________________ विहार १३१०-अभिधानराजेन्द्रः - भाग 6 विहार षकस्तिष्ठति, ततो यदन्यत्र गम्यते तद्गमनम्- अन्यतः स्थानात् प्रज्ञापकसम्मुखं यदागम्यते तदागमनं, गत्वा प्रत्यागमने विधीयमाने गमनाऽऽगमनम्। बृ० 1 उ०३ प्रक०। अथ वाऽनेनैवाऽधिकारः वैराज्यग्रहणादेतेऽप्यर्थाः सूचिता भवन्तीति दर्शयतिअणराए जुवराए, तत्तो वेरज्जए अवेरखे। एत्तो एककम्मिउ, चाउम्मासा भवे गुरुगा // 622 / / अराजके यौवराज्ये ततश्च वैराज्ये ततश्च वैराज्ये-इति चतुर्णा भेदानाम् एकैकस्मिन् गच्छतस्तपःकालविशेषिताश्चतुर्मासा गुरुका भवेयुः। तत्र प्रथमे द्वाभ्यामपि कालाभ्यां लघवः, द्वितीये कालगुरवः, तृतीये तपोगुरवः, चतुर्थे द्वाभ्यामपि गुरवः / अराजकादीनामेव चतुण्णां व्याख्यानमाहअणरायं तिवमरणे, जुवराया जावदोव्वऽणमिसित्तो। वेरखं तु परवलं, दाइयकलहो उ वेरजं // 623|| यस्य प्राक्तनस्य राज्ञो मरणे सजाते सतियावदद्याऽपि राजा युवराश्चेत्येतौ द्वावपि नाभिषिक्तौ तावदराजकं भण्यते, प्राचीननृपतिना यो यौवराज्याभिषिक्त आसीत् तेनाधिष्ठितं राज्यं परमनेन यावन्नाद्याऽपि द्वितीयो युवराजोऽभिषिक्तः तावद्यौवराज्यमुच्यते / यत्र तु परबलं-- परचक्रमागत्य विराज्यं करोति तद्वैराज्यम्। यत्रतुद्वयोर्दायिकयोः सगोत्रयोरेकराज्याभिलाषिणोः स्वस्वकटकसन्निविष्टाभ्यां परस्परं कलहोविग्रहस्तद्वैराज्यमुच्यते। विरुद्धराज्यं व्याख्यानयतिअविरुद्धावाणियगा, गमणाऽऽगमणंच होति अविरुद्धं / णिस्संचारविरुद्धे,न कप्पती बंधणादीया।।६२६|| यत्र वैराज्ये वाणिजकाः परस्परं गच्छन्ति अविरुद्धास्तत्र साधूनामपि गमनं विरुद्धं न भवति, कल्पते तत्र गन्तुमिति भावः / यत्र तु वणिजां शेषजनपदस्य च निस्संचारं कृतं गमनाऽऽगमननिषेधो विहितः अतस्तद्वैराज्यं विरुद्धमुच्यते, तस्मिन् विरुद्ध गमनादि न कल्पते। अत्ताण चोरमेया, वग्गुरसेणा पलाइणो पहिया। पडिचरगाय सहाया, गमणागमणम्मिनायव्वा // 625 / / ('अत्ताण' पदव्याख्या अत्ताण' शब्दे प्रथमभागे 504 पृष्ठे गता।) तथा-चौरा-गवादिहारिणः 2, भेदानाम गृहीतचापा दिवा रात्रौ चजीवहिंसापरा म्लेच्छविशेषाः 3, वागुरिकाः-पाशप्रयोगेण मृगघातकाः 4, शुनिकाः-द्वितीया लुब्धकाः५, पलायिनोनाम ये भट्टादयो राज्ञः पृच्छा विना सकुटुम्बाः प्रणश्य राज्यान्तरं गच्छन्ति 6, पथिकानानाविधनगरग्राम-देशपरिभ्रमणकारिणः 7, प्रतिचरका नाम-ये परराष्ट्राणि स्वयं प्रच्छन्नचारितया गवेषयन्ति; हेरिका इत्यर्थः 8, एते आत्मादयोऽत्राणादयो वाऽष्टभेदा भवन्ति, केषाञ्चिदाचार्याणां वागुरिकाः शौनिकाश्च | द्वयेऽप्येक एव भेदास्तन्मतेनाष्टमा अहिमरका भवन्ति, अहिः-- सर्पः पूर्वस्मादकृतेऽप्यपकार परं मारयन्तीत्यहिमरकाः, एते सहायाः साधूनां वैराज्यगमनाऽऽगमने ज्ञातव्याः। एतेष्वेव भङ्गोपदर्शनायाहअत्ताणमाइएस, दियपहदितु य अट्ठिया भयणा। एत्तो एगतरेणं, गमणागमणम्मि आणाई // 626|| आत्मादिभेदेषु अत्राणादिषु वा सहायेषु एकैकस्मिन् दिवापथदृष्टपदैः सप्रतिपक्षरष्टिका भजना भवति; अष्टो भङ्गा भवन्तीत्यर्थः / तथाहिआत्मनासहायविरहिता दिवा मार्गेण राजपुरुषैर्दृष्टा गच्छन्ति 1, आत्मना दिदामार्गेण राजपुरुषैरदृष्टाः 2, आत्मना दिवा उन्मार्गेण राजपुरुषैदृष्टाः 3, आत्मना दिवा उन्मार्गेण वा राजपुरुषैरदृष्टाः 4, आत्मना रात्री मार्गेण दृष्टाः 5, आत्मना रात्रौ मार्गेणादृष्टाः 6, आत्मना रात्रायुन्मार्गेण दृष्टाः 7, आत्मना रात्रावुन्मार्गेणादृष्टा गच्छन्ति 8, एवं चौरादिभिः द्वितीयव्याख्यानापेक्षया त्वत्राणादिभिः प्रतिचरकान्तिकसहायैरपि सार्द्ध गच्छतां प्रत्येकमष्टौ भङ्गाः कर्त्तव्याः, 'एत्तो' इत्यादि पश्चार्द्धम् / एतेषामष्टानां भेदानां प्रत्येकमष्टविधानांमध्यादेकतरेणाऽपि प्रकारेण यो गमनं करोति तस्याऽऽज्ञाऽनवस्थादयो दोषा भवन्ति। प्रायश्चित्तं चेदम् - अत्ताणमाइएसुं, दियपहदिउसु चउलहू हॉति। राओ अपह अदिट्टे, चउगुरुगा इक्कमे मूलं / / 627 / / आत्मादिषु अत्राणादिषु वा पदेषु, ये दिवाविषयाः प्रथमे चत्वारो भङ्गकास्तेषु दृष्टादृष्टपदाभ्यांसप्रतिपक्षाभ्यामुपक्षितेषु तपःकालविशेषिताश्चत्वारो लघुकाःये तु रात्रिविषयाः पाश्चात्याश्चत्वारो भङ्गकास्तेषु अपथा दृष्टादृष्टपदाभ्यांसप्रतिपक्षाभ्यामुपलक्षितेषु तपःकालविशेषिताश्चत्वारो गुरुकाः। यतो राज्यात्प्रधावितस्तस्यातिक्रमेऽतिलड़ने कृते सति मूलम्। अथ सर्वभङ्गपरिमाणज्ञापनार्थमाहअत्ताणमाझ्याणं, अgण्हाडहि पएहि भइयाणं। चरसहिए पदाणं, विराहणा होइसा दुविहा॥६२८|| आत्मादीनामत्राणादीनां वा अष्टानां पदानामष्टभिः पदैर्भङ्गैः प्रत्येक भक्तानां गणितानां चतुःषष्टिसंख्यानि भङ्गकपदानि भवन्ति! चतुःषष्टिश्च पदानामन्यतरेण गच्छत इयं द्विविधा संयमात्मविराधना भवति। तामेवाहछकायगहणकडण-पंथि भितूण चेव अइगमणं / सुन्नम्मिय अइगमणं, विराहणा दुण्ह वग्गाणं // 626 // अपथेशस्त्रोपहतपृथिव्यां गच्छन् पृथिवीकार्य, नद्यादिसन्तरेण अवश्यायसम्भवे वाऽप्कायं, दवानलसम्भवे सार्थिकप्रज्चालिताऽग्निप्रतापने वा तेजस्कायं, यत्राऽग्निस्तत्र नियमाद्वायुर्भवतीति कृत्वा वायुकायं, हरितादिमर्दनप्रलम्बासेवने वा वनस्पतिकार्य, पृथिव्युदकवनस्पतिसमाश्रितत्रसानां परितापनादौ त्रसकायम्। एवं षट् कायान् विराधयतीतिसंयमविराधना। तथा राजपुरुषा ग्रहणाकर्षणादि विदध्युरि