________________ वीरिय 1401 - अमिधानराजेन्द्रः - भाग 6 वीरिय काजघन्याद्योगस्थानादारभ्य क्रमेण यानि योगस्थानानि श्रेण्यं - संख्येयभागगतप्रदेशराशिप्रमाणानि तान्युत्कर्षतश्चतुरः समयान् यावदवस्थितानि प्राप्यन्ते। ततः परं यानि योगस्थानानि श्रेण्यसंख्येयभागगतप्रदेशराशिप्रमाणानि तान्युत्कर्षतः पञ्च समयान्, ततः परं यानि योगस्थानानि पूर्वोक्तप्रमाणानि तान्युत्कर्षतः षट् समयान, ततोऽपराणि यानि योगस्थानानि पूर्वोक्तप्रमाणानि तान्युत्कर्षतः सप्त समयान, ततोऽपि पराणि क्रमेण योगस्थानानि पूर्वोक्तसंख्याकानितान्युकर्षतोऽष्टी समयान, ततः पराणि पुनानि क्रमेण योगस्थानानि श्रेण्यसंख्येयभागगतप्रदेशराशिप्रमाणान्येव तान्युत्कर्षतः सप्त समयान यावदयस्थितानि प्राप्यन्ते। तदनन्तरं यथोक्तसंख्याकान्येव योगस्थानान्यूत्कर्षतः षट् समयान्, ततोऽपि पराणि यथोक्तप्रमाणान्येव योगस्थानानि पञ्च समयान, एवं तावद्वाच्ययावदन्तिमानि श्रेण्यसंख्येयभागगतप्रदेशराशिप्रमाणान्युत्कर्षतो द्वौ समयौ यावदवस्थितानि प्राप्यन्ते / / 12 / / तदेवमुक्तमुत्कृष्टमवस्थानकालमानम् / सांप्रतं जघन्यमवस्थानकालमानमाहएगसमयं जहन्नं,ठाणाणप्पाणि अट्ठसमयाणि। उभओ असंखगुणिया-णि समयसो ऊणठाणाणि / 13 / / सर्वेषामुक्तस्वरूपाणां योगस्थानाना जघन्यत एकसमयं यावदवस्थानम् / तथा यान्यप्यपर्याप्तसूक्ष्मनिगोदयोग्यान्यसंख्येयानि योगस्थानानि पूर्वमनुक्तकालनियमानि तेषां जघन्यत उत्कर्षती वा एक समय यावदवस्थानमः यतः सर्वोऽप्यपर्याप्तोऽपर्याप्तावस्थायां वर्तमानः प्रतिसमयमसंख्येयगुणरूपया योगवृद्ध्या वर्तते, ततस्तद्योगस्थानानामजघन्योत्कृष्टकमेकमेव समयं यावदवस्थानम्। तदेवमुक्ती समयप्ररूपणा / / सांप्रतमेतेषामेव चतुरादिसमयानां योगस्थानानामल्पबहुत्वमाह-'ठाणाणी' त्यादि। अष्टसामयिकानि स्थानानि योगस्थानानि, अल्पानि शेषसप्तसामयिकादियोगस्थानानि प्रतीत्य स्तोकान्येय प्राप्यन्ते इति कृत्वा, तेभ्यः प्रत्येकसमयमसंख्येयगुणानि पूर्वोत्तररूपोभयपार्श्ववर्तीनि सप्तसामयिकानि, अल्पतरस्थितिकत्वात, स्वस्थाने तुतानि द्वयान्यपि परस्परं तुल्यानि / तेभ्योऽप्यसंख्येयगुणानि उभयपाववतीनिषट्सामयिकानि, स्वस्थाने तु परस्परं तुल्यानि। तेभ्योऽप्यसंख्येयगुणानि पञ्च सामयिकानि उभयपार्श्ववर्तीनि, स्वस्थाने तु परस्पर तुल्यानि। तेभ्योऽप्यसंख्येयगुणानि चतुःसामयिकानि उभयपार्श्ववलीनि, स्वस्थाने तु परस्परं तुल्यानि / तेभ्योऽप्यसंख्येयगुणानि त्रिसामयिकानि; तेभ्योऽप्यसंख्येयगुणानि द्विसामयिकानि। 'समयसो ऊणठाणाणि' ति समयशः समयेन समयेन ऊनानि अष्टसामयिकेभ्यो व्यतिरिक्तानि सप्तसामयिकादीनि स्थानानि योगस्थानानि / / 13 / / तदेवमुक्तं चतुरादिसमयानां योगस्थाना-नामल्पबहुत्वम। संप्रति तेषु योगस्थानेषु वर्तमानानां सूक्ष्मबादरैकेन्द्रियद्वीन्द्रिय- | त्रीन्द्रियचतुरिन्द्रियाऽसज्ञिसंज्ञिपञ्चेन्द्रियाणां पर्याप्ता-पर्याप्तानां जधन्योत्कृष्टयोगविषयेऽल्पबहुत्वमभिाधेित्सुराह-- सव्वत्थोवो जोगो, साहारणसुहमपढमसमयम्मि। बायरवियतियचउरम-णसन्नपजत्तगजहन्नो // 14 // इहासंख्येयगुण इति उत्तरगाथातः संबध्यते। साधारणस्य सूक्ष्मस्य लब्ध्यपर्याप्तकस्य प्रथमसमये वर्तमानस्य जघन्यो योगः सर्वस्तोकः / ततो बादरैकेन्द्रियस्य लब्ध्यपर्याप्तकस्य प्रथमसमये वर्तमानस्य जघन्यो योगोऽसंख्येयगुणः / तत-स्वीन्द्रियस्य लब्ध्यपर्याप्तकस्य प्रथमसमये वर्तमानस्य जघन्यो योगोऽसंख्येयगुणः। ततो द्वीन्द्रियस्य लब्ध्यपर्याप्तकस्य प्रथमसमये वर्तमानस्य जघन्यो योगोऽसंख्येयगुणः / ततचतुरिन्द्रियस्य लब्ध्यपर्याप्तकस्य प्रथमसयमे वर्तमानस्य जघन्यो योगोऽसंख्येयगुणः। ततोऽसंज्ञिपञ्चेन्द्रियस्य लब्ध्यपर्याप्तकस्य प्रथमसमये वर्तमानस्य जघन्यो योगोऽसंख्येयगुणः / ततः संज्ञिपञ्चेन्द्रियस्य लब्ध्यपर्याप्तकस्य प्रथमसमये वर्तमानस्य जघन्योयोगोसंख्येयगुणः॥१४॥ आइदुगुक्कोसो सिं, पज्जत्तजहन्नगेयरे य कमा। उक्कोसजहनियरो, असमत्तियरे असंखगुणो।।१५।। आदिद्विकमपर्याप्तसूक्ष्मबादरैकेन्द्रियलक्षणं तस्योत्कृष्टो योगः परिपाट्याऽसंख्येयगुणो वक्तव्यः / तद्यथा-लब्ध्यपर्याप्तकसंज्ञिपञ्चेन्द्रियजघन्ययोगात् सूक्ष्मनिगोदस्य लब्ध्यपर्याप्तकस्यैवोत्कृष्टो योगोऽसंख्येयगुणः। ततोऽपि बादरैकेन्द्रियस्य लब्ध्यपर्याप्तकस्योत्कृष्टोऽसंख्येयगुणः / 'सिं पज्जत्तजहन्नगेयरे य कमा' अनयोः सूक्ष्मबादरैकेन्द्रिययोः पर्याप्तयोर्जघन्य इतरश्वोत्कृष्टः क्रमात् क्रमेणासंख्येयगुणी वक्तव्यः / तद्यथा-लब्ध्यपर्याप्तकबादरैकेन्द्रियोत्कृष्टयागात् सूक्ष्मनिगोदस्य पर्याप्तस्य जघन्यो योगोऽसंख्येयगुणः। ततो बादरैकेन्द्रियस्य पर्याप्तकस्य जघन्ययोगोऽसंख्येयगुणः / ततः सूक्ष्मनिगोदस्य पर्याप्तस्योत्कृष्टो योगोऽसंख्येयगुणः। ततोऽपि बादरैकेन्द्रियस्य पर्याप्तस्योत्कृष्टा योगोऽसंख्येयगुणः / 'उक्कोसजहन्नियरो असमत्तियरे असंखगुणो' त्ति असमाप्तोऽपर्याप्तो द्वीन्द्रियादिस्तस्मिन्नुत्कृष्ट इतरस्मिश्च पर्याप्त द्वीन्द्रियादौ जघन्य इतरश्चोत्कृष्टः परिपाट्याऽसंख्येयगुणो वक्तव्यः / तद्यथा--पर्याप्तक-बादरैकेन्द्रियोत्कृष्टयोगात्द्वीन्द्रियस्य लब्ध्यपर्याप्तकस्योत्कृष्टो योगोऽसंख्येयगुणः। ततस्त्रीन्द्रियस्य लब्ध्यपर्याप्तकस्योत्कृष्टो योगोऽसंख्येयगुणः। ततश्चतुरिन्द्रियस्य लब्ध्यपर्याप्तकस्योत्कृष्टो योगोऽसंख्येयगुणः / ततोऽसंज्ञिपञ्चेन्द्रियस्य लब्ध्यपर्याप्तकस्योत्कृष्टो योगोऽसंख्येयगुणः। ततोऽपि संज्ञिपञ्चेन्द्रियस्य लब्ध्यपर्याप्तकस्योत्कृष्टो योगोऽसंख्येयगुणः / ततो द्वीन्द्रियस्य पर्याप्तकस्य जघन्यो योगोऽसंख्येयगुणः / ततस्त्रीन्द्रियस्य पर्याप्तकस्य जघन्यो योगोऽसंख्येयगुणः / ततश्चतुरिन्द्रियस्य पर्याप्तकस्य जघन्यो योगोऽसंख्येयगुणः। ततोऽसंज्ञिपञ्चेन्द्रियस्य पर्याप्तकस्य जघन्यो योगोऽसंख्येयगुणः। ततः संज्ञिपञ्चेन्द्रियस्य पर्याप्तकस्य जघन्यो योगोऽसंख्येयगुणः / ततो द्वीन्द्रियस्य पर्याप्तकस्योत्कृष्टो योगोऽसंख्येयगुणः / ततस्त्रीन्द्रियस्य पर्याप्तकस्योत्कृष्टो योगोऽसंख्येयगुणः / ततोऽपि चतुरिन्द्रियस्य पर्याप्तकस्योत्कृष्टो योगोऽसंख्येयगुणः / पर्याप्तकाश्च सर्वत्रापि करणपर्याप्ता वेदितव्याः॥१५॥