SearchBrowseAboutContactDonate
Page Preview
Page 1469
Loading...
Download File
Download File
Page Text
________________ वेयणा 1445 - अभिधानराजेन्द्रः - भाग 6 वेयणा तापयित्वा तापयित्वा ततो घनेन कुट्टयित्वा कुट्टयित्वा यावदेकाहं वा द्यहं वा यावदुत्कर्षतोऽर्द्धमासं संहन्यात् ततो णमिति वाक्यालङ्कारे, ताम-अयस्पिण्ड शीतम्, सच शीतो बहिर्मनाग्मात्रेणापि स्यादत आहशीतीभूत-सर्वात्मना शीतत्वेन परिणतं अयोमयेन सदशकेन गृहीत्वा असद्धावस्थापनयाअसद्भावकल्पनया नैतदभूत् न भवति भविष्यति वा केवलमसद्भूतमिदं कल्प्यत इति, उष्णवेदनेषु नरकेषु प्रक्षिपेत, प्रक्षिप्य च स पुरुषोणमिति वाक्यालङ्कारे, 'उम्मि-सियनिमिसियंतरेण' उन्मिपितनिमिषितान्तरण यावताऽन्तरणयावता व्यवधानेन उन्मेषनिनेषौ क्रियेते तावदन्तरप्रमाणेन कालेनातिक्रान्तेन पुनरपि प्रत्युद्धरिष्यामीति कृत्वा यावद् द्रष्ट प्रवर्तत तावत् प्रवितरमेवप्रस्फुटितभेव, यदि वा - प्रविलीनमेव-नवनीतमिव सर्वथा गलितमेव, यदि वा-प्रविध्वस्तमेवसर्वथा भस्मसाद्भूतमेव पश्येत, न पुनः शक्नुयाद् अचिरात्तम, अप्रस्फुटितम् अविलीनं वा अविध्वस्तं वा पुनरपि प्रत्युद्धर्तुम्, एवं रूपा नाम तत्रोष्णपदना। अस्यैवार्थस्य स्पष्टतरभावनार्थ दृष्टान्तान्तरमाह . 'से जहानागए' इत्यादि, 'से' सकलजनप्रसिद्धो यथेति दृष्टान्तत्वोपदर्शन / वाशब्दो विकल्पने। अय वा दृष्टान्तो विवक्षितार्थप्रतिपत्तवे बोद्धव्य इति विकल्पनभावना / मत्तः-मदकलितः मातङ्ग:-हस्ती, इद मातङ्गोऽन्त्यजोऽपि संभवति ततस्तदाशङ्काव्युदासार्थ नानादेशजविनेयजनानुग्रहाय (वा) पर्यायद्वयमाह- द्विपः- द्वाभ्यां मुखेन करेण चेत्यर्थः पिबतीति द्विपः / मूलतिभुजादयः" / 5 / 1 / 144 / इति कप्रत्ययः। कौ जीर्यतीति कुजरः, यदि बा-कुञ्ज वनगहने रमति-रतिमावघ्नातीति कुञ्जरः, 'कचिदिति' प्रत्ययः, पष्टिस्यनाः- संवत्सरा यस्य स षष्टिहायनः प्रथमशरत्कालसमये-कार्तिकमाससमये, इह प्राय ऋतवः सूर्यर्तवो गृह्यन्ते ते चाषाढादयो द्विद्विमासप्रमाणाः, प्रवचने च क्रमेणैवनामानः / तद्यथा-प्रथमः प्रावृट, द्वितीयो वर्षारात्रः, तृतीयः शरत, चतुर्थो हेमन्तः, पञ्चमो वसन्तः, षष्ठो ग्रीष्मः, तथा चाह पादलिप्तसूरिः- 'पाउस वासारतो, सरओ हेमन्त वसन्त गिम्हो या एए खलु छिप्प रिऊ, जिणवरदिट्टा मए सिट्ठा / / 1 / / ' ततः प्रथमशरत्कालसमयः कार्तिकसमयः इति विवृ(त) तम्, आह च मूलटीकाकृत-"प्रथमशरत्-कार्तिकमासः" तस्मिन वाशब्दो विकल्पने, चरमनिदाघकालसमये वा- चरमनिदाघकालसमयोज्यष्ठमासपर्यन्तस्तस्मिन्, वाशब्दो विकल्पने / उष्णाभिहितः- सूर्यखरकिरणप्रतापाभिभूतः। अत एवोष्णैः सूर्यकिरणैः सर्वतः प्रतप्ताङ्ग तया शोषभावतस्तृषाभिहतः, तत्रापि पानीयगवेषणार्थमितस्ततः स्वेच्छया परिभ्रमतः कथञ्चिद्दवाग्निप्रत्यासत्तौगमनतो दवाग्निज्वालाभिहतः अतः एव आतुरः-क्वचिदपि स्वास्थ्यमलभमानः सन् आकुलः, सर्वाङ्ग परितापसम्भवेनगलतालुशोषभावात् शुषितः, कृचित् 'झिजिए' इति पाठस्तत्र क्षितेः- क्षीणशरीर इति व्याख्येयम्, असाधारणतृड्वेदनासमुच्छलनात्पिपासितः, अत एव दुर्बलः शारीरमानसावष्टम्भरहितत्वात, क्लान्तः- ग्लानिमुपगतः 'क्लमू' ग्लानौ, इति वचनात एका महतीं पुष्करिणी पुष्कराण्यस्यां विद्यन्ते इति पुष्करिणी ताम्, किं -विशिष्टामित्याह-चतुष्कोणांचत्वारः कोणा-अश्रयो यस्याः सा तथा ता, सम-विषमोन्नतिवर्जितं सुखावतारं तीर-तट यस्याः सा समतीरा ताम्, आनुपूर्येण--नीचैर्नीचैस्तरभावरूपेण न त्वेकहेलयैव क्वचिद्र रूपा क्वचिदुन्नतिरूपा इति भावः सुष्टुअतिशयेन यो जातो वप्रः-केदारो जलस्थानं तत्र गम्भीरम् अलब्धस्ताघं शीतलं जलं यस्यां सा आनुपूर्व्यसुजातवप्रगम्भीरशीतलजला ताम्, 'संछाणपत्तभिसमुणाल' मिति संछन्नानिजलेनान्तरितानि पत्रविसमृणालानि यस्यां सा संछन्नपत्रनिरामृणाला ताम्, इह विस- मृणालसाहचर्यात् पत्राणि पद्मिनीपत्राणि द्रष्टव्यानि, विसानिकन्दाः मृणालानिपद्मनालाः, तथा बहुभिरुत्पलकुमुदनलिनसुभगसौगन्धिक-पुण्डरीकमहापुण्डरीकशतपत्रसहस्रपत्रः के सरैः के सरप्रधानैः फुल्लैः विकसितैरुपचिता बहूत्पलकुमुदनलिनसुभगसौग न्धिकपुण्डरीकमहापुण्डरीकशतपत्रसहस्रपत्रकेसरफुल्लोपचिता तां तथा षट्पदैः- भ्रमरैः परिभुज्यमानानि कमलानि उप-- लक्षणमेतत कुमुदादीनि यस्याः सा षट्पदपरिभुज्यमानकमला ता, तथाऽच्छेनरवरूपतः स्फटिकवच्छुद्धेन विमलेन-आगन्तुकमलरतिन सलिलेन पूर्णा अच्छविमलसलिलपूर्णा ता, तथा पडिहत्था-अतिरेकतः; अतिप्रभूता इत्यर्थः भ्रमन्तो मत्स्यकच्छपा यस्यां सापडिहत्थभ्रमन्मत्स्यकच्छपा, तथा अनेकैः शकुनिगणमिथुनकैः गणशब्दस्य प्राकृतत्यादस्थानेऽप्यपनिपातः, शकुनिमिथुनकैर्विचरितैः इतस्ततः स्वेच्छया प्रवृत्तः शब्दोन्नतिकम् उन्नतशब्दं मधुरस्वरं नादितं यस्यां सा अनेकशकुनिगणमिथुनकविचरितशब्दोन्नतिकमधुरस्वरनादिता, ततः पूर्वपदेन विशेषणसमासः, तां दृष्ट्वाऽवगाहेत, अवगाह्य च उष्णमपि परिदाहमपि शरीरस्य तत्र प्रविनयेत्-प्रकर्षेण सर्वात्मना स्फोटयेत्, तथा क्षुधामपि प्रविनयेत् प्रत्यासन्नतटवर्तिशल्लक्यादिकिसलयभक्षणात्, तृषमपि प्रविनयेत् जलपानात, ज्वरमपि परिसंतापसमुत्थं प्रविनयेत् परिदाघरत्पिपासाऽपगमात्, एवं सकलक्षुद्रादिदोषापगमतः सुखासिकाभावेन निद्रायेत प्रचलायेत, तत्र अनिद्रावान् निद्रावान् भवतीति च्य्यर्थविवक्षाया निद्रादिभ्यो धर्मिणि क्यबिति कर्मणि क्यप्प्रत्ययः, एवं प्रचलाशब्दादपि निद्रादेराकृतिगणत्वात् / निद्राप्रचलयोस्त्वयं विशेषः- सुखप्रबोधा स्वापावस्था निद्रा, ऊर्द्धस्थितस्यापि या पुनश्चैतन्यमस्फुटीकुर्वती समुपजायते निद्रा सा प्रचला / एवं च क्षणमात्रनिद्रालाभतोऽति-स्वस्थीभूतः स्मृति वा पूर्वानुभूतस्मरणं रतिवा- तदवस्थाऽऽसक्तिरूपांधृतिंवाचित्तस्वास्थ्यंमतिवा–सम्यगीहापोहरूपाम् उपलभेत-प्राप्नुयात्। ततः शीतःबाह्यशरीरप्रदेशशीतीभावात, शीतीभूतः-शरीरान्तरेऽपि निवृतीभूतः सन् 'संकसमाणे' इति सम्- एकीभावेन कसन्– गच्छन् 'सातसौख्यबहुलश्वापि' सातम्-आहादस्तत्प्रधानं सौख्यं सातसौख्यं न त्वभिमानमात्रजनितमालादविरहितं सातसौख्येन बहुलो-व्याप्तः सातसौख्यबहुलश्चापि विहरेत्-स्वेच्छया परिभ्रमेत् एवमेव अनेनैवानन्तरोदितदृष्टान्तप्रकारेण हेगौतम ! असद्भावप्रस्थापनया-असद्भावकल्पनया भेदं वक्ष्यमाणमभूत
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy