________________ विहार 1312- अभिधानराजेन्द्रः - भाग 6 विहार अतः एयारिसे विहारो,न कप्पई समणाण सुबिहियाणं। दो सीमेऽतिकमई, जिणसीमं रायसीमं वा // 640|| एतादृशे वैराज्ये विहारः श्रमणानां सुविहितानांन कल्पते, यस्तु करोति स द्वेसीमानावतिक्रामति, तद्यथा-जिनसीमानंन कल्पते वैराज्यसंक्रमणं कर्तुमिति लक्षणां, राज्यसीमानं-न कर्त्तव्यो मदीयराज्यात्परराज्ये गमाऽऽगम इति रूपाम्। किञ्चबंधं वहं च धोरं,णावज एरिसे विहरमाणे। तम्हाउविवशेषा, वेरमविरुद्धसंकमणं // 651|| बन्धो-निगडादिनियन्त्रणं, वधः-कशाघातादिः, घोरंभया-नकमीदृशे विहरमाणे यत आपद्यते तस्माद्वैराज्यसंक्रमणं विवर्जयेत्। अथ दितीयपदमाहदसणनाणे माता, भत्तविसोही गिलाणमायरिए। अधिकरणवादराय, कुलसंगतें कप्पती गंतुं // 642|| दश्रनार्थ वा वैराज्यसंक्रमणमपि कुर्यात् 'माय' तिमातापितरौ कस्याऽपि प्रव्रजितुकामस्य शोकेन मियेते 'भत्तविसोहि ति कश्चित्साधुभक्त प्रत्याख्यातुकामः स विशोधिमालोचनां दातुकामो गीतार्थस्य पार्वे गच्छेत्, अजङ्गमस्यतस्य पावें गीतार्था गच्छन्ति गिलाण' तिग्लानस्य वाप्रतिचरणार्थं प्रायोग्यौषधहेतवेवा गच्छेत् आयरिय' त्ति आचार्यसमीपे आचार्याणामादेशेन वा गच्छति 'अधिकरण' त्ति कस्यापि साधोः केनाऽपि गृहिणा सहाधिकरणमुत्पन्नं स च गृही नोपशाम्यति, ततः प्रज्ञापनालब्धिमान् तस्योपशमनाय गच्छति, 'वाद' ति-अन्यराज्ये परप्रवादी कश्चिदुत्थितस्तस्य निग्रहार्थ वादलब्धिसम्पन्नेन गन्तव्यं 'राय' ति राजा वा कश्चित् परराष्ट्रीयः साधूनामुपरि प्रद्विष्टस्तस्योपशमनार्थसलब्धिकेन गन्तव्यं कुलसंगते त्ति उपलक्षणत्वात् कुलगणसंघसङ्गतं किमपि कार्यमुत्पन्नं कुलादिविषयमित्यर्थः / अथवा-'राजकुलसंगत' त्ति एकमेव पदं राजकुलेन सह सङ्गतंबद्धं केनाऽपि साधुनाऽधिकृतं तदुपशमनाय गच्छति / एवमादिषु कार्येषु वैराज्येऽपि गन्तुं कल्पते। अथ दर्शनज्ञानपदद्वयं भाष्यकृयाख्यानयतिसुत्तत्थतदुभयविसा-रयम्मिपडिवों उत्तिमट्टम्मि। एतारिसम्मि कप्पड़, वेस्खविरुद्ध संकमणं / / 653|| दर्शनप्रभावकशास्त्राणामाचारादिश्रुतज्ञानस्य वा सम्बन्धि यदन्यत्राऽविद्यमानं सूत्रार्थत दुभयं तत्र विशारदः कश्चिदाचार्यः स चोत्तमार्थम् अनशनं प्रतिपन्नो; यस्मिश्च क्षेत्रेऽसौ स्थितस्तत्रापान्तराले वा वैराज्य वर्तते, तौ च सूत्रार्थी मा व्यवच्छेदं प्रापतामिति कृत्वा एतादृशे कारणे वैराज्यविरुद्ध संक्रमणं कर्तुं कल्पते। अथ येन विधिना तत्र गन्तव्यं तमभिधित्सुराहआपुच्छिय आरक्खिय, सेट्टि सेंणावह अमचरायाणं। अइगमणे निग्गमणे, एस विही होइ नायव्वो // 654|| आपृच्छ्याऽऽरक्षिकंततः श्रेष्ठिनं ततः सेनापतिंततो राजानमप्यापृच्छ्य निर्गन्तव्यं प्रवेष्टव्यं वा, एष विधिरतिगमने निर्गमने च ज्ञातव्यो भवति। अमुमेवार्थ प्रकटयन्नाहआरक्खितो विसञ्जइ, अहव मणिमा स पुच्छह तु सेटिं। जाव निवो ता नेयं, सुद्धा पुरिसो व दूतेणं / / 645 // वैराज्यविरुद्धराज्यं गच्छता प्रथमत एव रक्षितः प्रष्टव्यः यद्यसौविसजयतिततोलष्टम्। अथाऽसौ भणेत्-प्रेष्ठिनं-श्रीदेवताध्यासितशिरोवेष्टनविभूषितोत्तमानं पृच्छ, ततः श्रेष्ठी प्रष्टव्यः / एवं नृपो यावत् नृपा राजा नेतव्यं; वक्तव्यमित्यर्थः, तचैवं श्रेष्ठी पृष्टो यदि विसर्जयति ततः सुन्दरम्, अथाऽसौ ब्रूयात्- अहं न जानामि सेनापतिं प्रश्नयत, ततः सेनापतिः प्रश्रितो यधनुजानीते ततः शोभनम्। अथाऽसौ ब्रूयात्-अमात्यं पृच्छ, ततोऽसावमात्यः पृष्टो यदि विसर्जयति ततोलष्टम् अथ ब्रूयात्-राजानं पृच्छ, ततो राजाऽपि प्रष्टव्यः / एते च राजादयो यदि विसर्जयन्ति तदा मुद्रापट्टकं दूतपुरुषा वा मार्गयितव्याः, येन राजादिना विसर्जिता एते इति स्थानपालकाः प्रत्ययतः प्रथममवतारयन्ति। यो वा दूतस्तत्रराज्ये व्रजतितेनसार्द्ध गच्छन्तिएवंतावद्यतोराज्यान्निर्गच्छन्तितत्र विधिरुक्तः। अथ यत्र राज्ये गन्तुकामास्तत्र प्रविशतां विधिमाहजत्थ विय गंतुकामा, तत्थ वि कारिंति तेसि णातं तु। आरक्खिगाइते विय, तेणेव कमेण पुच्छंति // 646|| यत्रापि राज्ये गन्तुकामास्तत्राऽपि ये साधवो वर्चन्ते तेषां लेखप्रेषणेन, सन्देशकप्रेषणेन वा आरोपज्ञानं कुर्वन्ति, यथा वयमितो यत्र राज्यात्तत्राऽऽगन्तुकामा अतो भवन्त-स्तत्रारक्षकादीन् पृच्छन्त्विति, यदा तैरनुज्ञाता भवन्ति तदा तान् साधून ज्ञापयन्ति, यथा तैः आरक्षकादिमित्रानुज्ञाताः सन्ति, भवद्भिरत्रागन्तव्यम्। एष निर्गमनेप्रवेशेच विधिरुक्तः। अथ 'आयरिय त्ति' पदं विशेषतो भावयन्नाहराईण दोह भंडण, आयरिए आसियावणं होइ। कयकरणे करणं वा, निवेद जयणाएँ संकमणा // 647 // द्वयो राज्ञोः परस्परं भण्डनं-कलहो वर्तते, तत्रैकस्य राज्ञः कोऽप्याचार्योऽतीव पूजासत्कारस्थानं, ततश्च द्वितीयो नृपतिस्तत्परिज्ञायात्मीयदक्षपुरुषैः 'आसिआवणं' ति तस्याऽऽचार्यस्यापहरणं कारयति, अस्मिन् हि गृहीते सम्प्रपि पार्थिवो गृहीत एव भवतीति, तत्र च यः करणेधनुर्वेदादौ गृहवासे कृतपरिश्रमस्तस्य तत्र करणं भवति; तेनाऽऽचार्यापहारिणा सह युद्धं कर्तुमुपतिष्ठत इत्यर्थः / अथ नास्ति कोऽपि कृतकरणस्ततो यस्य राज्ञः सकाशादपहृतस्तस्य निवेदनं कृत्वा यतनया शेषसाधवः संक्रमणं कुर्वन्ति।