________________ वीर 1366 - अभिधानराजेन्द्रः - भाग 6 वीर टेनोपमाइअव्वं' इत्यादि उक्त्वा वन्दित्वा नमस्कृत्य एकतोऽपक्रामति। ततश्च भगवान् एकया मुष्ट्या कूर्य, चतुसृभिश्च ताभिः शिरोजान्, एवं 'सयभेव पंचमुट्टियं लोयं करेइ' स्वयमेव पञ्चमौष्टिकं लाचं करोति / (कल्प०१ अधि०५ क्षणा) (20) शक्रश्च देवराजो हंसलक्षणेन पटशाटकेन केशान् प्रतीच्छति भगवतामुपरि देवदूष्यवस्त्र च स्थापयतिजिणवरमणुन्नवित्ता, अंजणघणरुयगविमलसंकासा। केसाखणेण नीया, खीरसरिसनामयं उदहिं / / 107 / / शक्रेण जिनवरं भगवन्तं वर्द्धमानस्वामिनमनुज्ञाप्य अञ्जनं प्रसिद्ध धनो-मेघः रुचकः- कृष्णमणिविशेषः तेषामिव विमलः संकाशःछायाविशेषो येषां ते अञ्जनघनरचकविमलसंकाशाः, के ते इत्याहकेशाः किं क्षणेन नीताः क्षीरसदृशनामानमुदधिं; क्षीरोदधिमित्यर्थः / आ०म०१ अ०। 'करित्ता तथा कृत्वा च 'छट्टेणं भत्तेण अपाणएणं' षष्ठेन भक्तेन अपानकेन हत्थुत्तराहिं नक्खतेण चंदण जोगमुवागएणं' उत्तराफाल्गुन्या चन्द्रयोगे साते एगं देवदूसमादाय' शक्रेण वामस्कन्धे स्थापितम् एकं देवदूष्यमादाय एगे' एको रागद्वेषसहायविरहात्, 'अबीए' अद्वितीयः, यथाहि ऋषभश्चतुःसहस्य राज्ञा, मल्लिपावो त्रिभिस्त्रिभिः शतैर्वासुपूज्यः षट्शत्या शेषाश्च सहस्रेण सह प्रव्रजितास्तथा भगवान् न केनापि सहेत्यतः अद्वितीयः, 'मुंडे भवित्ता' द्रव्यतः शिर:कूर्चलोचनेन भावतः क्रोधाद्यपनयनेन मुण्डो भूत्वा अगाराओ अणगारियंपव्वइए' अगारात्गृहात निष्क्रम्य अनगारिता-साधुता प्रव्रजितः प्रतिपन्नः, तद्विधिश्वायमएवं पूर्वोक्तयकारेण कृतपञ्चमौष्टिकलोचो भगवान् यदा सामायिकम् उच्चरितुवाञ्छति तदा शक्रः सकलमपि वाद्यकोलाहलं निवारयति, ततः प्रभुः 'नमो सिद्धाण'' इति कथनपूर्वक 'करेमि सामाइअंसव्वं सावर्ज जोग पचक्खामी" त्यादि उच्चरतिनतु भंते ति भणति, तथाकल्पत्वात्। कल्प०१ अधि० 5 क्षण। चारित्रप्रतिपत्तिकाले स्वभावतो भुवनभूषणस्य भगवतः शक्रो देवदृष्य वस्त्रमुपनीतवान्। अत्रान्तरे कथानकम्- 'एगेण देवदूसेक पव्वइए तं जाहे असे करेइ एत्थंतरापि उवयं सो धिज्जाइतो उवहितो साय दाणकाले कहिं पियवागतेअल्लो पच्छा आगतो भञ्जाए अवाडिते सामिणा एवं दाणं दत्तं तुम पुण कहिं विहिंसिज्जाहिपुण एत्थंतरे विलभेजासि. ततो सो आगतो भणइ-जहा मम, सामी न किंचितुब्भेहिं दिन्न इयाणि पि देहि त्ति ताहे सामिणा तस्स दूसस्स अद्ध दिन्नं, सव्वं परिवत्तं ति अन्न मेनऽस्थि तेण तुन्नागरस उवणीयं, जहा एयस्स दसिया बंधाहि तेण पुच्छितो इमं कतो लद्ध, सो भणइ-भगवता दिन्नं, तुन्नागो भाइ--तंगि से अद्ध आणेहि, जया पडिहियं भयवतो अंसातो तो णं अहं तुन्नामि ताइ लक्खं मोल्लं भविस्सइ त्ति ता तुज्झ वि अखं, मज्झवि अद्ध पडिवन्नं ताहे पउलग्गित्तो सेसमुवरि भणीहामि। (21) तव्य भगवतश्चारित्रप्रतिपत्तिलमनन्तरमेवमनःपर्यायज्ञानमुदपादि सर्वतीर्थकृता वाऽयं क्रमो यत आह (भाष्यकारः)तिहिं नाणेहिँ समग्गा, तित्थयरा जाव होंति गिहवासे। पडिवन्नम्मि चरित्ते, चउनाणी जाव छउमत्था॥११०।। त्रिभिज्ञानः-- मतिश्रुतावधिभिः समग्राः- सम्पूर्णास्तीर्थकरा यावद् गृहावासे भवन्ति वसन्तीत्यर्थः,प्रतिपन्ने पुनश्चारित्रे चतुनिनो भवन्ति, कियन्तं कालं यावदित्याह-यावच्छयस्थास्तावचतुर्जानिनः। आ०म० १अ०। एवं च चारित्रग्रहणानन्तरमेव भगवतश्चतुर्थज्ञानमुत्पद्यते ततः शक्रादयो देवा भगवन्तं वन्दित्वा नन्दीश्वरयात्रां कृत्वा स्वस्व स्थानजग्मुः। कल्प० 1 अधि०५ क्षण / ततश्चतुनिो भगवान् बन्धुवर्गमापृच्छ्य च विहारार्थ प्रस्थितो' बन्धुवर्गोऽपि दृष्टिविषयं यावत् तत्र स्थित्वा"त्वया विना वीर ! कथं व्रजामो, गृहेऽधुना शून्यवनोपमाने, गोष्ठीसुखं केन सहाऽऽचरामो, भोक्ष्यामहे केन सहाऽथ बन्धो ! ||1|| सर्वेषु कार्येषु च वीरवीरे त्यामन्त्रणाद्दर्शनतस्तवाऽऽर्य !! प्रेमप्रकर्षादभजाम हर्ष, निराश्रयाश्वाथ कमाश्रयामः ||2|| अतिप्रियं बान्धवदर्शनं ते, सुधाञ्जनं भावि कदास्मदक्ष्णोः। नीरागचित्तोऽपि कदाचिदस्मान्, स्मरिष्यसि प्रौढगुणाभिराम ! ||3||" इत्यादि वदन् कष्टेन निर्वृत्य साश्रुलोचनः स्वगृहं जगाम। किञ्च-प्रभुर्दीक्षामहोत्सवे यद्देवैर्गोशीर्षचन्दनादिना पुष्पैश्च पूजितोऽभूत, साधिकमासचतुष्कं यावत् तदवस्थेन च गन्धेन आकृष्टा भ्रमरा आगत्य गाढ त्वचं दशन्ति, युवानश्च गन्धपुटी याचन्ते, मौनवति च भगवति रुष्टास्ते दुष्टानुपसर्गान-कुर्वन्ति, स्त्रियोऽपि भगवन्तम् अद्भुतरूपं तथा सुगन्धशरीरं च निरीक्ष्य कामपरवशा अनुकूलान् उपसर्गान् कुर्वन्ति, भगवाँस्तु निष्प्रकम्पः सर्व सहमानो विह-रति। तस्मिन् दिने च मुहूर्तावशेषे कुमारग्राम प्राप्तस्तत्र रात्रौ कायोत्सर्गेण स्थितः, इतश्च तत्र कश्चिद् गोपः सर्वं दिनं हले वृषान् वाहयित्वा सन्ध्यायां तान् प्रभुपायें मुक्त्वा गोदोहाय गृह गतः, वृषभास्तु चरितु गताः, स चागत्य प्रभुं पृष्टवान्- देवार्य ! क्व मे वृषाः ? अजल्पति च प्रभौ अयं न वेत्तीति वने विलोकितुंलग्नः, वृषास्तु रात्रिशेषे स्वयमेव प्रभुपार्श्वे आगताः, गोपोऽपि तत्रागतस्तान् दृष्ट्वा अहो ! जानताऽपि अनेन समग्रां रात्रिमहं भ्रामितः इति कोपात् सेहकमुत्पाट्य प्रहर्तुधावितः / इतश्च शक्रस्तं वृत्तान्तमवधिना ज्ञात्वा गोपं शिक्षितवान्। (22) अथ तत्र शक्रः प्रभुं विज्ञपयामास प्रभो ! तवोपसर्गा भूयांसः सन्ति, ततो द्वादश वर्ष यावत् वैयावृत्त्यनिमित्तं तवान्तिके तिष्ठामि, ततः प्रभुरवादीद्देवेन्द्र ! कदाप्येतन्न भूतं, न भवति न भविष्यति च / यत कस्यचिवेन्द्रस्य असुरेन्द्रस्य वा साहाय्येन तीर्थङ्कराः केवलज्ञानमुत्पाद-यन्ति, किन्तु-स्वपराक्रमेणैव केवलज्ञानमुत्पादयन्ति,