________________ वेयणा 1444 - अभिधानराजेन्द्रः - भाग 6 देयणा वन्ति, नापि शीतोष्णा वेदनां वेदयन्ते, शीतोष्णस्वभावतया वेदनाया नरकेषु मूलतोऽप्यसम्भवात्। एवं शर्कराप्रभावालुकाप्रभानैरयिका अपि वक्तव्याः। पङ्कप्रभापृथिवीनैरयिकपृच्छायां भगवानाह- गौतम! शीतामपि वेदना वेदयन्ते नरकावासभेदेनोष्णामपि वेदना वेदयन्ते नरकावासभेदेनैव, न तु शीतोष्णाम् / तत्र ते बहुतरा ये उष्णा वेदनां वेदयन्ते, प्रभूततराणां शीतयोनित्वात्, ते स्तोकतरा ये शीता वेदनां वेदयन्ते अल्पतराणामुष्णयोनित्वात्, एवं धूमप्रभायामपि वक्तव्यं, नवरं ते बहुतरा येशीतवेदनां वेदयन्ते, बहूनामुष्णयोनित्वात्, ते स्तोकतरा ये उष्णवेदना वेदयन्ते, अल्पतराणां शीतयोनित्वात्। तमःप्रभापृथिवीनैरयिकपृच्छायां भगवानाह-गौतम ! शीतां वेदनां वेदयन्ते, नोष्णां नापि शीतोष्णां; तत्रत्यानां सर्वेषामुष्णयोनित्वात, योनिस्थानव्यतिरेकेण चान्यस्य सर्वस्थापि नरकभूम्यादेर्भ, हाहिमानीप्रख्यत्वात, एवं तमस्त-माप्रभापृथिवीनरयिका अपि वक्तव्याः, नवरं परमां शीतवेदना वेदयन्ते इति वक्तव्यम्, तमःप्रभापृथिवीतः तमस्तमःप्रभापृथिव्यां शीतवेदनाया अतिप्रबलत्वात् / सम्प्रति भवानुभवप्रतिपादनार्थमाह- 'रयणे' त्यादि, रत्नप्रभापृथिवीनैरयिका भदन्त! कीदृशं नरकभवं प्रत्यनुभवन्तः प्रत्येक वेदयमानाः विहरन्ति-अवतिष्ठन्ते ? भगवानाह- गौतम ! रत्नप्रभापृथिवीनरयिका नित्यसर्वकालं क्षेत्रस्वभावजमहानि-बिडान्धकारदशनतो भीताः, सर्वत उपजातशत्वात्, तथा नित्यं सर्वकालं स्वत एवग्रेऽपि त्रस्ताः-परमाधार्मिकदेवपरस्परोदीरितदुःखसंपातभयात्रासमुपपन्नाः, तथा नित्यं सर्वकालं परमाधार्मिकैः परस्परं वा त्रासिताःत्रासंग्राहिताः, तथा नित्यमुद्विग्नाः यथोक्तरूपदुःखानुभवतस्तद्गतावासपराङ्मुखचित्ताः तथा नित्यं - सर्वकालम्, उपप्लुताः उपप्लवेनोपेता नतुमनागपि रतिमासादयन्ति, एवं नित्यंसर्वकाल परममशुभम् अतुलम् - अशुभत्वेनानन्यसदृशम् अनुबद्धम् - अशुभत्वेन निरन्तरमुपचित निरयभवं प्रत्यनुभवन्तः - प्रत्येक वेदयमाना विहरन्ति, एवं पृथिव्यां पृथिव्यां तावद्वक्तव्यं यावदधः सप्तमी। अस्यां चाधः सप्तम्यां क्रूरकर्माणः पुरुषा उत्पद्यन्ते नान्ये, तथा चास्यैवार्थस्य प्रदर्शनार्थ पञ्च पुरुषान उपन्यस्यति- 'अहे सत्तमाए ण' मित्यादि, अधः सप्तभ्या पृथिव्यामप्रतिष्ठाने नरके इभे अननन्तरवक्ष्यमाणस्वरूपाः पञ्च महापुरुषाः अनुत्तरैः सर्वोत्तमप्रकर्षप्राप्तः दण्डसमादानैः समादीयतं कर्म एभिरिति समादानानिकर्मोपादानहेतवः दण्डा एवमनोदण्डादयः प्राणव्यपरोपणाध्यवसायरूपाः समादानानिदण्दसमादानानितैः कालमासे कालं कृत्वोत्पन्नाः तद्यथा-रामोजमदग्निसुतः; परशुराम इत्यर्थः, दाढादालः-छातीसुतः (जी०) (वसूराजवृत्तम् 'वसूवरिचर' शब्देऽस्मिन्नेव भागे उक्तम् / ) / सुभूमोऽष्टमश्चक्रवर्ती, कौरव्यः-कौरव्यगोत्रो ब्रह्मदत्तश्चुलनीसुतः 'तेणं तत्थ वेयणं वेयती' त्यादित परशुरामादयस्तत्र-अप्रतिष्ठाने नरके वेदनां वेदयन्ते उजवला यावद् दुरध्यासामिति प्राग्वत् / सम्प्रति नरकेषष्णवेदनायाः स्वरूपमभिधित्सुराह -- “उसिणवेदणिज्जेसुणं भंते!' त्यादि / उष्णवेदनेषुणमिति पूर्ववत्, भदन्त ! नरकेषु नैरयिकाः कीदृशीमुष्णवेदना प्रत्यनुभवन्तः- प्रत्येक वेदयमाना विहरन्ति ? भगवानाह-गौतम ! स यथानामक:-अनिर्दिष्टनामकः कश्चित् कारदारकः - लोहकारदारकः स्यात, किंविशिष्ट ? इत्याह - तरुणः -- प्रवर्द्धमानवयाः, आह-दारकः प्रबर्द्धमानवयाः एव भवति ततः किमनेन विशेषणेन ? न आसन्नमृत्योः प्रवर्द्धमानवयस्त्वाभावात्, न ह्यासन्नमृत्युः प्रवर्द्धमानवया भवति, नच तस्य विशिष्टसामर्थ्यसम्भवः आसन्नमृत्युत्वादेव, विशिष्टसामर्थ्य - प्रतिपादनार्थश्चैष आरम्भस्ततोऽर्थवद्विशेषणम्। अन्ये तु व्याचक्षते-इह यगव्यं विशिष्टवर्णादिगुणोपेतमभिनवं च तत्तरुणमिति लोके प्रसिद्ध, यथा तरुणमिदमश्वत्थपत्रमिति, ततः स करिदारकस्तरुण इति / किमुक्तं भवति ? अभिनवो विशिष्टवर्णादिगुणोपेतश्चेति, बलंसामर्थ्य तदस्यास्तीति बलवान्, तथा युगं-सुषमदुषमादिकालः सस्वेन रूपेण यस्यास्ति न दोषदुष्टः स युगवान् / किमुक्तं भवति? कालोपद्रवोऽपि सामर्थ्यविघ्नहेतुः स चास्य नास्तीति प्रतिपत्त्यर्थमेतद्विशेषणम्, युवा यौवनस्थः, युवावस्थायां हि बलातिशय इत्येतददुपादानम्, 'अप्पायंके इति अल्पशब्दोऽभाववाची अल्पः-सर्वथाऽविद्यमान आतङ्कोज्यरादियस्यासावल्पातङ्कः, 'थिरगहत्थे स्थिरौ अग्रहस्तौ यस्य स स्थिराग्रहस्तः, 'दढपाणिपायपासपिट्ठतरोरुपरिणए' इति दृढानिअतिनिविडचयापन्नानि पाणिपादपार्थपृष्ठान्तरो रूणि परिणतानि यस्य स दृढपाणिपादपार्श्वपृष्ठान्तरोरुपरिणतः, सुखादिदर्शनात्पाक्षिको निष्ठान्तस्य परनिपातः, तथधनमम्अतिशयेन निचितौ निबिडतरचयमापन्नौ बलिताविव बलितौ वृत्तौ स्कन्धौ यस्य सघननिचितबलितवृत्तस्कन्धः, 'चम्भट्ठगदुघणमुट्टियसमाहयनिचियगायगत्ते' चर्मेष्टकेन द्रुघणेन मुष्टिकया च-मुश्या च समाहत्य ये निचितीकृतगात्रास्ते चर्मेष्टकद्रुघणमुष्टिकसमाहतनिचितगात्रास्तेषामिव गात्रं यस्य च चर्मेष्टद्रुघणभुष्टिकसमाहतनिचितगात्रगावः, 'उरस्सबलसम-नागए' इति उरसि भवमुरस्यंत तलंच उरस्यबलंतच्च समन्वागतः-समनुप्राप्तः समनुप्राध- उरस्यबलसभन्वागतः, आन्तरोत्साहवीर्ययुक्त इति भावः 'तलजमलजुयलबार इति, तलौतालवृक्षौ नयोर्यमलयुगलंसमश्रणीकं युगलं तलयमलयुगलं, तद्वदतिसरलौ पीवरौ च बाहूयस्य सतलय-मलयुगलबाहुः, 'लंघणपवणजवणपमद्दणसमत्थे' इति, लङ्घने जतिक्रमणे प्लवनेमनाक् पृथुतरविक्रमगतिगमने जवनेअतिशीघ्रगतौ प्रमर्दनकठिनस्यापि वस्तुनश्चूर्णनकरणे समर्थः लखनप्लवनजवनप्रमर्दनसमर्थः, कचित् 'लंघण-पवणजणवायामणसमत्थे' इति पाठस्तत्र व्यायामने-व्यायामकरणे इति व्याख्येयम्, छेकः-द्वासप्ततिकलापण्डितः दक्षः- कार्याणामविलम्बितकारी, प्रष्ठःवाग्मी कुशलः-सम्यक्रियापरिज्ञानवान् मेधावीपरस्पराव्याहतपूर्वापरानुसन्धानदक्षः, अत एव 'निपुणसिप्पोवगए' इति निपुणं यथा भवति एवं शिल्पंक्रियासु कौशलमुपगतः- प्राप्तो निपुणशिल्पोपगतः एकं महान्तमयस्पिण्डा उदक्वार-कसमान लघुपानीयघटसमानंगृहीत्वा तमम्अयस्पिण्ड