________________ वेयावच 1458 - अभिधानराजेन्द्रः - भाग 6 वेयावच असमाधिमरणेनमरणतःसऐहलौकिकीनांपारलौकिकीनां च लब्धीनां स स्फेटितः-- त्याजितो भवति / तत्र इहलोके ऐहलौकिवयो लब्धयः-- आमोषध्यादयः। परलोके पारलौकिक्योऽनुत्तरादयोऽनुत्तरा लवसत्तमा देवाः / आदिशब्दात्-सुकुलप्रत्यायातिश्रुतलाभादिपरिग्रहः / असमाहीमरणेणं, एवं सव्वासि फेडितो होइ। जह आउगपरिहीणा, देवा लवसत्तमा जाया।।१३२।। पदम--- अमुना प्रकारेण सर्वासामैहिकीनां पारत्रिकीणां लब्धीनामसमाविपरोन स्फटितो भवति, यथा-आयुष्कपरिहीणा देवालवसप्तमा जाता, मातापरिहाण्या सिद्धिलाभतो भ्रष्टाः यथा देवा लवसप्तमा जाना इसथ: : (20) (लक्सप्तमदेवस्वरूपम् 'लवसत्तम' शब्देऽस्मिन्नेव उपसंहारमाहतम्हा उ सपक्खेणं, कायवें गिलाणगस्स तेगिच्छं। विवक्खेण न कारजा, एवं उदितम्मि चोदेति।१३४॥ यस्मद्विपक्षे दोषास्तस्मात्सपक्षण ग्लानस्य चिकित्साकर्म कर्त्तव्यं, विपक्षण पुनर्न कारयेत्। तदेष सम्बन्धस्ततः सूत्रव्याख्यालक्षणं तदन्याक्षेपपरिहारौ तत्प्रसक्त्याऽन्यदपि चाभिहितम् / सम्प्रति सूत्रव्याख्या क्रियते-निर्ग्रन्थं चशब्दान्निग्रन्थीं च रात्रौ वा विकाले वा दीर्घपृष्ठः-सप्पो लूपयेत् - दशेत्, तत्र स्त्री वा पुरुषस्य हस्तेन तं विषमपार्जयेत् पुरुषो वा स्त्रिया हस्तेन, एवं 'से' तस्य स्थविरकल्पिकस्य कल्पते स्थविरकल्पकस्यापवादबहुलत्वाद्। एवं चामुना प्रकारेणा-पवादमासेवमानस्य 'से' तस्य तिष्ठति पर्यायः, न पुनः स्थविरकल्पात् परिभृश्यति येन छेदादयः प्रायश्चित्तविशेषास्तस्य न सन्ति, परिहारं च तपो न प्राप्नोति कारणेन यतनया प्रवृत्तेः, एष कल्पः स्थविरकल्पिकानाम् / एवममुना प्रकारेण सपक्षण विपक्षण वा वैयावृत्यकारापणं से तस्य जिनकल्पिकस्य न कल्पते केवलोत्सर्गप्रवृत्तत्वात्तस्येति भावः / एवमपवादसेवनेन 'से' तस्य जिनकल्पपर्यायो न तिष्ठति, जिनकल्पात्पततीत्यर्थः / परिहार च तपोविशेष न परिपालयति, एष कल्पो जिनकल्पिकानाम्। एवं सूत्रे व्यवस्थिते यदाचार्येण प्रागुदितं सपक्षण वैयावृत्यं कारयितव्यं न परपक्षेणेति तत्र चादयति-ब्रूते। परः यदुक्तवांस्तदाहसुत्तम्मि अणुण्णाई, इह ई पुण अत्थतो निसेहेइ / कायव्व सपक्खेणं, चोयग ! सुत्तं तु कारणियं / / 135 / / सूत्र विपक्षणापि वैयावृत्यकारापणमनुज्ञातम्, इह-इदानीम्, इ. पादपुरणे, पुनरर्थता यूयं परपक्षेण वैयावृत्यकारापण निषेधयत कर्त्तव्य सपक्षणे' ति वचनात्, ततः सूत्रभवद्व्याख्यानयोर्विरोधः। अत्राचार्य आह-- न विराधो यता हे चोदक ! सूत्रमिदं कारणिकं-कारणापेक्षम्। तदेव कारणमाहविजसपक्खाणऽसती, गिहिपरतित्थी उतिविहसंबंधी। एमेव असंबंधी, असोयवादेतरा सव्वे / / 236 / / सपक्षाणां वैद्यानामसति-अभावे गृही तत्पिता भ्राता-स्वजनो वा स्थविरादिभेदतस्त्रिविधो यः संबन्धी स वैयावृत्यं कारणीयः। तदभावे असंबन्धी स्थविरमध्यमतरुणभेदतस्त्रिभेदः पूर्वपूर्वालाभे उत्तरोत्तरः कारणीयः, तस्याऽप्यभावे परतीर्थिकः पितृभ्रात्रादिसंबन्धेन संबन्धी स्थविरादितविभेदः पूर्वपूर्वालाभे उत्तरोत्तरः कारणीयः / तस्यालाभे असंबन्धयपि स्थविरादिभेदतस्त्रिविधः उक्तक्रमेण कारयितव्यः / एते सर्वेऽपि द्विविधा अशौचबादा वा इतरे च। तत्र प्रथमतः सर्वत्राप्यशौचवादः कारयितव्यस्तदसंभवे इतरोऽपि। एएसिं असतीए, गिहि(भ) गिणिपरतिस्थिगी तिविहभेया। एएसिं असतीए, समणी तिविहा करे जयणा / / 137 / / एतेषा-प्राग्गाथानिर्दिष्टानां सर्वेषामसति अभावे गृहस्था माता भगिनी, तदभावे स्वजनाः स्थविरमध्यमतरुणभेदतस्त्रिविधाः पूर्वपूर्वालाभे उत्तरोत्तराः कारयितव्याः। तदभावे असंबन्धिनी स्थविरादिभेदतरित्रविधा प्राक क्र मेण कारयितव्या / तस्या अलाभे परतीथिकाः स्थविराभेदतस्त्रिप्रकाराः पूर्वपूर्वालाभे उत्तरोत्तराः कारयितव्याः। एतेषा च भेदानां सर्वेषाभप्यसत्यलाभे श्रमणी त्रिविधास्थविरादिभेदतस्विप्रकारा पूर्वपूर्वालाभे उत्तरोत्तरा यतनया करोति / तामेव यतनामाहदूती अद्दाइ वत्थे, अंतेउरिया य दन्भतो भेया। वियणे य तालवेंटे, चवेडओ मजणा जयणा ||138 / / काचिद् दूतविद्या भवति, तेया च दूतविद्यय यो दूत आगच्छति तस्य दंशस्थानमपमाय॑ते तेनेतरस्य देशस्थानमुपशाम्यति, 'अद्दाह' त्ति अपरा आदर्शविद्या तयाआतुर आदर्श प्रतिबिम्बितः अपमाय॑ते आतुरः प्रगुणो जायते। अन्या विद्या वस्त्रविषया भवति, यया परिजपितेन वस्त्रेण वाऽपमृज्यमानः आतुरः प्रगुणो भवति / अपरा विद्या अन्तःपुरे आन्तःपुरिकी विद्या भवति, यया आतुरस्य नाम गृहीत्वा आत्मनोऽङ्गमपमार्जयति आतुरश्च प्रगुणो जायते सा आन्तःपुरिकी। अन्या दर्भे दर्भविषया भवति विद्या, यया दर्भरपमृज्यमान आतुरः प्रगुणो भवति। 'वियणे' ति व्यजनविषया विद्या, यया, व्यजनमभिमन्यते तेनाऽऽतुरोऽपमृज्यमानः स्वस्थो भवति सा व्यजनविद्या। एवं तालवृन्तविद्याऽपि भावनीया / चपेटा-चापेटी विद्या यया अन्यस्य चपेटायां दीयमानायामातुरः स्वस्थीभवति सा चापेटी। तत्र पूर्व दूत्या विद्ययाऽपमार्जनं कर्त्तव्यं, तदभावे आदर्शिक्या, एवं तावद्यावदन्ते चापेट्या। एषा अपमार्जनायतना। एतदेव स्पष्टतरमाहदूयस्स पमाइजइ, असती अद्दागपरिजवित्ताणं। परिजवियं वत्थं वा, पाउजइ तेण वोमाए // 13 // एवं दडभादीसु, ओमाएऽसंफुसंतों हत्थेणं / चावेडीविजाए, ओमाएँ चवेडयं देंतो॥१४०।।