________________ वेमाणिय 1435 - अभिधानराजेन्द्रः - भाग 6 वेमाणिय शरीरावगाहना प्रज्ञप्ता ? भगवानाह– गौतम ? गैवेयकदेवानामेक भवधारणीयं शरीरं प्रज्ञप्तं न तूत्तरवैक्रियं, शक्तौ सत्यामपि प्रयोजनाभावात्तदकरणात, तदपि च भवधारणीयं जघन्यतोऽड्गुलासंख्येयभागमात्रमुत्कर्षता द्वौ रत्नी। एवमनुत्तरोपपातसूत्रमपि वक्तव्यं, नवरमुत्कर्षत एका रत्न रेति वाच्यम्। सम्प्रति संहननमधिकृत्याह-- 'सोहम्मी' त्यादि, सौधर्मेशानयोर्भदन्त ! कल्पयोर्देवानां शरीराणि किंसंहननानि कि संहननं येषां तानि तथा प्रज्ञप्तानि ? भगवानाह- गौतम ! पण्णां संहननानामन्यतमेनापि संहननेनासहननानीति, संहननस्याऽस्थिरचनात्मकत्वात ताषा चाऽस्थ्यादीनामसम्भवाता तथा चाह-'नेवऽदी' इत्यादि, नैवास्थि रोषां शरीरेषु नापि शिराग्रीवाधमनि पि स्नायूंषि शेष शिराजालग, किन्तु - ये पुद्गला इष्टाः कान्ताः प्रिया मनोज्ञा मनआपतरा एतेषां व्याख्यान प्राग्वत्, ते तेषां सङ्घाततया परिणमन्ति, ततः संहननाभावः एवं तावद्वाच्यं यावदनुत्तरोपपातिकानां देवानाम्। सम्प्रति संस्थानप्रतिपादनार्थमाह- 'सोहम्मीसाणेसु' इत्यादि प्रश्नसूत्रं सुगमम् / भगवानाह.. गौतम ! तेषां शरीरकाणि द्विविधानि प्रज्ञप्तानि, तद्यथाभधारणीयानि, उत्तरवैक्रियाणि च / तत्र यद् भवधारणीयं तत्समचतुरखसंस्थानसंस्थित प्रज्ञप्तं देवाना भवप्रत्ययतः, प्रायः शुभनामकर्मोदयभावात् / तत्र यदुतरवैक्रिय तत नानासंस्थानसंस्थितं प्रज्ञप्त, तस्यच्छया निवर्त्यमानत्वात् / एवं तावद्वक्तव्यं यावदच्युतः कल्पः / 'गेविजगदेवाण' मित्यादि प्रश्नसूत्रं सुगमम् / भगवानाह- गौतम ! वयकदेवानामेकं भवधारणीयं शरीरं तच समचतुरस्त्रसंस्थानसंस्थित प्रज्ञप्तम्, एवमनुत्तरोपपातिसूत्रमपि / अधुना वर्णप्रतिपादनार्थमाह'सोहम्मी' त्या दे, सौधर्मेशानयोर्भदन्त ! कल्पयोर्देवानां शरीरकाणि कीदृशाने वर्णेन प्रज्ञापानि ? भगवानाह- गौतम ! कनकत्वग्युक्तानि, कनकत्वगिव र आमा-छाया येषां तानि तथा वर्णेन प्रज्ञप्तानि, उत्तप्तकनकवर्णानीति भावः, एवं शेषसूत्राण्यपि भावनीयानि, नवरं सनत्कुमारमाहेन्द्रयोर्ब्रह्मलोकेऽपि च पापक्ष्मगौराणि, पाकेसरतुल्यावदातवर्णानीति भावः ततः पर लान्तकादिषुयथोत्तरं शुक्लशुक्लतरशुक्लतमानि, अनुत्तरोपपातिना परमशुक्लानि, उक्तश-"कणगत्तयरत्ताऽऽभा, सुरवसभर दोसु होति कप्पेसु / तिसु होति पम्हगोरा, तेण पर सुकिला देवा।।।।" सम्प्रति गन्धप्रतिपादनार्थमाह-'सोहम्मी' त्यादि प्रश्नसूत्र सुगमम्। भगवानाह-गौतम ! से जहानामए-कोट्टपुडाण वा' इत्यादि, विमानवद्भावनीयम्, एवं तावद्वक्तव्यं यावदनुत्तरोपपातिनाम् / सम्प्रति स्पर्शप्रतिपादनार्थमाह- 'सोहम्मीत्यादि, सौधर्मेशानयोर्भदन्त ! कल्पयार्देवानां शरीरकाणि कीदृशानि स्पर्शेन प्रज्ञप्तानि ? भगवानाहगौतम : 'थिरगउयणिद्धसुकुमाला फासेणं पण्णत्ता' इति स्थिराणि न तु मनुष्याणामिव विशरारभाव विभाणानि मृदूनि-अकठिनानि स्निग्धानिस्निग्धच्छायानि नतु क्षाणि सुकुमाराणि न तु कर्कशानितता विशेषणसमासः, स्पर्शन प्रज्ञप्तानि, एवं तावद्वक्तव्यं यावदनुत्तरोपपातिनां देवानां शरीरकाणि / साम्प्रतमुच्छ्वासप्रतिपादनार्थमाह - 'सोहम्मी' त्यादि, सोधर्मेशानयोर्भदन्त कल्पयोर्देवानां कीदृशाः पुद्गला उच्छ्वासतया | परिणमन्ति? भगवानाह-गौतम ! ये पुद्गलाः इष्टाः कान्ताः प्रिया मनोज्ञा भनआपा एतेषां व्याख्यानं प्राग्वत्, ते तेषामुछ्वासतया परिणमन्ति। एवं ताबद्वाच्यं यावदनुत्तरोपपातिका देवाः / एवमाहारसूत्राण्यपि। सम्प्रति लेश्या प्रतिपादनार्थमाह- 'सोहम्मी' त्यादि, सौधर्मशानयोर्भदन्त ! कल्पयोर्देवानां कति लेश्याः प्रज्ञप्ताः ? भगवानाह-गौतम ! एका तेजोलेश्या, इदं प्राचुर्यमङ्गीकृत्य प्रोच्यते, यावता पुनः कथञ्चित्तथाविधद्रव्यसम्पर्कतोऽन्यापि लेश्या यथासम्भवं प्रतिपत्तव्या। सनत्कुमारमाहेन्द्रविषयं प्रश्नसूत्रं सुगमम् / भगवानाह– गौतम ! एका पद्मलेश्या प्रज्ञप्ता, एवं ब्रहालोकेऽपि, लान्तके प्रश्नसूत्र सुगमम्। निर्वचनं-गौतम ! एका शुक्ललेश्या प्रज्ञप्ता, एवं यावदनुत्तरोपपातिका देवाः। उक्तं च''किण्हा नीलाकाऊ, तेऊलेसा य भवणवंतरिया। जोइससुहम्मिसाणा, तेऊलेसा मुणेयव्वा / / 1 / / कप्पे सणकुमारे, माहिंदे चेव बंभलोए य। एएसु पाहलेसा, तेण परं सुक्कलेसा उ॥२॥'' सम्प्रति दर्शनं चिचिन्तयिषुराह-- 'सोहम्मी' त्यादि, सौधर्मेशानयोर्भदन्त ! कल्पयोर्देवा णमिति वाक्यालडारे किं सम्यगदृष्टयो मिथ्यादृष्टयः सम्यग्मिथ्यादृष्टयः? भगवानाह-- गौतम / सभ्यगदृष्टयोऽपि मिथ्यादृष्टयोऽपि सम्यग्मिथ्यादृष्टयोऽपि / एवं यावद् गैवेयकदेवाः, अनुतरोपपातिनः सम्यग्दृष्टय एव वक्तव्याः न मिथ्यादृध्यो नापि सम्यग्मिथ्यादृष्टयः तेषां तथास्वभावत्वात्। सम्प्रति ज्ञानाज्ञानचिन्ता चिकीर्षुराह- सोहम्मी' त्यादि प्रश्नसूत्र सुगम-म् / भगवानाह- गौतम / ज्ञानिनोऽप्यज्ञानिनोऽपि, तत्र ये ज्ञानिनस्ते नियमात्त्रिज्ञानिनः, तद्यथा-आमिनिबोधिकज्ञानिनः श्रुतज्ञानिनोऽवधिज्ञानिनः / ये अज्ञानिनस्ते नियमात् त्र्यज्ञानिनः, तद्यथामत्यज्ञानिनः, श्रुताज्ञानिनो, विभङ्गज्ञानिनश्च, एवं तावद्वाच्यं यावद गैवेयकाः / अनुत्तरोपपातिनो ज्ञानिन एव वक्तव्याः / योगसूत्राणि पाठसिद्धानि। सम्प्रत्यवधिक्षेत्रपरिमाणप्रतिपादनार्थमाहसोहम्मीसाणदेवा ओहिणा केवतियं खेतं जाणंति पासंति? गोयमा ! जहणणेणं अंगुलस्स असंखेजतिभागं उक्कोसेणं अवही० जाव रयणप्पभापुढवी, उड्ढ० जाव साइं विमाणाई तिरियं० जाव असंखेज्जा दीवसमुद्दा एवं"सक्कीसाणा पढम, दोचं च सणंकुमारमाहिंदा। तचं च बंभलंतग-सुक्कसहस्सारगचउत्थी।।१।। आणयपाणयकप्पे, देवा पासंति पंचमिं पुढविं। तं चेव आरणचुय, ओहीनाणेण पासंति // 2 // छट्टि हेडिममज्झिम-गेवेज्जा सत्तमिं च उवरिल्ला। संभिण्णलोगनालिं, पासंति अणुत्तरा देवा // 3 // (सू०२१६) 'सोहम्मी' त्यादि सौधर्म शानयोर्भदन्त ! कल्पयोर्देवाः कियत्क्षे त्रमवधिना जानन्ति ज्ञानेन, पश्यन्ति दर्शनेन ? भ