________________ विसुव 1261 - अभिधानराजेन्द्रः - भाग 6 विसुव दश सप्तदशोत्तरपर्वशतातिक्रमे द्वादश्यां दशमं विषुवमिति'। पुनरप्यत्रैवार्थे प्रकारान्तरेण करणमाहपवाय छडादिका, दुवारसॉऽहिया दसाऽवसाणाउ। तिगमाइगा वि य तिही, छदुत्तरा सव्वविसुवेसु / / 6 / / इह विषुवेषु पर्वचिन्तायां षडादिकानि यथोत्तरं द्वादशाधिकानि तावदृ ज्ञेयानि यावद्दशावसानानि-दशसंख्यानि विषुवाणि भवन्तीत्यर्थः। तथा पर्वाणामुपरि तिथिचिन्तायां त्रिकादिकाः-त्रिप्रभृतिका यथोत्तरंषत्तरास्तिथयः सर्वेषु विषुवेषु तावदवसेया यावत्तानि विषुवाणि दशसंख्यानि भवन्ति, तद्यथा- प्रथमं विषुवंषट्पर्वा तिक्रमे तृतीयस्यां तिथौ। द्वितीयविषुवचिन्तायां प्रागुक्तपर्वसंख्यानेद्वादश प्रतिप्यन्तेतिथिसंख्यया षट्, तत आगतं द्वितीयं विषुवम् अष्टादशपर्वातिक्रमे नवम्यां तिथौ। भूयोऽपि तृतीयविषुवचिन्तायाम् अनन्तरोक्तपर्वसंख्याने द्वादश प्रक्षिप्यन्ते, तिथिचिन्तायां षट्, तत आगतं तृतीयविषुवं त्रिंशत्पातिक्रमे पञ्चदश्याम्। चतुर्थविषुवचिन्तायां पुनरप्यनन्तरोक्तपर्वसंख्याने द्वादश प्रक्षिप्यन्ते, तिथिचिन्तायां षट्, ततस्तिथय एकविंशतिर्भवन्ति, पञ्चदशभिश्च गुण्यन्तेलब्धमेकं पर्व, तत्पर्वराशौ प्रक्षिप्यते, आगतं त्रिचत्वारिंशत्पतिक्रमे षष्ट्यां तिथौ चतुर्थं विषुवमिति 4, एवं पञ्चमादीन्यपि दशमपर्यन्तापि विषुवाणि भावनीयानि। . तत्र पर्वसंख्याने संग्राहिका इयं गाथा- ' छक वारस तीसा, तेयाला पंचपण्ण अहही। तह य असीइविणउई,पंचाहियसयं-च सत्तरस ||7|| प्रथमं विषुवं षट्पण्यितिक्रम्य, द्वितीयं द्वादश, तृतीयं त्रिंशत्तम, सप्तदशोनं चतुर्थं त्रिचत्वारिंशत्, पञ्चमं पञ्चपञ्चाशत्, षष्ठं षष्टिः, सप्तममशीतिः, अष्टमं द्विनवतिः नवमं पञ्चाधिकंशतम्, दशमं सप्तदशोत्तरशतम्। संप्रति पर्वोपरि तिथिसंख्यानसंग्राहिकां गाथामाहतइया नवमीय तिही, पन्नरसी छट्टि वारसीचेव। जुगपुटवद्ध एया, ता चेव हवंति पच्छऽद्धे // 8 // युगपूर्वार्द्ध यानि पञ्च विषुवाणि तेषु यथाक्रममिमाः पर्वोपरि तिथयस्तद्यथा तृतीया नवमी पञ्चदशी षष्ठी द्वादशीविषुवस्य पश्चाद्भवन्ति / तृतीयस्यां प्रथम विषुवं, द्वितीयं नवम्यां तृतीयं पञ्चदश्यां, चतुर्थं षष्ठ्यां, पञ्चमं द्वादश्याम्, एता एव तिथयः क्रमेण युगस्य पश्चाद्धेऽपि भवन्ति / तद्यथा-षष्ठं विषुवं तृतीयस्यां, सप्तमं नवम्याम्, अष्टमं पञ्चदश्यां, नवमं षष्ठ्या, दशमंद्वादश्यामिति, एवंभूते तिथ्यांनयनार्थ वाऽमुंप्रकारंपूर्वसूरयः परिभाषन्ते / इहायनगतदिवसराशेस्त्रशीत्यधिकशतप्रमाणस्य दश विषुवाणि किल युगे भवन्ति इति दशभिर्भागो ह्रियते लब्धा अष्टादश, ते त्यज्यन्ते प्रयोजनाभावात् शेषा उदरन्ति त्रयस्ते प्रथमविषुवादारभ्य यथोत्तरं व्युत्तरेण ओजसा गुण्यन्ते, तद्यथा- प्रथमविषुवचिन्तायां ते त्रय एकेन गुण्यन्ते द्वितीयविषुवचिन्तायां त्रिभिस्तृतीयविषुवचिन्तायां सप्तभिः, एवं यावद्दशमविषुव-चिन्तायामेकोनविंशत्या, गुणयित्वा च पञ्चदशभिः पर्वाणि कृत्वा याः शेषास्तिथयः उदरन्ति ता गुण्यन्ते, ततो यथोक्तास्तिथयो भवन्ति। तद्यथा-प्रथमविषुवचिन्तायां ते त्रयः, एकेन गुणितं तदेव भवतीति, तत आगतं प्रथमं विषुवं तृतीयस्यां तिथौ। द्वितीयविषुवचिन्तायां ते त्रयस्त्रिभिर्गुण्यन्तेजाता नव आगतं द्वितीयं विषुवं नवम्यामिति। तृतीयविषुवचिन्तायां ते त्रयः पञ्चभिर्गुण्यन्तेजाताः पञ्चदश, आगतं तृतीयं विषुवं पञ्चदश्याम् | चतुर्थविषुवचिन्तायां ते त्रयः सप्तभिर्गुण्यन्तेजाता एकविंशतिःशेषास्तिष्ठन्ति षट् आगतं चतुर्थं विषुवं षष्ठ्यामिति। एवं सर्वत्रापि भावनीयम्। सम्प्रति केन नक्षत्रेण सहयोगे किं विषुवमिति चिन्त्यते, तत्र यदि दशभिर्विषुवैः सप्तषष्टिश्च पर्याया लभ्यन्ते ततो द्विभागविषुवेण कति चन्द्रपर्याया लभ्यन्ते ? राशित्रयस्थापना१०-६७-१अत्रान्त्येन राशिना एककलक्षणेन मध्यमस्यराशेः सप्तषष्टिरूपस्य गुणने जाता सप्तषष्टिरेव, विषुवं वाऽयनस्य द्विभागरूपमिति दश द्वाभ्यां गुण्यन्ते जाता विंशतिः, तया सप्तषष्टे -भीगो व्हियते लब्धास्त्रयो नक्षत्रपर्यायाः शेषास्तिष्ठन्ति सप्त, ते पर्यायरूपं भागं न प्रयच्छन्तीति अष्टादशभिः शतैस्त्रिशैः सप्तषष्टिभागैर्गुणयिष्याम इति विंशतिलक्षणच्छेदराशिगतेन शून्येन सह शून्यस्यापवर्तनायां जातं त्र्यशीत्यधिकं शतम्, 183, तेन सप्त गुण्यन्ते जातानि द्वादश शतानि एकाशीत्यधिकानि 1281, छेदराशिश्च विंशतिलक्षणोंऽन्त्यशून्यापवततेन जातो द्विकस्तेन सप्तषष्ट्यादयः समक्षेत्राणिनक्षत्रभागा गुण्यन्ते, जातानि चतुस्विंशदधिकशतादीनिशोधनकानि, तत्राभिजितो वाचत्वारिंशत् शुद्धा, स्थितानिशेषाणि द्वादशशतानिएकोनचत्वारिंशदधिकानि १२३६,ततः षभिः शतैः सप्तत्यधिकैः 670, उत्तरभद्रपदान्तानि पञ्च नक्षत्राणि शुद्धानि, स्थितानि पश्चात्पञ्चशतान्येकोनसप्तत्यधिकानि 566, ततश्चतुस्त्रिंशदधिकेन शतेन रेवती शुद्धा, स्थितानि चत्वारि शतानि पञ्चत्रिंशदधिकानि 435, ततोऽपि चतुविशदधिकेन शतेन अश्विनी शुद्धा, शेषाणि तिष्ठन्ति त्रीणि शतानि एकोत्तराणि,३०१, ततः सप्तषष्ट्या भरणी शुद्धा, स्थिते पश्चात् द्वे शते चतुस्त्रिंशदधिके, 234, ततोऽपि चतुस्त्रिंशदधिकेन शतेन कृत्तिका शुद्धा, शेष तिष्ठति शतम्, आगतं श्रवणादीनि कृत्तिकापर्यन्तानि नव नक्षत्राण्यतिक्रम्य दशमस्य रोहिणीनक्षत्रस्य चतुस्त्रिंशदधिकशतभागानां शतमवगाह प्रथमं विषुवं भवतीति। द्वितीयं विषुवं कस्मिन् चन्द्रनक्षत्रे भवतीति यदि विज्ञातुमिच्छा तदापूर्वक्रमेण त्रैराशिकमनुसर्तव्यम, तद्यथा-यदिदशभिर्विषुवैः सप्तषष्टिश्चन्द्रनक्षत्रपर्याया लभ्यन्ते ततो द्वाभ्यां विषुवाभ्यां कति चन्द्रनक्षत्रपर्यायान्लभामहे ? राशित्रयस्थापना-१०-६६-३, इह द्वितीयं विषुवं त्रिभिरयनविभागैर्भवतीत्यतो राशिस्त्रिकरूपः स्थाप्यते, तेन चान्त्येन राशिना त्रिकलक्षणेन मध्यमः सप्तषष्टिरूपो राशिगुण्यतेजाते एकोत्तरे द्वे शते 201 विषुवं चाऽयनस्य द्विभागरूपमित्यादि राशिदशकलक्षणो द्वाभ्यां गुण्यते जाता विंशतिः, तया भागो हियते लब्धा दश चन्द्रनक्षत्रपर्यायाः शेषस्तिष्ठत्येकः, सपर्यायभागंन प्रयच्छतीत्यष्टादशभिः शतैस्त्रिशैः सप्तषष्टिकभागैर्गुणयिष्याम इति विंशतिलक्षणच्छेदराशिगतेन शून्येन सह शून्यस्यापवर्तनायां जातंत्र्यशीत्यधिकंशतं 183, तेनैककेन