________________ मालोहड 256 - अभिधानराजेन्द्रः - भाग 6 मालोहड म्। तदेवमुक्तो जघन्यस्य मालापहतस्य सदोषो दृष्टान्तोऽन्येऽपि च दोषाः। संप्रत्युत्कृष्टस्य तानाहएमेव य उक्कोसे, वारण-निस्सेणि गुठ्विणीपडणं / गभित्थिकुच्छिफोडण, पुरओ मरणं कहणवोही // 362 // जयन्ती नाम पुरी, तत्र सुरदत्तो नाम गृहपतिः, तस्य भार्या वसुन्धरा, अन्यदा च तदगृहे गुणचन्द्राऽभिधः साधुर्भिधार्थ प्राविशत्, तं च प्रशान्तमनसमिहपरलोकनिः-स्पुहं मूर्त धर्ममिव समागच्छन्तमवेक्ष्य सुरदत्तो वसुन्धरामभिहितवान- यथा देहि साधवे मालादानीध मोदकानिति, ता च तदानीमन्तर्वत्नी, परं पत्युरादेश देवताऽऽदेशमिव प्रतीच्छन्ती | मोदकानयनाय मालाभिमुखां निःश्रेणिमारोदूमय तिष्ट, साधुश्च न कल्पते मालापहता भिज्ञा संयतानामिति ता विनियार्य तद्गृहानिःससार, जतस्तत्क्षण एव कोऽपि कापिलो भिक्षार्थ तस्मिन्नेव गृहे प्राविशत्, सुरदत्तेन च स पृष्टी-यथा-भोः किं सं यतेन मालादानीयमाना भिक्षा न प्रतिजगृहे ? ततः स मात्सर्यवशादसंबद्धं किमप्यभाषिष्ट ततस्तस्मायपि सुरदत्तो वसुन्धरया मोदकान् दापितवान् वसुन्धरा च मोदकानयनार्थ निःश्रेणिमारोहन्ती कथमपि पादहसनतो विसंस्थुलाड़ी न्यपतत्, अधश्च व्रीहिदलनयन्त्रकमासीत, ततस्तत्कीलकस्तस्या निपतन्त्याः कुक्षि द्विधा पाटयामास, निर्गतश्च परिस्फुरस्ततो गर्भः, कीलकविदारिततया महापीडातिशयभावतः पश्यतामेव सकललोकानां सदुःखं स्पन्दमानः पञ्चत्वमगमत्, तथा बसुन्धरा च। तत उच्छलितः पापीयसः कापिलस्थावर्णवादः। अन्यदा च भूयोऽपि तस्मिन्नेव गृहे स एव साधुभिक्षार्थमाजगाम / सुरदत्तश्च तमप्राक्षीत्- भगवन् ! यथा यूयं ज्ञानचक्षुषा दाच्या विनाशमवेक्षमाणा भिक्षां परिहतवन्तः तथाऽस्माकमपि किं नाचीकथत ? येन तदानीं सा मालं नारोहयेत्। ततः साधुरवोचत्-नाह किमपि जाने, केवलमयमस्माकं सार्वज्ञ उपदेशः-यथा न कल्पते साधूनां मालापहता भिक्षेति, ततः सपूर्ववदचिन्तयद्धर्ममश्रीषीत्, प्रवज्या गग्रहीदिति। सूत्रं सुगमम्।न वरम्, एवमेव जघन्यमालापहृते इवोत्कृष्टेऽपि मालापहृते पडतउभयवहो' इत्यादयो दोषा वक्तव्याः / तत्र दाया बधे उदाहरणम् 'वारणनिस्सेणि' इत्यादि। संप्रति मालापहृतमेव भङ्गयन्तरेणाऽऽहउड्डमहे तिरियं पि य, अहवा मालोहडं भवे तिविहं। उऐ य महोयरणं, भणियं कुंमाइसू उभयं / / 363 / / अथवा-मालापहृतं त्रिविधम्, तद्यथा-ऊर्ध्वम्, अधः तिर्यक्च / तत्र उर्वमतदनन्तरोक्तमूर्ध्वविलगितसिक्ककादि गतम्, अधो भूमिगृहादादततरणम्- प्रवेशः, तत्राधोऽवतरणेन यद्दीयते तदप्युपचारादधोऽवतरणम्, तथा-कुम्भादिषु कुम्भोष्ट्रिकाप्रभृतिषु यदर्तते देयं तदुभयम्ऊयधिोमालापहतस्वभावं भणितं तीर्थकरादिभिः। तथाहि-बृहत्तरोचैस्तरकुम्भादिमध्यव्यवस्थितस्य देयस्य ग्रहणामय येन दात्री पाष्र्युत्पाटनादि करोति तेनोर्ध्वमालापहृतम्, येन त्वधो मुखं बाहुमतिप्रभूत व्यापारयति तेनाधो मालापहृतम्, दोषा अत्रापि पूर्ववद्भावनीयाः।। अत्रैवापवादमाहदद्दर सिल सोवाणे, पुव्वाऽऽरूढे अणुचमुक्खित्ते। मालोहडं न होई, सेसं मालोहडं होई॥३६४।। दर्दरः निरन्तरकाष्ठफलकमयो निश्श्रेणिविशेषः, शिला प्रतीता, सोपानानि-इष्टकामयान्वतरणानि, एतान्यारुहा यद्ददातितन्मालापहृतं न भवति / केवल साधुरप्येवणाशुद्धिनिमित्तं प्रासादस्योपरि दर्दरादिना चटति, अपवादेन भूस्थोऽप्यानीतं गृह्णाति / तथा पूर्वारूढः साध्वागमनादग्रतः स्वयोगेन निःश्रेण्यादिना प्रासादोपरि चटितो दाता यद्ददाति साधुपात्रके, कथंभूते ? इत्याह-अनुच्चोत्क्षिप्ते, किमुक्तं भवति? भूमिस्थः संयतो दृष्टरधः पात्रं धारयन यावत्प्रमाणे उच्चैःस्थाने स्थितो पात्रे हस्तं प्रक्षिप्य ददाति तावत्प्रमाणे पूर्वोरूढो यद्ददाति तन्मालापहृतं न भवति। शेषं तु सर्वमप्यनन्तरोक्त मालापहृतमवसेयम्। इहानुनोतिक्षप्तोचोरिक्षप्तयोः स्वरूपमाहतिरियायय-उज्जुगएण, गिण्हई जं करेण पासंतो। एयमणुचुक्खित्तं, उचुक्खित्तं भवे सेसं // 365 / / तिर्यगायतेन-दीर्पण, ऋजुकेन-सरलेन, करण-हस्तेन पात्रं दृष्ट्या निभालयन् यद् गृह्णाति तदित्थंभूतं पात्रमनुच्चोरिक्षप्तमुच्यते, शेष पुनरुचोत्क्षिप्तम, इयमत्र भावनायद् दृष्टरुपरि बाहुं प्रसार्य देयवस्तुग्रहणाय पात्रं ध्रियते तत्तथा ध्रियमाणमुच्चोत्क्षिप्तमिति, एतेन चोवधिोमालापहतव्याख्यानेन तिर्यगपि मालापहृतं व्याख्यातं द्रष्टव्यम्, तत्राप्ययं कल्प्याकल्पविधिः-यत्पादस्याधो मञ्चिकादि दत्त्वा गवाक्षादौ स्थितं दानाय बाहुं प्रसार्य महता कष्टन समाकर्षति तन्न कल्पते। यच्च भूमौ स्वभावस्था गवाक्षादौ स्थितमयत्नेन किशिद्वाहुं प्रसार्य साधोर्दानाय गृह्णाति तन्मालापहृत न भवति, अतस्तत्कल्पते। पिं०। निस्सेणिं फलगं पीढं, उस्सवित्ता समारहे। मंचं कीलं च पासायं, समणऽट्ठाए व दावए।।६७|| निःश्रेणिम्, फलकम् - पीठम्, (उस्सवित्ता) उत्सृत्य-ऊर्ध्व कृत्वा इत्यर्थः, आरोहेन्मञ्चम्, कीलकं च उत्सृत्य, कमारोहेदित्याह-प्रासादम्, श्रमणार्थम्- साधुनिमित्तम्, दायकोदाता आरोहेत्, एतदप्यग्राह्यम्। इति सूत्रार्थः॥ अत्रैव दोषमाह - दुरूहमाणी पवडिज, हत्थं पायं व लूसए। पुढवीजीवे विहिंसिज्जा,जे अतन्निस्सिया जगे // 6 // (दुरूहमाणि त्ति) आरोहन्ती प्रपतेत्, प्रपतन्ती चहस्तं पादं वा लूपयेत्, स्वकं स्वत एव खण्डयेत, तथा-पृथ्वी-जीवान् विहिस्यात्, कथंचित्तत्रस्थान, तथायानि च तन्निःश्रितानि (जगन्ति) प्राणिनस्तोंश्च हिंस्याद। इति सूत्रार्थः।। एआरिसे महादोसे, जाणिऊण महेसिणो। तम्हा मालोहडं भिक्खं, न पडिगिण्हंति संजया / / 6 / / (एआरिसे ति) ईदृशान् अनन्तरोदितरूपान् - महादोषान् ज्ञात्वा, महर्षयः साधवः / यस्माद्दोषकारिणीयं तस्मात्