________________ मालोहड 258 - अभिधानराजेन्द्रः - भाग 6 मालोहड रपहृत-साध्वर्थमानीतम् मालापहृतम् / प्रव०६७ द्वार / उचस्थानादुत्तार्याऽऽनीयाऽऽहारादि ददत उद्गमनदोषे, उत्त०२४ अ०। आचा० / पिं० / मालाऽपहतद्वारमाहमालोहडं पि दुविहं, जहन्नमुक्कोसगं च बोद्धव्वं / अग्गतलेहिं जहन्नं, तव्विवरीयं तु उक्कोसं // 357 / / मालाऽपहलं द्विविधं, तद्यथा-जघन्यम्, उत्कृष्ट च। तत्र यद्न्यस्ताभ्यां पादयोरग्रभागाभ्यां फलकसंज्ञाभ्यां पाणिभ्यां चोत्पाटिताभ्यामूर्ध्वविगलितोचसिक्ककादिस्थित दात्र्या दृष्टरगोचर यद्दीयते तज्जघन्यं मालापहृतम्। तद्विपरीतं-जघन्यविपरीतं बृहन्निः श्रेण्यादिकमारुह्य प्रासादोपरितलादानीय दीयते तदुत्कृष्टं मालापहृतम्। संप्रत्यनयोरेव दृष्टान्तौ सदोषौ वक्तुकाम आहभिक्खू जहन्नगम्मी, गेरुय उकोसयम्मि दिद्वंतो। अहिडसणमालपडणे, य एवमाई भवे दोसा!|३५८|| जघन्ये मालापहृते भिक्षुर्वन्दको दृष्टान्तः, उत्कृष्ट गैरुकः कापिलः, तत्र / जघन्ये मालापहृते अहिदशनम्- सर्यदशनम्, उत्कृष्ट मालात्पतनमित्येवमादयो दोषा अभूवन्। तत्र भिक्षुदृष्टान्तं गाथाद्वयेनाऽऽह - मालाऽभिमुहं दद्दूण, आगारिं निग्गओ तओ साहू। तच(व्व)न्निय आगमणं, पुच्छा य आदिण्णदाणं ति // 356 / / मालम्मि कुडे मोयग, सुगंधअहिपविस करे डक्का। अन्नदिणसाहुआगम, निद्दयकहणा य संबोही॥३६०।। जयन्तपुरं नाम नगरम्, यत्र यक्षदिन्नो नाम गृहपतिः, तस्य भार्या वसुमती, अन्यदा च तद्गृहे धर्मरुचिर्नाम संयतो भिक्षार्थ, प्रविवेश, तं च नियमितेन्द्रियमरक्तद्विष्टमेषणासमितमवलोक्य समुत्पन्नविशिष्टदनपरिणामेन यक्षदिन्नेन वसुमती सादरं बभणे, यथा-देहि साधवेऽस्मै अमुकान मोदकानिति, ते च मोदका ऊर्ध्व विलगितोचसिक्ककमध्ये व्यवस्थिते घटेऽवतिष्ठन्ते, ततः सा तद्ग्रहणार्थमुत्थिता, साधुश्च तां मालापहृतां भिक्षामवबुध्यमानस्तद्गृहान्निर्जगाम। ततस्तत्कालं तस्मिवेव गृहे भिक्षायै भिक्षुरागमत् / पप्रच्छ च तं यक्षदिन्नो यथा कि भोः(सम)तेन सिक्ककादानीय दीयमाना भिक्षा न जगृहे ? ततः स प्रवचनमात्सर्यादेवमुवाच अदत्तदाना अमी खलु वराकास्ततो नलभन्ते पूर्वकर्मविनियोगतो पुष्मादृशामीश्वराणां गृहेषु स्निग्धमधुरादिकं भोजनं भोतुम्, किंतु-तैर्दुर्गतगृहेष्वन्तप्रान्तादिकं लब्ध्वा भोक्तव्यमिति, ततो यक्षदिन्नेन तस्मायपितानेव मोदकान वसुमती दापिता, सातस्मिन्नेव सिक्ककविलगिते घटे मोदकानादातुमचालीत, घटे च महोत्तमद्रव्यनिष्पन्नमोदकगन्धाघाणवशतः कथमपि भुजङ्गमः समागतोऽवतिष्ठते, वसुमती चोत्पाटा पाणिपादाग्रतलभरेण यावन्मोदकघटे कङ्केल्लिपल्लवोपमं कर प्रक्षिपति तावद भुजङ्गमः कामुक इव सादर तं प्रत्यगृहात, ततो हा ! दष्टा दष्ट्रति पूत्कारं कुर्वती भूमौ निपपात, ददृशं च यक्षदिन्नेन फूत्कार कुर्वन् दन्दशूकः, ततस्तत्क्षणादेव समाहूताः परममन्त्रवादिनः, समानीतानि च नानाविधानि भेषजानि, ततोऽद्याप्यायुरत्रुटितमिति मन्त्रौषधप्रभावतः सा नीरुग् बभूव, समाजगाम च भूयोऽप्यपरस्मिन् दिने स एव धर्मरुचिः संयतो भिक्षायै, (धर्मरुचेर्विशेषतो वृत्तम् 'धम्मरइ' शब्द चतुर्थभागे 2730 पृष्ठे गतम्) उपालेभे च यक्षदिन्नेन। यथा-दयाप्रधानो धर्मः तत् किं भोः साधो ! सुविहित! तव तदानीं सप्र्प पश्यतोऽप्युपेक्षा प्रावर्तिष्ट ? स प्राह-नाहमद्राक्षं तदानीं दन्दशूकम्, केवल मयमस्माक सार्वज्ञ उपदेशो, यथा-मर ग्राहिषुः साधवो ! मालादपहृतां भिक्षामिति, ततोऽह प्रतिनिवृत्तः, एवं चोक्ते यक्षदिन्नः स्वचेतसि चिन्तयामास-अहो निरपायो भगवया विरुपादेशि भूर्णां धर्मः, य एव चेत्थं निरपाय धर्ममुपदिशति स्म स एव सर्वज्ञो न खलु सुधाभ्यवहारमन्तरेण सुधोद्वार उज्जृम्भते, एवं न यावत् ज्ञेयव्यापिज्ञानमन्तरेणेत्थं सकलकालमनपायिनो धर्मस्योपदेशप्रवृत्तिः, बुद्धिप्रागल्भ्यते हि वचसि प्रागल्भ्यमुपालम्भि, तस्मात् स एव सर्वज्ञ इति, इत्थं च विचिन्त्य भक्तिवशोच्छलितपुलकजालोपशोज्ञिततनुः सादरं धर्मरुचिअमणमवन्दत, वन्दित्वा च जिनप्रणीतं धर्म पप्रच्छ, स च कथयामास संक्षेपतः, ततो जिनप्रणीतवाक्यामृतरसास्वादतः तेषामवजगाम सकलमपि 'मायासूनवीयादि' संपादितकुवासनामय गरलम, पश्यति च यथाऽवस्थितानि हेयोपादेयानि वस्तूनि, प्रमोदते च जात्यन्ध इव चक्षुलभि स विशेषतरम्, ततो मध्याह्न विशेषतो गुरुसमीपे समागत्य धर्म श्रुत्वा जातसंवेगौ दम्पती अपि प्रव्रज्यां प्रपेदाते। सूत्रं सुगमम्। संप्रत्यस्मिन्नेव जघन्ये मालापहृतेऽन्यानपि दोषानभिधित्सुराहआसंदिपीढमंचक-जंतोडूखलपडंत उभयवहे। वोच्छेयपओसाई, उड्डाहमनाणिवाओ य॥३६१।। आसन्दी-मचिका, पीठम्-गोमयादिमयमासनम, मञ्चकः-प्रतीतः, यन्त्रम्-बीहादिदलनोपकरणम्, उदूखलः प्रतीतः, एतेष्वारुह्य, उपलक्षणमेतत्, पाणी चोत्पाट्य ऊर्ध्वविगलितसिक्ककादिस्थितमोदकादिग्रहणे कथमपि यदि मञ्चकादिहसनतो दात्री निपतति तर्हि उभयवधः, दात्र्या पृथिव्यादिकायादीनांमपि, विनाशः / यथैतस्मै भिक्षामहं ददती प्रागपि महत्यनर्थे पतितेति न कोऽप्यस्मै दास्यतीति तदगृहे तद्रव्यान्यद्रव्यव्यवच्छेदः, तथा मुण्डेनानेन परमार्थतः पातितेति कस्यापि गृहस्वामिनः साधुविषयः प्रद्वेषोऽपि भवति। आदिशब्दात्ताडनादिपरिग्रहः / प्रद्वेषदग्धोऽहि कोऽपि कोपान्धतया ताडनमपि कुर्यात्। कोऽपि निर्भर्त्सनम्, कोऽपि वधमपि, तथा च-प्रवचनस्योड्डाहः खिंसा यथासाध्वर्थमषा भिक्षामाहरन्ती परासुरभूत्, तस्मान्नामी साधवः कल्याणकारिणः लोके चाज्ञानवादः-एवंविधमपि दात्या अनर्थमेते न जानन्तीत्येव मूर्खताप्रवादः; तस्माजघन्यमपि मालापहृतमवश्यं परिहर्तव्य