________________ मुसावायवे० 328 - अमिधानराजेन्द्रः - भाग 6 मुसावायवे० अथ कीदृशम् तत्अह केरिसकं पुणाई सचंतु भासियट्वं? जंतं दय्वेहिं पज्जवेहि य गुणेहिं कम्मेहिं कम्मेहिं बहुविहेहिं सिप्पेहिं आगमेहि य नामक्खायनिवाओवसग्गतद्धियसमाससंधिपदहेउजोगियउणादिकिरियाविहाणधातुसरविमत्तिवन्नजुत्तं तिकल्लं दस-विहं पि सच जह भणियं तह य कम्मुणा होइ दुवालसविहा होइ भासा, वयणं पि य होइ सोलसवियं, एवं अरहंतमणुम्नायं समिक्खियं संजएण कालंमि य वत्तव्वं / (सूत्र-२४) 'जंबू' इत्यादि-तत्र जम्बूरिति शिष्यामन्त्रणम्, (बिइयं च त्ति) द्वितीय पुनः संवरद्वारम्, सत्यवचनम् सद्भयोमुनिभ्यो, गुणेभ्यः, पदार्थेभ्यो वा, हितं सत्यम्। आह च-"सच्चं हियं सयामिह, संतो मुणओ गुणा पयत्था वा" तच्च तद्वचनं सत्यवचनम्, एतदेवस्तुवन्नाह-शुद्धम्-निर्दोषम, अत एव शुचिक-पवित्रम्, शिवं-शिवहेतुः, सुजातं-शुभविवक्षोत्पन्नम्, अत एव-सुभाषितं-शोभ-नव्यक्तवाग्- रूपं, शुभाश्रितम्, सुखाश्रितं; सुधासितं वा,सुव्रतम्-शोभननियमरूपं, शोभनो नाम मध्यस्थःकथः(कथितं) प्रतिपादको (प्रतिपादयितव्यं) यस्य तत्सुकथितं, सुदृष्टम् अतीन्द्रियार्थदर्शिभिः, दृढमपवर्गादिहेतुतयोपलब्धं, सुप्रतिष्ठितंसमस्तप्रमाणैरुपपादितं, सुप्रतिष्ठि तयशः-अव्याहतख्यातिकं, (सुसंजमियवयणबुइयं ति) सुसंयमितवचनैः-सुनियन्त्रितवचनैरुक्तं यत्तत्तथा, सुरवराणांनरवृषभाणां (पवरबलवग त्ति) प्रवरबलवतां सुविहितजनस्य च बहुमत-सम्मतं यत्तत्तथा, परमसाधूनानैष्ठिकमुनीनाम्, धर्मचरणम्-धर्मानुष्ठानं यत्तत्तथा, तपोनियमाभ्यां परिगृहीतम्अङ्गीकृतं यत्तत्तथा, तपोनियमौ सत्यवादिन एव स्याता नापरस्येति भावः, सुगतिपथदेशकं च, लोकोत्तमं वृतमिदमिति व्यक्तम्। विद्याधरगगनगमनविद्यानां साधनं नासत्यवादिनस्ताः सिध्यन्तीति भावः / स्वर्गमार्गस्यसिद्धिपथस्य च, देशकं-प्रवर्त-कम् यत्तत्तथा, अवितथम्वितथरहितम्, (तं सचं उज्जुगं ति) सत्याभिधानं यद् द्वितीयं संवरद्वारमभिहितं, तदृजुकम, ऋजुभा-वप्रवर्तितत्वात्, तथा-अकुटिलम्अकुटिलस्वरूपत्वात, भूतः-सद्भूतोऽर्थः- अभिधेयो यस्य तद् भूतार्थम्, अर्थतः-प्रयोजनतो, विशुद्धं-निर्दोषं, प्रयोजनापन्नमिति भावः, उद्योतकर-प्रकाशकारि, कथम्?-यतः प्रभाषकंप्रतिपादक भवति, केषां कस्मिन्नित्याह-सर्वभावानां जीवलोके-जीवाधारे क्षेत्र, प्रभाषकमिति विशिनष्टि, अविसंवादि-अव्यभिचारि, यथार्थमिति कृत्वा, मधुरं-कोमलं यथार्थमधुरं, प्रत्यक्षं दैवतमिव देवतेव यत्तद्, आश्चर्यकारकं-चित्तविस्मयकरकार्यकारकं, तदीदृशं, केषु केषामिति? आह-- अवस्थान्तरेषु-अवस्थाविशेषेषु, बहुषु मनुष्याणां यदाह"सत्येनाग्निर्भवेच्छीतो, गाधं धत्तेऽम्बु सत्यतः। नासिश्छिनत्ति सत्येन, सत्याद्रजूयते फणी / / 1 // " एतदेवाह-सत्येन हेतुना महासमुद्रमध्ये तिष्ठन्ति न निमज्जन्ति, (मूढाणिया वित्ति) मूढं नियत दिग्गमनाप्रत्ययम् (अणियं ति) अग्रम् - तुण्डम्, अनीकं वा-तत्प्रवर्तकं जनसैन्यं येषां ते तथा, तेऽपि, पोताबोधिस्थाः, तथा सत्येन च उदकसम्भ्रमेऽपिसम्भ्रमकारणत्वादुदकप्लवः उदकसम्भ्रमस्तत्रापि (न बुज्झइ त्ति) वचनपरिणामानोह्यन्तेनप्लाव्यनते, न च म्रियन्ते, स्ताघं च-गाधं च ते लभन्ते, सत्येन चाग्निसम्भ्रमेऽपि-प्रदीपनकेऽपि; न दह्यन्ते, ऋजुका-आर्जवोपेतः, मनुष्या नराः सत्येनच तप्ततै-लत्रपुलोहसीसकानि प्रतीतानि (छिवंति त्ति) छुपन्ति धारयन्ति, हस्ताञ्जलिभिरिति गम्यते, न च दह्यन्ते मनुष्याः, पर्वतकटकात्-पर्वतैकदेशाद् विमुच्यन्तेन च मियन्ते, सत्येन च परिग्रहीता युक्ता इत्यर्थः, असिपञ्जरेशक्तिपञ्जरे गताः, खड्गशक्तिव्यग्रकररिपुपुरुषवेष्टिता इत्यर्थः, समरादपि-रणादपि, (निति त्ति) निर्यान्तिनिर्गच्छन्ति, अनघाश्च-अक्षतशरीरा इत्यर्थः, के इत्याह-सत्यवादिनः- सत्यप्रतिज्ञाः, वधबन्धाभियोगवैरघोरेभ्यः-ताडनसंयमनबलात्कारपोरशात्रवेभ्यः प्रमुच्यन्ते, अमित्रमध्यात् शत्रुमध्या--- नियन्ति, अनधाश्च निर्दोषाः सत्यवादिनः, सादेव्यानि घसांनिध्यानि च, देवताः कुर्वन्ति; सत्यवचनरतानाम्। आह च"प्रियं सत्यं वाक्यं हरति हृदयं कस्य न जने? गिरं सत्यां लोकः प्रतिपदमिमामर्थयति च / सुराः सत्याद्वाक्याद्ददति मुदिताः कामिकफलमतः सत्याद्वाक्याद् व्रतमभिमतं नास्ति भुवने // 1 // " (तमिति) यस्मादेवं तस्मात्सत्यं द्वितीयं महाव्रतं भगवद्-भट्टा-रकं, तीर्थकरसुभाषितम् जिनैः सुष्४क्तं दशविधं-दशप्रकारं; जनपदसम्मतसत्यादिभेदेन दशवैकालिकादिप्रसिद्ध, चतुर्दशपूर्विभिः प्राभृतार्थवेदितंपूर्वगतांशविशेषाभिधेयतया ज्ञातं महर्षीणांच, समयेनसिद्धान्तेन, (पइन्नं ति) प्रदत्तं समयप्रतिज्ञा वा-समाचाराभ्युपगमः। पाठान्तरे-(महरिसिसमयपइन्नचिन्नं ति) महर्षिभिः, समयप्रतिज्ञासिद्धान्ताभ्युपगमः, समाचारभ्युपगमो वेति चरितं यत्तत्तथा, देवेन्द्रनरेन्द्रर्भाषितःजनानामुकोऽर्थः-पुरुषार्थस्तत्साध्यो धर्मादिर्यस्य तत्तथा / अथवादेवेन्द्रनरेन्द्राणां भासितः-प्रतिभासितोऽर्थः-प्रयोजनं यस्य तत्तथा। अथवा-देवेन्द्रादीनां भाषिताः, अर्थाजीवादयो जिनवचनरूपेण येन तत्तथा, तथा वैमानिकानां साधितं प्रतिपादितमुपादेयतया जिना-- दिभिर्यत्तत्तथा, वैमानिकैर्वा साधितंकृतमासेवितं, समर्थितं वा यत्तत्तथा, महार्थं ---महाप्रयोजनम्, एतदेवाह-मन्त्रौषधिविद्यानां साधनमर्थःप्रयोजनं यस्य तद्विना तस्याभावात्तत्तथा, तथा चारणगणानां-विद्याचारणादिवृन्दानां, श्रमणानां च सिद्धाः विद्या आकाशगमनवैक्रियकरणादिप्रयोजनायस्मात्तत्तथा, मनुजगणानांचवन्दनीयंस्तुत्यम्, अमर-गणानां चार्चनीयं-पूज्यम्,असुरगणानां च पूजनीयम्, अनेकपाखण्डि-परिगृहीतं नानाविधव्रतिभिरङ्गीकृतं यत्तत्, लोके सारभूतं, गम्भीरतरंमहासमुद्रादतिशयेनाक्षोभ्यत्वात् 'स्थिरतरकमेरुपर्वतात् अचलितत्वेन, सौम्यतरं चन्द्रमण्डलात्, अतिशयेन सन्तापोपशमहेतुत्वात्, दीप्ततरं सूरमण्डलात्, यथावद्वस्तुप्रकाशनात्; तेजस्विनांचात्यन्तानभिभवनीयत्वात्, विमलतरं शरन्नभस्तलादतिनिर्दोषत्वात्, सुरभितरमिव सुरभितरं, गन्धमाद