________________ वुड्डावास 1415 - अभिधानराजेन्द्रः - भाग 6 वुड्डावास पालयित्वा द्वादश वर्षाण्यव्यवच्छित्तिं कुर्वता यदि शिष्यो निष्पादितस्ततस्तंगणे स्थापयित्वा स्वयमभ्युद्यतविहारेण विहर्तव्यमिति भगवतामहतामुपदेशः। अथ न कोऽपि शिष्यो निष्पन्नस्तर्हि गच्छः परिवर्द्धनीयः, तथा यद्यपि च न निष्पन्नः कोऽपि शिष्यस्तथापि कश्चिदसमर्थो भवत्यभ्युद्यतविहारेण विहर्तुं सोऽपि नाभ्युद्यतविहारं प्रतिपद्यते, तस्य शिष्यनिष्पत्त्य-भावेनाभ्युद्यतविहारप्रतिपत्त्यशक्त्या वा गच्छं परिपालयतो दीर्घाऽऽयुषो वृद्धवासस्य कालः। एनामेव गाथां व्याख्यानयतिसुत्तागमों बारसमा-चरियं देसाण दरिसणं तु गतं / उवकरणदेहइंदिय-तिविहं पुण लाघवं होइ॥५३१॥ विघा नाम-सूनागमः स द्वादश वर्षाणि यावत्, तदुप-लक्षणमेतदर्थागमोऽपि विद्या सोऽपि द्वादश वर्षाणि कृतः, तथा चरितं नाम देशानां दर्शनं तदपि द्वादश वर्षाणि कृतम्। लाघवं पुनस्त्रिविध भवति। तद्यथाउपकरणलाघवं, देहलाघवम्, इन्द्रियलाधवं च। तत्रोपकरणलाघवम्उपधेरल्पोकरणं यदतिरिक्तमुधकरण नगृह्णाति गृहीतं वाऽरक्तद्विष्टः सन् सूत्रोक्तविधिनापरिभुङ्क्ते, देहलाघवं यन्नातिकृशो नातिस्थूलः, शरीरेण, इन्द्रियलाघवम्- यदीन्द्रियाणि तस्य वशे वर्तन्ते। चउत्थ छट्ठादितवो, कतो उऽवोच्छित्तीऍ होइ सिद्धिपहो। सुत्तविहीए संजम, वुड्डो अह दीहमाइं तु 11532 / / तपश्चतुर्थषष्ठादिकं कृतं तथा अव्यवस्थितौ क्रियामाणायां सिद्धिपथोमोक्षमार्गो देशितो भवति, तथा सूत्रविधिना संयमः परिपालितः स च जातो वृद्धोऽप्यथ दीर्घमायुः।। अब्भुजतमत एंतो, अगीतसिस्सो व गच्छपडिबद्धो। अच्छति जुन्नमहल्लो, कारणतो वा अजुण्णोऽवि // 533 / / अभ्युद्यतविहारमशवनुवन् अगीताः शिष्या अद्यापि यस्यासौ वा, गच्छप्रतिबद्धोगच्छपरिपालनप्रवृत्तः सन् जीर्णो महान् वृद्धवासे तिष्ठति। अजीर्णोऽपि वा-तरुणोऽपि वा कारणतः क्षीणजङ्घाबलतया रोगादिना वा वृद्धावासमुपसवते। तदेव कारणजातं गाथाद्वयेनाहजंघाबले व खीणे, गेलन्न सहाय ताव दुब्बल्ले। अहवाऽवि उत्तमढे, निप्फत्ती चेव तरुणाणं / / 534|| खेत्ताणं च अलंभे, कयसलेहेव तरुणपरिकम्मे / एएहिं कारणेहिं, वुड्डावासं वियाणाहि।।५३५।। जङ्काबलं वा क्षीणं, ग्लानत्वं वा तस्यान्यस्य वा जातम्, असहायता वा समुत्पन्ना दौर्बल्यं वा शरीरस्योपजातम्, अथवा-उत्तमार्थप्रतिपन्नः, अथवा--तरुणानामात्मपरलक्षणानां निष्पत्तिः सूत्रतोऽर्थतव कर्तव्या। क्षेत्राणां वा संयमस्फीतिहेतूनामलाभः। कृतसंलेखो वा-प्रतिपन्नसंलेखनाको वर्तते। यदि वा–तरुणस्यरोगविमुक्तस्य सतः प्रतिकर्म बलविवृद्धिकरणं समारब्धं ततो वृद्धावासः / तथा चाह-एतैः कारणैर्वृद्धावासं विजानीहि। तत्र प्रथमद्वारे-जवाबलं परिक्षीणमित्येवरूपं कियत क्षेत्र कियत कालेन गन्तुं शक्नुवन विहरणा) भवति। कियद्वा अशक्नुवन जङ्घाबलपरिक्षीण इत्येतत्प्रतिपादयतिदोण्णि वि दाऊण दुवे, सुत्तं दाऊण अत्थवजं च। दोण्णी दिवड्डमेगं, तु गाउ तंतीसु अणुकंपा / / 536 / / द्वे पौरुष्यो--सूत्रपौरुषी, अर्थपौरुषी चेत्यर्थः / दत्त्वा यावद्भिक्षावेला भवति तावद्यो द्वे गव्यूते व्रजति एष सपराक्रमो विहर्तुम् / 'सुत्तं दाऊण अत्थवज चे तिसूत्रं सूत्रपौरुषीं दत्त्वा अर्थवर्जम्-- अर्थपौरुषीमदत्त्वा यो भिक्षावेलातः अर्वाग्वे गव्यूते व्रजति सोऽपि सपराक्रमो विहर्तुम्। चशब्दोउनुक्तसमुचयार्थः। स चैतत् सूत्रपौरुषीमर्थपौरुषी वा दत्त्वा भिक्षावेलात आरतोयो द्वे गव्यूतेयाति एषोऽपि सपराक्रमो विहर्तुमिति। एवमेते त्रयः प्रकारा गव्यूतद्वयेऽभिहिताः। एते एव त्रयः प्रकारा व्यर्द्धगव्यूते, अयश्च प्रकारागट्यूते द्रष्टव्याः। एतेषुच त्रिष्वपि द्विकद्व्य-गव्यूतरूपेषु तस्यानुकम्पा विश्रामणादिरूपा वक्ष्यमाणा कर्तव्या। संप्रतिचशब्दसूचितं तृतीयं प्रकारमुपदर्शयतिखेत्तेण अद्धजोयण, कालेणं जाव भिक्खवेलाओ। खेत्तेण य कालेण य, जाणसु सपरक्कम थेरं / / 537 / / सूत्रपौरुषीमर्थपौरुषी वा कृत्वा कालतः प्रातर्वेलात आरभ्य यावद् भिक्षावेला भवति, तावत्यः क्षेत्रतोऽर्खयोजन गव्यूतद्वयप्रमाणं व्रजति त जानीत, क्षेत्रतः कालतश्च सपराक्रम स्थविरम् / तदेवं गव्यूतद्वयविषये चशब्दसूचितः तृतीयः प्रकारः / प्रकारत्रयदर्शिता एवंद्वयर्द्धगव्यूतेगव्यूतेऽपि च द्रष्टय्याः / तथा चैतदर्थख्यापनार्थमेव गव्यूतविषयं तृतीयं प्रकारमाहजो गाउयं समत्थो, सूरादारभ मिक्खवेलाओ। विहरउ एसो सपर-क्कमो उनो विहरते ण परं / / 538|| यः सूरात्-सूरोद्गमादारभ्य यावद्भिक्षावेला भवति तावत् गव्यूतं गन्तुं समर्थ एषोऽपि सपराक्रम इति विहर्तुम् / ततः परं गव्यूतमिति तावता कालेन गन्तुमशक्तो विहरेत्। इदमुक्तम्-त्रिष्वपि गव्यूतद्वयादिष्वनुकम्पा कर्तव्येति। तत्र तामेवानुकम्पामाहवीसामण उवगरणे, भत्ते पाणे व लंबणे चेव! गाउयदिवड्डदोसु, अणुकंपेसा तिसु होइ / / 536 / / अन्तराऽन्तरा यत्र विश्रमणार्थ तिष्ठति तत्र विश्राम्यते, उपकरणेउपकरणविषये अनुकम्पा कर्त्तव्या, यत्तस्योपकरणं तदन्ये वहन्ति, यैश्च तस्य शीतं न भवति तादृशानि वस्त्राणि देयानि / तथा भक्तं पानं न तत्प्रायोग्यं शुद्धं न लभ्यते. तदा पञ्चकपरिहाण्या तदुत्पादनीयम् / यत्र च विषमं तत्र बाहुप्रदानादिनाऽवलम्बनं कर्त्तव्यम् / चशब्दात्-स तेन कालेनोचालनीयो यस्मिन्नुष्णादिभिर्न परिताप्यते। एषाऽनुकम्पा त्रिषुगव्यूतद्व्यर्द्ध-गव्यूत-द्विगव्यूतेषु भवति--ज्ञातव्या। अथवा-त्रिष्वनुकम्पेति प्रकारान्तरेण व्याख्यानयतिअहवा आहारोवहि, सेज्जा अणुकंप एस तिविहो उ। पढमालियाण विस्सा-मणादि उवही य बोधव्वा / / 540 / /