्राऽभेदोपचारात्यानि चन्द्राऽऽदिविमानानितान्येव मण्डलवत्ता इत्युच्यन्ते, तथा चाऽऽह-सर्वा अपि समस्ता मण्डलवत्ता मण्डलपरिभ्रमणवन्ति चन्द्राऽऽदिविमानानि, समचतुरस्त्रसंस्थानसंस्थिताः प्रज्ञप्ताः / अत्रोपसंहारः-(एगे एवमाहंसु) एवं सर्वाण्युपसंहारवाक्यानि भावनीयानि।।१।। एके पुनर्द्वितीया एवमाहुः-सर्वा अपि मण्डलवत्ता विषमचतुरस्रसंस्थान - संस्थिताः प्रज्ञप्ताः / / 2 / / तृतीया एवमाहुः-सर्वा अपि मण्डलवत्ताः समचतुष्कोणसंस्थिताः प्रज्ञप्ताः // 3 / / चतुर्था आहुः-सर्वा अपि मण्डलवत्ता विषमचतुः कोणसंस्थिताः प्राप्ताः॥४॥ पञ्चमा आहुः-सर्वा अपि मण्डलवत्ताः समचक्रवालसंस्थिताः प्रज्ञप्ताः / / 5 / / षष्ठा आहुः-सर्वा अपि मण्डलवत्ता विषमचक्रवालसस्थिताः प्रज्ञप्ताः॥६॥ सप्तमा आहुःसर्या अपि मण्डलवत्ताश्चकार्द्धचक्रवालसंस्थिताः प्रज्ञाप्ताः // 7 // अष्टमाः पुनराहुः-सर्वा अपि मण्डलवत्ताश्छत्राऽऽकारसस्थिरताः प्रज्ञप्ताःउत्तानीकृतच्छवाऽऽकारसंस्थिताः।।८।। एवमष्टावपि परप्रतिपत्तीरुपदर्थ्य संप्रति स्वमतमुपदिदर्शयिषुराह-(तत्थ इत्यादि) तत्र तेषामष्टानां तीर्थान्तरीयाणां मध्ये ये एवमाहुः सर्वा अपि मण्डलवत्ताश्छत्राऽऽकारसंस्थिताः प्रज्ञप्ता इति, एतेन नयेन, नयो नाम प्रतिनियतैकवस्त्वंशविषयोऽभिप्रायविशेषो, यदाहुः समन्तभद्राऽऽदयो-'नयो ज्ञातुरभिप्रायः।' इति। तत एतेन नयेन-एतेनाभिप्रायविशेषेण सर्वमपि चन्द्राऽऽदिविमानज्ञानं ज्ञातव्यं, सर्वेषामप्युत्तानीकृतकपित्था संस्थानसंस्थितत्वान्न चैव नैव इतरैः शेषैर्नयैः तथावस्तुतत्त्वाभावात् (पाहुडगाहाओ भाणियव्वाओ त्ति) अत्रापि अधिकृतप्राभृतप्राभृतार्थप्रतिपादिकाः काश्चन गाथा वर्तन्ते, ततो यथासंप्रदाय भणितव्या इति। सू० प्र०१ पाहु०७ पाहु० पाहु०॥