________________ वेयालिय 1451 - अभिधानराजेन्द्रः - भाग 6 वेयावच एवं सिद्धा अणंतसो, संपइ जे अ अणागयावरे // 21|| एवं से उदाहु अणुत्तरनाणी अणुत्तरदसी अणु-त्तरनाणदंसणधरे अरहा नायपुत्ते भगवं वेसालिउ वियाहिए।।२२।। त्ति बेमि। इति श्रीवेयालियं बितियमज्झयणं समत्तं / / त्रिविधेन-मनसा वाचा कायेन, यदि वा कृतकारितानुमतिभिर्वा प्राणिनोदशविधप्राणभाजो मा हुन्यादिति, प्रथममिदं महाव्रतम्, अस्य चोपलक्षणार्थत्वात्। एवं शेषाण्यपि द्रष्टव्यानि। तथाऽऽत्मने हित आत्महितः, तथा नास्य स्वर्गावाप्स्यादिलक्षणं निदानमस्तीत्यनिदानः तथेन्द्रियनोइन्द्रियर्मनोवाकायैर्वा संवृतः: त्रिशुपिगुप्त इत्यर्थः, एवम्भूतश्वावश्यं सिद्धिमवाप्रोतीत्येतद्दर्शयति- 'एवम्- अनन्तरोक्तमार्गानुष्ठानेनानन्ताः सिद्धा--अशेष-कर्मक्षयभाजः संवृत्ता विशिष्ट स्थानभाजो वा, तथा सम्प्रति-वर्तमाने काले सिद्धिगमनयोग्ये सिद्धन्ति। अपरे वा अनागते काले एतन्मार्गानुष्टायिन एव सेत्स्यन्ति, नापरः सिद्धिमार्गोऽस्तीति भावार्थः॥२१॥ एतच सुधर्मस्वामी जम्बूस्वामिप्रभृतिभ्यः स्वशिष्येभ्यः प्रतिपादयतीन्याह- ‘एवं से' इत्यादि, एवम्-उद्देशकत्रयाभिहितनीत्या स- ऋषभस्वामी स्वपुत्रानुदिश्य उदाहृतवानन्प्रतिपादितवान्, नास्योतर-प्रधानमस्तीत्यनुत्तरं तच तज्ज्ञानं च अनुत्तरज्ञानं तदस्यास्तीत्यनुनरज्ञानी तथाऽनुत्तरदर्शी-सामान्यविशेषपरिच्छेदकाव बोधस्वभाव इति। बौद्धमतनिरासद्वारेण ज्ञानाधारं जीवं दर्शयितुमाहअनुत्तरज्ञानदर्शनधर इति- कथञ्चिद्भिन्नज्ञानदर्शनाऽऽधार इत्यर्थः / अर्हन्सुरेन्द्रादिपूजा) ज्ञातपुत्रो वर्द्धमानस्वामी ऋषभस्वामी वा भगवानऐश्वर्यादिगुणयुक्तो विशाल्यां नगर्या वर्द्धमानोऽस्माकमाख्यातवान्, ऋषभस्वामी वा विशालकुलोद्भवत्वाद्वैशालिकः। तथा चोक्तम् 'विशाला जननी यरय विशाल कुलमेव वा। विशालं वचनं चास्य, तेन वैशालिको जिनः / / 1 / / " एवमी जिन आख्यातेति / इतिशब्दः परिसमाप्त्यर्थी, ब्रवीमीति उक्तार्थो, नयाः पूर्ववदिति // 22 // समाप्तं द्वितीयं वैतालीयमध्ययनम् / सूत्र० 1 श्रु० 2 अ०३ उ० / (अनित्यता धर्मदेशना 'परीसहा'ऽऽदिशब्देषु।) वैक्रिय-०। नरके परमाधार्मिकनिष्पादिते पर्वत, सूत्र०१ श्रु०४ अ० २उ। वैकालिक-अपराह्लादौ, विगतकाले जाते, दश०१ अ०। ('दसवेयालिय' शब्दे चतुर्थभागे 1480 पृष्ठे व्युत्पत्तिरुक्ता।) वेयालिया-स्त्री० (वैतालिकी) विताले तालाभावे च भवतीति वैतालिकी। देवतायाः पुरतो वाद्यमानायां मङ्गलवीणायाम्, जी० 3 प्रति० 4 अधि० / ज०। वेयाली-स्वी (वैताली) नियताक्षरप्रतिबद्धे विद्याभेदे, सा च किल कतिभिजेपैर्दण्डमुत्थापयति। सूत्र०२ श्रु०२ अ०। वेयावच्च-न० (वैयावृत्य) व्याविवर्ति स्मेति ट्यावृतस्तस्य भावः वैयावृत्यम् प्रव० 6 द्वार / व्यावृतस्य शुभव्यापारवतो भावः कर्म वा वैयावृत्यम्, भक्तादिभिर्धर्मोपग्रहकारिवस्तुभिरुपग्रहरकरणे, स्था०५ ठा०१3०। प्रति० / पा०। साधूनामाहाराद्यानयनसाहाय्ये, उत्त० 26 अ०। पशा० नं० / स० 1 औषधपथ्यादिनाऽवष्टम्भे, ध०२ अधि० / भ० / प्रश्न० / ग० / स्था० / धर्मसाधननिमित्तं व्यावृतभावे, दश०१ अ० व्य० / "वेयावचं वा वडभावो इह धम्मसाहणणिमित्तं " प्रव०६ द्वार। वैयावृत्यभेदानाहदसविहे वेयावच्चे पण्णत्ते, तं जहा-आयरियवे यावच्चे 1, उवज्झायवेयावचे 2, थेरवेयावच्चे 3, तवस्सिवेयावचे 4, सेहवेयावचे 5, गेलण्णवेयावचे 6, साहम्मियवेयावच्चे 7, कुलवेयावच्चे 8, गणवेयावच्चे,संघवेयावचे 10, आयरियवेयावचं करेमाणे समणे निग्गन्थे महानिजरे महापज्जवसाणे भवति। अरयाक्षरगमनिका-नवरं वैयावृत्यं त्रयोदशभिः पदैस्तान्यग्रे वक्ष्यन्ते। महानिर्जरः प्रतिसमयमनन्तानन्तकर्मपरमाणुनिर्जरणाद् महापर्यवसानसिद्धिगमनात्। अत्र भाष्यप्रपञ्चःदसविहवेयावचं, इमं समासेण होइ विन्नेयं / आयरिय उवज्झाए, थेरे य तवस्सिसेहे य॥१२३।। अतरंतकुलग गेज्जा, संघे साहम्मिवेयवचे य। एतेसिं तु दसण्हं, कायव्वं तेरसपएहिं / / 124 / / दशविधमिदं वक्ष्यमाणं समासेन विज्ञेयम्, तद्यथा-आचार्यस्य 1, उपाध्यायस्य 2, स्थविरस्य 3, तपस्विनः 4. शैक्षकस्य 5, अतरत्ग्लानस्तस्य 6, साधर्भिकस्य 7, कुलस्य 8. गणस्य 6, ससस्य 10, वैयावृत्यम् / गाथायां सप्तमी सर्वत्र प्रतिपत्तय्या एताषां त्वाचार्यादीना दशानामपि यथायोग त्रयोदशभिः पदैर्वैयावृत्यं कर्त्तव्यम्। तान्येव त्रयोदशपदान्याहभत्ते पाणे सयणाऽऽसणे (य) पडिलेहपायमच्छिमद्धाणे। राया तेणे दंड-गहे य गेलण्णमत्ते य / / 125|| भक्तेन-भक्तानयनेय वैयावृत्यं कर्त्तव्यम्, 1, पानेनपानी-यानयनेन 2, शय्ययासंस्तारकेण वा 3, आसनेन-आसन-प्रदानेन 4, प्रतिलेखनेन क्षेत्रस्योपधेर्वा प्रत्युपेक्षणेनापि 5, 'पाए' त्ति पादप्रमार्जनन 6, यदि वा -औषधपानेन अक्ष्णोः अक्षिरोगिणो भेषजप्रदानेन७, अध्वनि-अध्वानं प्रपन्नानामुपग्रहेण 8, राजद्विष्ट निस्तारणेन 6, 'तेण' त्ति शरीरोपधिस्तेनेभ्यश्च संरक्षणेन 10, तथाऽतिचारादिभ्य आगतानां दण्डग्रहणात् 11, ग्लानत्वे जाग्रतो यथायोग्यं तत्संपादनेन 12, 'मत्ते य' ति मात्रिकत्रिकढौकनेन 13, एतानि त्रयोदश पदानि। जा जस्स होइ लद्धी, तं तु न हावेइ संतविरियम्मि। एयाणुत्तत्थाणि य, पयाइँ किंचित्थ वुच्छामि।।१२६|| या यस्य भवति लब्धिः स ता सति वीर्य पराक्रमे न हापयेदिति / व्याख्यानार्थ त्रयोदश पदान्युपात्तानि एतानि चोक्तार्थानि सुप्रतीतानि तथापि किंचिदत्र विनेयजनानुग्रहाय वक्ष्यामि।