________________ विमाण 1218- अभिधानराजेन्द्रः - भाग 6 विमाण रेणाश्वरूपधारिणां देवानां चत्वारि देवसहस्राणि / इयमत्र भावना-- चन्द्रादिविमानानि तथा जगत्स्वाभाव्यान्निरालम्बनान्येव वहन्तिअवतिष्ठन्ते, केवलमाभियोगिका देवास्ते तथाविधनामकर्मोदयवशात् समानजातीयानां हीनजातीयानां वा निजस्फातिविशेषप्रदर्शनामात्मानं बहु मन्यमानाः प्रमोदभृतः सततवहनशीलेषु विमानेष्वधः स्थित्वा केचित्सिंहरूपाणि केचिद् गजरूपाणि केचिद् वृषभरूपाणि केचिदश्वरूपाणि कृत्वातानि विमानानि वहन्तिानचैतदनुपपन्नं, यथाहि-कोऽपि तथाविधाभियोग्यनामकर्मोपभोगभागी दासोऽन्येषां समानजातीयानां हीनजातीयानां वा पूर्वपरिचितानामेवमहं नायकस्यास्य सुप्रसिद्धस्य संमत इति निजस्फातिविशेषप्रदर्शनार्थं सर्वमपि स्वोचितं कर्म नायकसमक्षं प्रमुदितः करोति, तथा आभियोगिका देवास्तथाविधाभियोग्यनामकर्मोपभोगभाजः समानजातीयानां हीनजातीयानां वा देवानामन्येषामेवं वयं समृद्धा यत्सकललोकप्रसिद्धानां चन्द्रादीनां विमानानि वट्टाम इति / निजस्फातिविशेषप्रदर्शनार्थमात्मानं बहु मन्यमाना उक्तप्रकारेण चन्द्रादिविमानानि वहन्ति / एवं सूर्यादिविमानविषयाण्यपि सूत्राणि भावनीयानि जी०३ प्रति०२ उ०ा जं०। अस्थि णं भंते ! विमाणाई सोत्थियाणि सोत्थियावत्ताई सोत्थियपभाई सोत्थियकन्ताइं सात्थियवन्नाइं सोत्थियलेसाई सोस्थियझयाई सोथिसिंगाराइं सोस्थिकूडाई सोत्थिसिट्ठाई सोत्युत्तरवडिंसगाई ? हंता अत्थि। तेणं भंते ! विमाणा के महालयापण्णत्ता, गोयमा! जावतिएणं सूरिए उदेति जावइए णं च सूरिए अत्थमेति एवतिया तिण्णोवासंतराई अत्थेगतियस्स देवस्सएगे विकमे सिता, सेणं देवे ताए उनिहाए तुरियाए० जाव दिव्वाए देवगतीए वितीवयमाणे २,०जाप एकाहं वा दुयाहं बाउकोसेणं छम्मासा वितीवएजाअत्यंगतिया विमाणं वितीवइजा अत्थेगतिया विमाणं नो वितीवएजा, एमहालता णं गोयमा! ते विमाणा पण्णता, अत्थिणं भंते ! विमाणाई अचीणि अचिएवत्ताई तहेव० जाव अचुत्तरवडिंसगाति, हंता अत्थि, ते विमाणा के महालता पण्णता? गोयमा! एवं जहा सोत्थी (माई) णि णवरं एगतियाइं पंच उवासंतराइं अत्थेगतियस्स देवस्स एगे विकम्मे सिता सेसं तं चेव / अस्थि-णं भंते ! विमाणाई कामाई कामवत्ताइं० जाव कामुत्तरवडिंसयाई? हंता अस्थि ते णं भंते ! विमाणा के महालया पण्णत्ता ? गोयमा ! जहा सोत्थी णि णवरं सत्त उवासंतराई विक्रमे सेसं तहेव / / अस्थि णं मंते ! विमाणाई विजयाई वैजयंताई जयंताई अपराजिताई? हंता अत्थि, तेणं मंते / विमाणा के महालया ? गोयमा! जावतिए सूरिए उदेह एयाइ नव उवासंतराई सेसं तं चेव नो चेवणं ते विमाणे वीइवएज्जा एमहालया णं विमाणा पण्णत्ता समणाउसो ! (सू०६९) 'अस्थि णं भंते ! इत्यादि, अस्तीति निपातो बह्वर्थे, सन्ति-विद्यन्तेणमिति वाक्यालङ्कारे, विमानानि-विशेषतः पुण्यप्राणिभिर्मन्यन्ते तद्गतृसौख्यानुभवनेनानुभूयन्ते इति विमानानि, तान्येव नामग्राहमाहअर्चीषि-अर्चिर्नामानि, एवमर्चिरावर्तानि अर्चिःप्रभाणि अर्चिःकान्तानि -अर्चिवर्णानि अर्चिलेश्यानि अर्चि+जानि अर्चिः शृङ्गाराणि अर्चिःसृ (शि) ष्टानि अर्चिःकुटानि अर्चिरुत्तरावतंसकानि सर्वसंख्यया एकादश नामानि। भगवानाह- 'हंता अत्थि' हन्तेति प्रत्यवधारणे अस्तीति निपातो वह्वर्थे सन्त्येवैतानि विमानानीति भावः / 'के महालया ण' मित्यादि, किंमहान्ति कियत्प्रमाणमहत्त्वानि / णमिति पूर्ववत् भदन्त ! तानि विमानानि प्रज्ञप्तानि ? भगवानाह- गौतम ! 'जाव य उएइ सूरो,' इत्यादि, जम्बूद्वीपे सर्वोत्कृष्ट दिवसे सर्वाभ्यन्तरे मण्डले वर्तमानः सूर्यो यावति क्षेत्रे उदेति यावति च क्षेत्रे सूर्योऽस्तमुपयाति, एतावन्ति त्रीणि अवकाशान्तराणि, उदयास्तमितप्रमितमधिकृतं क्षेत्रं त्रिगुणमित्यर्थः अस्त्येतद्-बुद्ध्या परिभावनीयमेतद्यथैकस्य विवक्षितस्य देवस्यैको विक्रमः स्यात् तत्र जम्बूद्वीपे सर्वोत्कृष्ट दिवसे सूर्य उदेति सप्तचत्वारिंशत्सहस्राणि द्वेशते त्रिषष्ट्यधिके योजनानामेकस्य चयोजनस्यैकविंशतिः षष्टिभागा एतावति क्षेत्रे, उक्तञ्च- "सीयालीससहस्सा, दोण्णि सया जोयणाणं तेवट्ठी। इगवीससट्ठिभागा, काडमाइम्मि पेच्छ नरा॥१॥" 47263 / 21/60, एतावत्येव क्षेत्रे तस्मिन् सर्वोत्कृष्ट दिवसेऽस्तमुपयाति / तत एतत्क्षेत्रं द्विगुणीकृतमुदयास्तापान्तरालप्रमाणं भवति, तचैतावत्- चतुर्नवतिः सहस्राणि पञ्च शतानि षड्विशत्यधिकानि योजनानामेकस्य, च योजनस्य (च) द्वाचत्वारिंशत्षष्टिभागाः 64526 / 42/60 एतावित्रिगुणीकृतं यथोक्तविमानपरिमाणकरणाय देवस्यैको विक्रमः परिकल्प्यते। स चैवंप्रमाणः-द्वेलक्षे त्र्यशीतिः सहस्राणि पञ्च शतानि अशीयधिकानि योजनानाम् एकस्य च योजनस्य षष्टिभागाः षट् 283580 / 6/90 इति। 'से णं देवे' इत्यादि स-विवक्षितो देवः तया-सकलदेवजनप्रसिद्धया उत्कृष्टया त्वरितया चपलया चण्डयाशीघ्रया उद्धतयाजवनया छेकया दिव्यया देवगत्या, अमीषां पदानामर्थः प्राग्वद्भावनीयः, व्यतिव्रजन् व्यतिव्रजन् जघन्यत एकाहं वा व्यहं वा यावदुत्कर्षतः षण्मासान् यावद् व्यतिव्रजेत्- गच्छेत् / तत्रैवं गमने अस्त्येतद्यथैकं किञ्चन विमानं पूर्वोक्तानां विमानानांमध्ये व्यतिव्रजेत्अतिक्रामेत्, तस्य पारं लभेतेति भावः। तथा अस्त्येतद्यथैककं विमानं नव्यतिव्रजेत, नतस्यपारंलभेत। उभयत्रापि जाता-वेकवचनं, ततोऽयं भावार्थः-उक्तप्रमाणेनापि क्रमेण यथोक्तरूपयाऽपिच गत्या षण्मासानपि यावदधिकृतो देवो गच्छति तथापि, केषाञ्चिद्विमानानां पारंलभते केषाञ्चित् पारं न लभते इति एतावन्महान्ति तानि विमानानि प्रज्ञप्तानि हेश्रमण ! हेआयुष्मन्! 'अत्थिणं भंते!' इत्यादि,सन्तिभदन्त! विमानानिस्वस्तिकानिस्वस्तिकावर्तानि स्वस्तिकप्रभाणि स्वस्तिककान्तानि स्वस्तिक