SearchBrowseAboutContactDonate
Page Preview
Page 1236
Loading...
Download File
Download File
Page Text
________________ विमाण 1212 - अभिधानराजेन्द्रः - भाग 6 विमाण येषां तानि पारियानिकानिपालकपुष्पकादीनि वक्ष्यमाणानीति। स्था० 3 ठा०३ उ०1 सौधर्मेशानयोर्विमानपृथिवीसोहम्मीसाणेसु णं भंते ? कप्पेसु विमाणपुटवी किंपइडिया पण्णता? गोयमा ! घणोदधिपइट्ठिया पण्णत्ता। (सू०२०६+) "सोहम्मीसाणेसुणभंते!" इत्यादि सौधर्मेशानयोः, सूत्रे द्विवचनेऽपि बहुवचनं प्राकृतत्वात् / उक्तं च- "बहुवयणेण दुवयणं, छट्ठिविभत्तीऍ भन्नइ चउत्थी। जह हत्था तह पाया, नमोऽत्थु देवाहिदेवाणं' // 1 // जी०४ प्रति०३ उ०। विमानानामन्तराले भूमिरस्तिनवा ? इत्यत्र सा नास्तीति विज्ञायते, यतो भगवत्यादौ नरकसत्काः सप्त ईषत्प्राउभारा चैकेति अटैव पृथिव्य उक्ताः सन्ति। यदि स्वर्गेपि साऽभविष्यत् तदाऽधिकाऽपि उक्ताऽभविष्यदिति। ही० 3 प्रक०।। सोहम्मीसाणेसु बंभलोए यतिसु कप्पेसु चउसहि विमाणावाससयसहस्सा पण्णत्ता। (सू० 644) 'सोहम्मी' त्यादि सौधर्म द्वात्रिंशदीशानेऽष्टाविंशतिः, ब्रह्मलोके च चत्वारि विमानलक्षाणि भवन्तीति सर्वाणि चतुःषष्टिरिति, 'चउसट्ठि लट्ठिए' त्ति चतुःषष्टिर्यष्टीनां शरीराणां यस्मिन्नसौ चतुःषष्टियष्टिकः। स० 65 सम०। विमानानां बाहल्यमुच्चत्वं चसोहम्मीसाणकप्पेसु विमाणपुढवी केवइयं वाहल्लेणं पण्णता? गोयमा! सत्तावीसं जोयणसयाई वाहल्लेणं पण्णत्ता। एवं पुच्छा, सणंकुमारमाहिंदेसुछय्वीसंजोयणसयाई।बंभलंतएसु पंचवीस, महासुबासहस्सारसुचउव्वीसं, आणयपाणयआरणबुएसुतेवीसंसयाई गेविजविमाणपुठवीवावीसं, अणुत्तरविमाणपुढवी एकवीसं जोयणसयाई वाहल्लेणं / (सू०२१०४) 'सोहम्मीसाणेसु णमि' त्यादि सौधर्मेशानयोर्भदन्त ! कल्ययोविमानपृथिवी कियत्- किंप्रमाणा बाहल्येन प्रज्ञप्ता ? भगवानाहगौतम ! सप्तविंशतियोजनशतानि बाहल्येन प्रज्ञप्ता / एवं शेषसूत्राण्यपि भावनीयानि नवरं सनत्कुमारमाहेन्द्रयोः षड्विंशतिर्योजनशतानि वक्तव्यानि / ब्रह्मलोकलान्तकयोः पञ्चविंशतिः, महाशुक्रसहस्रारयोश्चतुर्विंशतिः, आनतप्राणतारणाच्युतकल्पेषु त्रयोविंशतिः, ग्रैवेयकेषु द्वाविंशतिः, अनुत्तरविमानेषु एकविंशतिर्योजनशतानि। संप्रति विमानानामुच्चैस्त्वपरिमाणं प्रतिपिपादयिषुराह - सोहम्मीसाणेसुणं भंते! कप्पेसु विमाणा केवतियं उचत्तेणं? गोयमा! पंच जोयणसयाइं उच्चत्तेणं। (सू०२११+) 'सोहम्मीसाणेसुणमि' त्यादि इह विमानं महानगरकल्पं तस्य चोपरि / वनखण्डप्राकारप्रासादादयस्तत्र पूर्वेण सूत्रकदम्बकेन विमानपृथिवीबाहल्यमुक्तम्, अनेन प्रासादापेक्षया उच्चत्वमुच्यते इति गर्भः / सौधर्मेशानयोर्भदन्त ! कल्पयोर्विमानानि कियत उद्ध्वमुच्चैस्त्वेन प्रज्ञप्तानि? भगवानाह- गौतम ! पञ्च योजनशतानि ऊर्ध्वमुच्चैस्त्वेन प्रज्ञप्तानि मूलप्रसादादीनां तत्र पञ्चयोजनशतोच्छ्रयप्रमाणत्वात् एवं शेषसूत्राण्यपि भावनीयानि। सनत्कुमारमाहेन्द्रयोःसणंकुमारमार्हिदेसु छ जोयणसयाई / (सू० 2114) सनत्कुमारमाहेन्द्रयोः षट् योजनशतानि वक्तव्यानि। जी०३ प्रति०१ उ० स्था०1 ब्रह्मलोकलान्तकयो:बंभलंतएसुसत्त। (सू०२११४) ब्रह्मलोकलान्तकयोः सप्त योजनशतानि / जी०३ प्रति०१ उ०। महाशुक्रसहस्रारयोःमहासुकसहस्सारेसु दोसु कप्पेसु विमाणा अट्ट जोयणसयाई सुंउबत्तेणं पण्णत्ता। (सू०१११४) स०८०० सम01 आणयपाणयआरणऽचुएसु कप्पेसु विमाणा नव जोयणसयाई उडं उच्चत्तेणं पण्णत्ता। सू०२११४) ग्रैवेयकेषुगेवेजगविमाणाणं भंते ! केवइयं उग्रं उबत्तेणं? गोयमा! दस जोयणसयाई / (सू० 2114) ग्रैवेयकेषु दश योजनशतानि। अनुत्तरविमानेषुअणुत्तरविमाणाणं एकारस जोयणसयाई उडं उच्चत्तेणं / (सू० 2114) अनुत्तरेऽवेकादश योजनशतानि सर्वत्रापि विमानानि बाहल्योचत्वमीलनेन च द्वात्रिंशत् योजनशतानि उपर्युपरि बाहल्येनोस्त्वस्य वृद्धर्भावात्, उक्तं च"सत्तावीससयाई, आदिमकप्पेसु पुढविवाहल्लं। एकेकहाणिसेसे, दुदुगेण दुगेच उक्के य। पंचसु उच्चत्तेणं, आइमकप्पेसु हतिय विमाणा। एक्कक्कवुड्डिसेसे, दुदुगेय दुगे चउक्के य। गेविजणुत्तरेसुं, एसेव कमो उबुड्डिहाणीए। एककम्मि विमाणा, दोन्नि वि मिलिया उ वत्तीसं // 3 // जी०३ प्रति०१ उ०। स०। अनुत्तरोपपातिकेषु-- अणुत्तरोववाइयाणं देवाणं विमाणा एक्कारस जोयणसयाइं उद्धं उचत्तेणं पण्णत्ता। (सू०११३४) स०११०० सम०। संस्थानमाहसोहम्मीसाणेसु णं भंते ! कप्पेसु विमाणा किंसंहिता पण्णत्ता? गोयमा ! दुविहा पण्णत्ता, तं जहा-आवलियापविट्ठा य, बाहिरा य / तत्थ णं जे ते आवलियापविठ्ठा ते ति
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy