________________ महादाण 161 - अभिधानराजेन्द्रः - भाग 6 महादाण कीयशास्त्रेषु, उपवीत-प्रतिपाद्यते / तद्यथा-''एते हाटकराशयः प्रवितताः शैलप्रतिस्पर्द्धिनो, रत्नानां निचयाः स्फुरन्ति किरणैराक्रम्य भानोः प्रभाम्। हाराः पीवरमौक्तिकौघरचितास्तारावलीभासुरा, यानादौ ग्जिहाय वस्त्रगृहतः स्वैरं जनो गच्छति।" 'तदिति तस्मात्तदेव बुद्धदानमसंख्यातमेव / इह दानविचारे तदिति 'महादान' युक्त-संगतम्, कुत इत्याह-'महच्छब्दोपपत्तितः' महाधनस्य तत्रैव बुद्धदान उपपद्यमानत्वात, संख्यातदानापेक्षया असंख्यातदानस्यानुपचरितमहत्त्वसिद्धेरिति // ततः किमत आहततो महानुभावत्वा-तेषामेवेह युक्तिमत् / जगद्गुरुत्वमखिलं, सर्वं हि महतां महत् / / 3 / / यतो बोधिसत्त्वानां महच्छब्दोपपात्तितः महादानं युक्तं ततस्तस्मान् महादानयोगात्. महानुभावत्वात्- अचिन्त्यशक्तियुक्तत्वात्. तेषामेवबाधिसत्त्वानामेव न जिनस्य, इहास्मिन् लोके युक्तिमत्- सोपपत्तिकम्, किं तदित्याह-जगद्गुरुत्वं भुवनभर्तृत्वम्, किंभूतमित्याह-अविद्यमान खिलं गुरुत्वाविषयो यत्र जगद्गुरुत्वे तदखिलम्, सर्वव्यापकं संपूर्णमिति यावत्कुत एतदेवमित्याह-सर्व-निरवशेष दानादिक्रियाजालम्, हि परमात् महताम्- महासत्त्वानाम्, महत् सातिशयं भवति। अतो महादानयोगात्त एव महानुभावा जगद्गुरवश्च भवन्ति नान्य इति / इह च तेषामिति धर्मी, जगद्गुरुत्वं साध्य, महानुभाववत्वं हेतुः, महतां महदिति च हेत्वसिद्धितापरिहार इति॥३॥ पूर्वपक्षमुपसंहरन्नाहएवमाहेह सूत्रार्थ,न्यायतोऽनवधारयन्। कश्चिन्मोहात्ततस्तस्य, न्यायलेशोऽत्र दर्श्यते / / 4 / / एवम्-अनन्तकोक्तप्रकारम्, आह-वूते पूर्वपक्षवादी, इह-प्रक्रमे सूत्रस्य (तिन्नेव य काडिसया) इत्यादेरागमस्यार्थोऽभिधेयः सूत्रार्थस्तमनवधारयन्निति योगः / किं सर्वथाऽनवधारयन्नेत्याह-न्यायतोन्यायमाश्रित्यार्थापत्तिगम्यमर्थमित्यर्थः / अनवधारयन् अनवबुध्यमानः, कश्चिदित्यसंबद्धभाषित्वात् अनिर्दिश्यमानः सौगत इति भावः / मोहाद्अज्ञानात् / यत एवं ततस्तस्मात्कारणात्तस्य-मूढवादिनो, न्यायलेशो युक्तिमात्रा, अत्र-दानव्यतिकरे, दीत-अभिधीयते इति। तत् प्रतिपादनौवाऽऽहमहादानं हि संख्याय-दर्थ्यभावाज्जगद्गुरोः। सिद्धं वरवरिकात-स्तस्याः सूत्रे विधानतः।।५।। महादानम्- अतिशायिविश्राणनम्, हिशब्दो दानमहत्तवभावनार्थः / यत संख्यावद्-विद्यगानपरिमाणं, तद् अर्थ्यभावात्- प्रयोजनिनामविद्यमानत्वान्न पुनरौदार्याभावाद् द्रव्याभावादा, जगद्गुरोः-भुवनायकस्य जिनस्य, कुत एतदवगतमित्याह-सिद्ध-निर्णीतम्, 'वरं वृणुत' 2 इत्येवमाख्यान वरवरिका, तस्या वरवरिकातो हेतोः / न च तस्या अप्यसिद्धिरित्याह-तस्या वरवरिकायाः सूत्रे नियुक्तिरूपे आगमे विधानतो विहितत्वात्, तथाहि 'सिंघाडगतियत्रउक्क, चचरवउमुहमहापहपहेसु। दारेसु पुरवराणं, रत्थामुहमज्झयारेसु। वरवरिया घोसिजइ, किमिच्छियं दिजए बहुविहीए। सुरअसुरदेवदाणव-नरिंदमहियाण निक्खमणे / / 5 / / " इति। अथ वरवरिकया दीयमानमर्थ्यभावात्तत्संख्यावदिति कुतः विद्धमित्यत्राऽऽहतया सह कथं संख्या, युज्यते व्यभिचारतः। तस्माद्यथोदितार्थ तु, संख्याग्रहणमिष्यताम् // 6 // तया-वरवरिकया, सह-सार्द्ध, कथं-केन प्रकारेण नकथंचिदित्यर्थः / संख्यापरिमाण, युज्यते-संगच्छते कुत इत्याह-व्यभिचारतोविसंवादात् अर्थिद्भावे सतीति गम्यम्, तथा हि-अर्थिनः प्रभूता महेच्छाश्चदानं वरवरिकथा दीयत इति कथं तन्नियतसंख्यं भवितुमर्हति यस्मादेवं तस्माद्यथोदितार्थं तुअनन्तराऽस्मदुक्तप्रयोजनमेव, तथाविधार्थ्यभावप्र तिपादनार्थपरमेव संख्यासंग्रहण 'तिन्नेव य कोडिसए' इत्यादिदानसंख्याविधानमिष्यतामभ्युपगम्यता न पुनरौदार्याभावद्रव्याभावाभ्यामिति / ननु यदि तीर्थकरानुभावादशेषदेहिनां सन्तोषभावादर्थ्यभावः स्यातदा संख्याकरणमप्ययुक्तम् ? अल्पस्यापि दानस्यासंभवादित्यत्रोच्यतेदेवताशेषाय इव संवत्सरमात्रेणाप्रभूतप्राणिग्राह्यत्वाद्युक्तमेव संख्यावत्त्वमिति, अनेन महादान संख्यावचेत्यसङ्गतमित्येतत्प-रवचो निरस्तमिति // 6 // अथ यदुक्तं ततो महानुभावत्वादित्यादि तदुपदर्शयन्नाहमहानुभावताऽप्येषा, तद्भावे न यदर्थिनः। विशिष्टसुखयुक्तत्वात, सन्ति प्रायेण देहिनः / / 7 / / महानुभावताऽपि-अतिशायिप्रभावताऽपि न केवल देहिनां सन्तोपसंपत्संपादनेन संख्योपेतमेव दान महादानमित्यपिशब्दार्थः एषा-एषैव वक्ष्यमाणस्वरूपा न पुनर्देहिनामसंख्यातवित्तवितरणरूपा। तामेवाहतद्भावे-जगद्गुरुसद्भावे(न) नैव'यदिति' यदेतदर्थिनस्तुच्छतया परमार्थनशीलाः सन्तीति संबन्धः। कुत इत्याह-विशिष्टसुखयुक्तत्वादपेक्षया सातिशयानन्दसंपदुपेतत्वात्, सुखं च सन्तोषो, यदाह-"सज्ज्ञानं परम मित्र-मज्ञानं परमो रिपुः। सन्तोषः परमं सौख्यमाकानादुःखमुत्ततम् / / 1 / / " सन्ति-भवन्ति, प्रायेण-बाहुल्येन, अनेनच निरुपक्रमकर्मजनितधना-दानवाञ्छातद्भावेऽप्यर्थिनः केचित संभवन्तीत्यावेदयति। भवति चैवम्, यतः-"जगप्रिये सुरूपेच, शशिनो रश्मिमण्डले। सत्यप्यम्भोजिनीखण्डं, न विकाशं प्रपद्यते" // 1 // अत एव संख्यातदानसंभवोsन्यथा तदसंभव एव स्यादिति / देहिनः-प्राणिनः, दृश्यन्ते च द्रव्याणां प्रभावविशेषाः, यतः "समुद्गच्छत्यसौ कोऽपि, हेतुर्गगनमण्डले।यस्यात्प्रमुदितप्राणि, जायते जगतीतलम् / / 1 / / ' त देवमसंख्येयदानस्य महादानत्वाभावदसंख्येयदानदायिनां महानुभावत्वासिद्धे हेतुरित्यभिहितमिति / / 7 / / तथाधर्मोद्यताश्च तद्योगा-त्ते तदा तत्त्वदर्शिनः। महन्महत्त्वमस्यैव-मयमेव जगदुरुः।।८।। धर्मोद्यताश्च-कुशलानुष्ठाननिरताश्च भवन्ति, न के वलमनर्थिन इति चशब्दार्थः / तद्योगाजगद्गुरुसंबन्धात्, ते-देहिनः,