________________ मंगल 6 - अभिधानराजेन्द्रः - भाग 6 मंगल नन्दिर्वक्ष्यमाणोऽवगन्तव्यः। गाथायां स्त्रीत्वं प्राकृतत्वात्। वृ०१ उ०१ प्रक० ! आ०म०। ओघ०। आ० चू०। दशा०। प्रज्ञा० / विघ्नविनायकोपशान्तये शिष्याणां मङ्गलबुद्धिपरिग्रहाय स्वतो मङ्गलभूतस्याप्यस्याऽऽदिमध्यावसानेषु मङ्गलमभिधातव्यम्, आदिमङ्गलं ह्यविध्नेन शास्त्रपारगमनार्थम्, मध्यमङ्गलम्-अवगृहीतशास्त्रस्थिरीकरणार्थम्- | अन्तमङ्गलम्-शिष्यप्रशिष्यपरम्परया शास्त्रस्याऽव्यवच्छेदनार्थम्। उक्तञ्च (भाष्यकारैः)"तं मंगलमाईए, मज्झे पज्जतए य सत्थस्स। पढमं सत्थत्थावि-ग्घपारगमणाय निद्दिढ़।।१।। (13) तस्सेव य थेज्जत्थं, मज्झिमयं अंतिम पि तस्सेव। अव्वोच्छित्तिनिमित्तं, सिस्सपसिस्साइवंसस्स।।२।। (14)" प्रज्ञा०१ पदा तत्र परः प्रश्नयति-किमर्थं मङ्गलग्रहणमित्याह - विग्धोवसमो सद्धा, आयर उवयोग निराऽधिगमो। भत्तीपभावणा विय, निवनिहिविजाइ आहरणा॥२०॥ मङ्गले प्रकृते सति रोगाऽऽदिविघ्नोपशमो भवति, तदुपशमे च प्रतिबन्धकाभावात्महता प्रतिबन्धेनाऽऽचार्येणानुयोगः प्रारभ्यते, तथाऽनुयोगप्रारम्भे च शिष्यस्य शास्त्रग्रहणे महती श्रद्धा उपजायते, श्रद्धावतश्च शास्त्रावधारणे महानादरः, कृताऽऽदरस्य शास्त्रविषयेऽनवरतमुपयोगो, यदा यदा चोपयोगस्तदा सम्यग्ज्ञानत्वात् महती ज्ञानाऽऽवरणीयस्य कर्मणो निर्जरा, ज्ञानाऽऽवरणकर्मनिर्जरणाच स्फुटः स्फुटतरः शास्त्रस्याऽधिगमः, अधिगतशास्त्रस्य च गुरौ शास्त्रे प्रवचने च निष्कृत्तिमा भक्तिरुल्लसति, ततः प्रभावना तां दृष्ट्वाऽन्येषामपि तथा श्रद्धाऽऽदीनां करणात्, यदि पुनर्न क्रियते मङ्गलं तत एषां विघ्नोपशमाऽऽदिभावानाम् अप्रसिद्धिः अत्रोदाहरणानि दृष्टान्ता नृपनिधिविद्याऽऽदयः। आदिशब्दाद्योगो, मन्त्राश्च परिगृह्यन्ते। तत्रेयं नृपदृष्टान्तस्य भावना-यथा कोऽपि पुरुषः कार्यार्थी राजानमधिगन्तुकामो मङ्गलभूतानि पुष्पाऽऽदीन्यादाय तत्समीपमुपगच्छति। उक्तंच-"पुप्फपुडियाएँ जंपइ. गोरसघडओ करेइ कजाई। मणिबंधम्मि पर्वलिते, सानुऽग्गह होति सव्वगहा।।१।।" उपेत्य चाञ्जलिं करोति, पादयोश्च प्रणिपतति, ततो राजा तुष्यति, तुष्टे च तस्मिन् यस्तदधीनोऽर्थः स सिद्ध्यति। अथैवमुपचारं न करोति, तदान तुष्यति, तोषाभावे च तदधीनस्याऽप्रसिद्धिः, एवं निधिमुत्खनितुकामो विद्यां मन्त्रं वा साधयितुकामो यदि द्रध्यक्षेत्रकालभावयुक्तमुपचारं करोति, तद्यथा-द्रव्यतः-पुष्पाऽऽदिषु, क्षेत्रतः-श्मशानाऽऽदिषु, कालतःकृष्णपक्षचतुर्दश्या दिषु, भावतः-प्रतिलोमानुलोमोपसर्गसहिते, तदा निधिं विद्यां मन्त्र वा साधयति / द्रव्याऽऽधुपचाराभावे ते निध्यादयो न सिध्यन्ति, यस्माद्यो, यस्माद्यो यत्रोपचारः स तत्र कर्तव्यः। एतदेवाऽऽहजो जेण विणा अत्थो, न सिज्झई तस्स तविहं करणं / विवरीय अभावेण य, न सिज्झई सिज्मई इहरा // 21 // योऽर्थो येन विनान सिद्ध्यतितस्य निष्पत्तयेतद्विधं करणमवश्यमुपा- | दातव्यम्। यथा घट साधयितुकामेन चक्रदण्डमृत्पिण्डाऽऽदिकम् / यतो विपरीतैः करणैः, सर्वथा करणानामभावेन च, साऽधिकृतोऽर्थो न सिद्ध्यति यथा घटं साधयितुकामस्य, विपरीतं तुरीवेमाऽऽधुपकरणोपादाने, सर्वथा चक्रदण्डसूत्रोदकाऽऽदीनामुपकरणानामभावे या घटः इतरथा-अविपरीतोपकरणसद्भावे सिध्यति, यथाघट साधयितुकामस्य यथावस्थितानां चक्रदण्डसूत्रोदकाऽऽदीनामुपादाने घट,न सिध्यन्ति च मङ्गलमन्तरेण विघ्नोपशमाऽऽदयो भावा इति मङ्गलोपादानम् / पुनर-- प्याह-यदिशास्त्रस्याऽऽदिमध्यावसानेषु मङ्गलं ततः सामर्थ्यादिदमायातभपान्तरालद्वयाऽमङ्गलमिति। अत्राऽऽह - जइविय तिहाणकयं, तह विहु दोसो न वाहए इयरो। तिसमुन्भवदिटुंता, सेसं पिहु मंगलं होइ॥२२॥ यद्यपि त्रिषु स्थानेष्वादिमध्यावसानरूपेषु कृतं मङ्गलं तथाऽपि इतरोऽपान्तरालद्वयो मङ्गलत्व (त्व) लक्षणो दोषो न वाधते, तस्यैवाभावात्। कथमभाव इति चेदत आह-(तिसमुडभवेत्यादि) त्रिभ्यो गुडसमितिघृतेभ्यः समुद्भवो यस्य स मोदकः, तदृष्टान्तात्, शेषमपि (हु) निश्चितं मङ्गलं भवति। इयमत्र भावना-मोदक इव सकलं शास्त्रं द्विधा विभज्यते, तत्राऽऽदिमो भाग आदिमङ्गलेन मङ्गलीकृतो, मध्यमो मध्यमङ्गलेनान्तिमोऽन्तिममङ्गलेन्, ततः कुतोऽपान्तरालद्वयाऽमङ्गलत्वप्रसङ्गः। स्यादेतत्, यदिदं शास्त्रमारब्धमेतदादिमध्यावसानेषु सर्वाऽsत्मना मङ्गलं, ततो यद्यन्यत्तस्य मङ्गलमुपादीयते तदाऽनवस्थाप्रसङ्गः। कृतेऽपि मङ्गले पुनरन्यतममङ्गलमुपादेयं, विशेषाभावात्तत्राप्यन्यदित्येवं मङ्गलाऽऽनन्त्यप्रसक्तेः / अथ नन्दी मङ्गलं शास्त्रं पुनरमङ्गलं केवलं तन्नन्द्या मङ्गलीक्रियते, नन्वेवं तर्हि यदा नन्दीव्याख्यानमकृत्वा शास्त्रं व्याख्यातुमारभ्यते तदा शास्त्रम् अमङ्गलत्वाच न ज्ञानं, ज्ञानाभावाच्च न कर्तव्यस्तस्यामुपयोग इति। अत्राऽऽहन वि य हु होयऽभवत्था, न वि य हु मंगलममंगलं होइ। अप्पपराभिय्वतिया, लोणुण्हपदीवमादिच्य |23|| नापि च (हु) निश्चितं भवत्यनवस्था, यतो नन्दीशास्त्रादनान्तरभूता, शास्त्रं च स्वतः समस्तमङ्गलं, न च तस्य मङ्गकृतस्य सतोऽन्यत् मङ्गलमुपादीयते, ततो नानवस्था प्रसङ्गः। यदाऽपिनन्द्या व्याख्यानमकृत्वा शास्त्रमारभ्यते, तदाऽपि तच्छास्त्रं मङ्गलमिति तदमङ्गलं न भवति / एवं तावन्नन्द्या अनर्थान्तरतायाममङ्गलत्वमनवस्था च परिहता। सम्प्रत्यर्थान्तरत्वमधिकृत्य परिहियते-यद्यपि शास्त्रादर्थान्तरभूता नन्दी तथाऽप्यमङ्गलत्वमनवस्था चन भवति। कथमित्याह-(अप्पपरेत्यादि) नन्द्या आत्मनाऽपि मङ्गलशास्त्रमपि च मङ्गलीकरोति / शास्त्रमप्यात्मनाऽपि मङ्गलं नन्दीमपि च मङ्गलीकरोति / एवमात्मपराभिव्यक्तिता द्वयोरपि मङ्गलयोरेकीभूतयोः सुष्ठुतरो मङ्गलभावो भवति। कथमिवेत्यत आह-"लोणुण्हपदीवमादिव्व।" यथा द्वयोर्लवणयोरेकीभूतयोः सुष्ठुतरो लवणभावो, द्वयोर्वा उष्णयोरेकत्रमिलितयोः सुष्ठुतरभावो, यथा च द्वयोः प्रदीपयोः समीचीनतरः प्रकाशभावः, आदिशब्दात्