________________ मरीइ 152 - अमिधानराजेन्द्रः- भाग 6 मरी जकः ऋषभस्य नप्ता-पौत्रः स्वाध्यायध्यानयुक्तः एकान्ते ध्यायति महात्मा तं दर्शयति जिनेन्द्रः / एवं नरेन्द्रेण पृष्टः सन् एष धर्मवरचक्रवर्ती अपश्चिमो वीरनामा भविष्यतीति शेषः / आ०म०१अ०। इदानीं प्रकृतां मरीचिवक्तव्यतां पृच्छतां कथयतीत्यादिना प्रतिपादयतिपुच्छंताण कहेई, उवट्ठिए देइ साहुणो सीसे। गेलनि अपडिअरणं, कविला इत्थं पि इहयं पि॥ 37 // गमनिका-पृच्छतां कथयति। उपस्थितान् ददाति साधुभ्यः शिष्यान् ग्लानत्वेऽप्रतिजागरणं कपिलः अत्राऽपि इहाऽपि / भावार्थः, स हि प्रागव्यावर्णितस्वरूपो मरीचिर्भगवति निर्वृते साधुभिः सह विहरन् पृच्छता लोकानां कथयति-धर्म जिनप्रणीतमेव धर्माक्षिप्तांश्च प्राणिन उपस्थितान् ददाति साधुभ्यः शिष्यानिति अन्यदा सगलानः संवृत्तः। साधवोऽप्यसंयतत्वान्न प्रतिजाग्रति। सचिन्तयति-निष्ठितार्थाः खल्वेते। नाऽसंयतस्य कुर्वन्ति, नापि ममैतत् कारयितुं युज्यते / तस्यात्कञ्चन पतिजागरकं दीक्षयामीति (आ०म०) (अनान्यद्वक्तव्यं 'कविल' शब्दे तृतीयभागे 387 पृष्ठे गतम्) मरीचिनाप्यनेन संसारोऽभिनिर्वर्तितः। त्रिपदीकाले चनीचैर्गोत्रकर्मबद्धमिति। अमुमेवार्थं प्रतिपादयन्नाहदुब्भासिएण इक्केण, मरीई दुक्खसायरं पत्तो। भमिओ कोडाकोडिं,सागरसरिनामधेनाणं // 435|| दुर्भाषितेन एकेनोक्तलक्षणेन मरीचिर्दुःखसागरं प्राप्तः। भ्रान्तः कोटीनां कोटी कोटिकोटी ताम् / केषामित्याह-(सागरसरिनामधेजाणं ति) सागरसदृशनामधेयानां सागरोपमानामिति गाथाऽर्थः / तम्मूलं संसारो, नीआगोत्तं च कासि तिवइंमि। अपडिशंतो बंभे, कविलो अंतद्धिओ कहए // 39 // तन्मूलं-दुर्भाषितमूलंसंसारः सञ्जातः तथा स एव नीचैर्गोत्रंच कृतवान् निष्पादितवान्, त्रिपद्यां प्राग्वर्णितस्वरूपायामिति / (अपडिकंतो बंभे त्ति) समरीचिश्चतुरशीतिपूर्यशतसहस्त्राणि सर्वायुष्कमनुपाल्य तस्मात् दुर्भाषिताद्- दुर्वाचा अप्रतिक्रान्तोऽनिवृत्तः ब्रह्मलोके दशसागरोपमस्थितिवः सञ्जात इति। आ०म०१०। (अत्र कपिलविषयकं वक्तव्यं 'कविलं' शब्दे तृतीयभागे 387 पृष्ठे गतम्) इक्खागेसु मरीई, चउरासीई अबंभलोगंमि। कोसिउ कुल्लागंमि, (गेसुं) असीइमाउंच संसारे // 44oll गमनिका-इक्ष्वाकुषुमरीचिरासीत्। चतुरशीतिंच पूर्वशतसहस्त्राण्यायुष्कं पालयित्वा' बंभलोयम्मि' ब्रह्मलोके कल्पे देवः संवृत्तः। ततश्चायुकक्षयाच्च्युत्त्वा (कोसिउकोल्लागेसुंति) कोल्लाकसन्निवेसे कौशिको नाम ब्राह्मणो बभूव / (असीतिमाउं च संसारे त्ति) स च तत्राशीति पूर्वशतसहस्त्राण्यायुष्कमनुपाल्य (संसारे त्ति) तिर्यग्ररनारकामरभवानुभूतिलक्षणे पर्यटित इति गाथार्थः। संसारे कियन्तमपि कालमटित्वा स्थूणायां नगर्या जात इति। अमुमेवार्थ'थूणा' इत्यादिना प्रतिपादयतिथूणाइ पूसमित्तो, आउं वावत्तरिं च सोहम्मे। चेइइ अग्गिोओ, चोवट्ठीसाणकप्पंमि॥४१॥ स्थूणाया नगर्यां पुष्पमित्रो नाम ब्राह्मणः संजातः (आउंबावत्तरिच सोहमे त्ति) तस्यायुष्कं द्विसप्ततिः पूर्वशतसहस्राण्यासीत्। परिव्राजकदर्शने च प्रव्रज्यां गृहीत्वा तां पाल यित्वा कियन्तमपि कालं स्थित्वा सौधर्मे कल्पेऽजघन्योत्कृष्टस्थितिः समुत्पन्न इति। ('चेइयअग्गिजोओ चोवट्ठी साणकप्पम्मि' त्ति) सौधर्मच्युतः चैत्यसन्निवेशे अग्निद्योतो ब्राह्मणः सञ्जातः तत्र चतुःषष्टिपूर्वशतसहस्त्राण्यायुष्कमासीत् / परिव्राट् च सञ्जातो मृत्वा च ईशाने देवोऽजघन्योत्कृष्टस्थितिः संवृत्त इति गाथाऽर्थः। मंदिरे अग्गिभूह, छप्पणा उसणंकुमारंमि। सेअवि भारद्वाओ, चोआलीसंच माहिंदे।।४४२|| गमनिका-ईशानात् च्युतो (मंदिरे इति) मन्दिरसन्निवेशे अग्निभूतिनामा ब्राह्मणो बभूव। तत्र षट्पञ्चाशत्पूर्वशतसहस्त्राणि जीवितमासीत्। परिव्राजकश्च बभूव / मृत्वा (सणंकुमारम्मि त्ति) सनत्कुमारे कल्पे विमध्यमस्थितिर्देवः समुत्पन्न इति (सेअविभारद्वाए चोथालीसंचमाहिंदे त्ति) सनत्कुमारा च्च्युतः श्वेताम्ब्यां नगर्यां भारद्वाजो नामब्राह्मण उत्पन्न इति / तत्र च चतुश्चत्वारिंशत् पूर्वशतसहस्त्राणि जीवितमासीत् / परिव्राजकश्चाभवत्, मृत्वा च माहेन्द्रे कल्पेऽजघन्योत्कृष्टस्थितिर्देवो बभूवेति गाथार्थः। संसरिअथावरो रामगिहे चउतीस बंभलोगंमि। छस्सु वि पारिट्वझं, भमिओ तत्तो असंसारे / / 43|| गमनिका-माहेन्द्राच्च्युत्त्वा, संसृत्य कियन्तमपि कालं संसारे, ततः स्थावरो नाम ब्राह्मणो राजगृहे समुत्पन्न इति / तत्र च चतुस्त्रिंशत् पूर्वशतसहस्त्राण्यायुष्कंपरिव्राजक आसीत्। मृत्वाच ब्रह्मलोकेऽजघन्योस्कृष्टस्थितिर्देवः संजातः / एवं षट्स्वपि वारासुपरिव्राजकत्वमधिकृत्य दिवमवाप्तवान् (भमिओ तत्तो असंसारे) ततः बृह्मलोकाच्च्युत्त्वा भ्रान्तः संसारे प्रभूतं कालमिति गाथार्थः / रायगिह विस्सनंदी, विसाहभूई अतस्स जुवराया। जुवरण्णो विस्सभूई, विसाहनंदी अ इअरस्स // 444|| रायगिह विस्सभूई, विसाहभूइसुओ खत्तिए कोडी। वाससहस्सं दिक्खा, संभूअजइस्स पासंमि।।४४५|| भावार्थः खल्वस्य गाथाद्वयस्य कथानकादवसेयः। तच्चेदम् - "रायगिहे नगरे विस्सनंदीराया। तस्स भाया विसाहभूती। सोय जुवराया। तस्स जुवरण्णो धारिणीए देवीए विस्सभूतीनाम पुत्तो जाओ। रणोऽवि पुत्तो विसाहनंदित्ति। तस्स विस्सभूतिस्स वासकोडी आऊ। तत्थ पुप्फकरंडकं नाम उजाणं / तत्थ सो विस्सभूती अंतेउरवरगतो सच्छंदसुहं पवियरइ / ततो जा सा विसाहनंदिस्स माया तीसे दासचेडीओ