________________ विभंगणाण १२००-अभिधानराजेन्द्रः - भाग 6 विभंगणाण द्विभङ्ग तच तज्ज्ञानं च साकारत्वादिति विभङ्गज्ञानं मिथ्यात्वसहितोऽवधिरित्यर्थः। एगदिसं' ति एकस्यां दिशि एकया दिशा पूर्वादिकयेत्यर्थः लोकाभिगमः-लोकायवोध इत्येकं विभङ्गज्ञानम् / विभङ्गता चास्य शेषदिक्षु लोकस्यानभिगमेन तत्प्रतिषेधनादिति 1 / तथा पञ्चसु दिक्षुलोकाभिगमो नैकस्यां कस्यांचिद्दिशीति इहापि विभङ्गता एकदिशि दर्शनात्तद्धेतुकर्मणश्चादर्शनात् क्रियैवावरणं कर्म यस्य स क्रियावरणः, कोऽसौ?-जीव इत्यवष्टम्भपरं यद्विभङ्गं तत्तृतीयं, विभङ्गता चास्य कर्मणोऽदर्शनेनानभ्युपगमादेवमुत्तरत्रापि विभङ्गताऽवसेयेति 3 / 'मुयग्गे' त्ति बाह्याभ्यन्तरपुद्गलरचितशरीरो जीव इत्यवष्टम्भवत् भवनपत्यादिदेवानां बाह्याभ्यन्तरपुद्गलपर्यादानतो वैक्रियकरणदर्शनादिति चतुर्थम् / / 'अमुदग्गे जीवे' त्ति देवानां बाह्याभ्यन्तरपुद्गलादानविरहेण वैक्रियवतां दर्शनाद् अबाह्याभ्यन्तरपुद्रलरचितावयवशरीरो जीव इत्यवसायवत् पञ्चमम् 5 / 'रूवी जीवे' त्ति देवानां वैक्रिय-शरीरवत्तादर्शनाद्रूप्येव जीव इत्येवमवष्टम्भवत् षष्ठमिति ६।तथा सव्वमिणं जीव त्ति वायुना चलतः पुद्गलकायस्यदर्शनात्सर्वमेवेदं वस्तुजीवा एव चलनधर्मोपेतत्वादित्येवं निश्चयवत्सप्तममिति। संग्रहवचनमे-तत् 'तत्थे त्यादित्वेतस्यैव विवरणवचनमुत्तानार्थमेव,नवरम् 'तत्थ' त्ति तेषु सप्तसु मध्ये 'जया णं' ति यस्मिन्काले 'सेणं' ति इह तदेतिगम्यते स विभङ्गी पासइ'त्ति उपलक्षणत्वाज्जानातीति च अन्यथा ज्ञानत्वं विभङ्गस्यनस्यादिति। पाईणं वे' त्यादि,वा विकल्पार्थः 'उड्डेजाव सोहम्मे कप्पे' इत्यनेन सौधर्मात्परतः किल प्रायः बालतपस्विनो न पश्यन्तीति दर्शिम् तथाऽवधिमतोऽप्यधोलोको दुरधिगमो विभङ्गज्ञानिनस्तु सुतरामित्यधोदिग्दर्शनमिह नाभिहितं दुरधिगम्यता चाधोलोकस्य त्रिस्थानकेऽभिहितेति / एवं भवई' त्ति एवंविधो विकल्पो भवति-यदुत अस्ति मे अतिशेषं शेषाण्यतिक्रान्तं; सातिशयमित्यर्थः / ज्ञानंच दर्शनंच, ज्ञानेन वा दर्शनंज्ञानदर्शनं ततश्चैकदिशो दर्शनेन तत्रैवलोकस्योपलम्भादाह--एकदिशि लोकाभिगम इति, एकदिग्मात्र एव लोकस्तथोपलम्भादिति भावः / सन्ति-विद्यन्ते एकके श्रमणा वा ब्राह्मणा वा ते चैव-माहुः-अन्यास्वपि पञ्चसु दिक्षु लोकाभिगमो भवति, तास्वपि तस्य विद्यमानत्वात् / ये ते एवमाहुःयदुत पञ्चस्वपि दिक्षु लोकाभिगमो मिथ्या ते एवमाहुरिति प्रथमं विभङ्गज्ञानमिति 1 / अथापरं द्वितीय-म्-तत्र ‘पाईणं वे' त्यादौ वाशब्दश्वकारार्थो द्रष्टव्यः, विकल्पार्थत्वे तु पञ्चानां दिशां पश्यत्ता न गम्यते; एकस्या एव च गम्यते। तथा च प्रथमद्वितीययोर्विभङ्गयोर्भेदो नस्यादिति क्वचिद् वाशब्दा न दृश्यन्त एवेति 2, प्राणानतिपातयमानानित्यादिषु जीवानिति गम्यते,'नो किरियावरणे' त्ति अपि तु कर्मावरण इति 3, 'देवामेव' त्ति देवानेव भवनवास्यादीनेव। 'बाहिरभंतरे' त्ति बाह्यान्शरीरावगाहक्षेत्रादभ्यन्तरान्-अवगाहक्षेत्र-स्थान पुद्गलान-वैक्रियवर्गणारूपान् पर्यादाय परिसमन्तात् वैक्रियसमुद्धातेनादाय गृहीत्या पुढेगत्त' / नानात्वम्-नानारूपत्वं विकृत्य उत्तरवैक्रियतया 'चिट्ठितए' त्तिस्थातुम्आसितुंप्रवृत्तानिति वाक्यशेष इति संबन्धः। कथं विकृत्येत्याह'फुसित्ता' तानेव पुद्गलान् स्पृष्ट्वा तथाऽऽत्मना स्फुरित्वावीर्यमुल्लास्य पुगलान् वा स्फोरयित्वातथा स्फुटित्वाप्रकाशीभूय पुद्गलान् वा स्फोटयित्वा वाचनान्तरे तु पदद्वयमपर-मुपलभ्यते / तत्र संवर्त्य सारानेकीकृत्य निवर्त्य असारान् पृथक्कृत्येति, अथवा-पर्याप्तपुद्गलैरुत्तरवैक्रियशरीरस्यैकत्वं नानात्वं च कर्मतापन्नं स्पृस्टाप्रारभ्य तथा स्फुरत् कृत्वास्फुट कृत्वा सम्--एकीभावेन वर्तितं सामान्यनिष्पन्नं कृत्वा निर्वर्तितं कृत्वा सर्वथा परिसमाप्य, किमुक्तं भवति-विकुळ-वैक्रियं कृत्वा नत्यौदारिकतयेति, तस्येति-विभङ्गज्ञानिनो बाह्याभ्यन्तरपुद्गलपर्यादानप्रवृत्तदेवान् पश्यत एवं भवति इति विकल्पोजायते। 'मुदग्गेत्ति बाह्याभ्यन्तरपुद्रलरचितशरीरो जीव इति 4, अथापरं पञ्चमम्-तत्र बाह्याभ्यन्तरान् पुद्गलान् अपर्यादायेत्यत्र निषेधस्य वैक्रियसमुद्धातापेक्षित्वादुत्पत्तिक्षेत्रस्थास्तूत्पत्तिकाले गृहीत्या भवधारणीयशरीरस्यैकत्वमेकदेवापेक्षया कण्ठाद्यवयवापेक्षया वा, नानात्वंत्वनेकदेवापेक्षया हस्ताङ्गुल्याद्यवयवापेक्षया वा, विकुळ स्थातुं प्रवृत्तानित्यादि शेषं प्राग्वत् / बाह्यपुद्गलपर्यादानं हि विनोत्तरवैक्रियैकत्वनानात्वे किल न भवति; इति भवधारणीयमिहाधिकृतम्, तदेवमबाह्याभ्यन्तरपुद्गलरचितशरीरदेवदर्शनात्तस्यैवं विकल्पो भवति। 'अमुदग्गे' त्ति अबाह्याभ्यन्तरपुद्गलरचितावयवशरीरोजीव इति 5 / 'रूवी जीवे' त्ति पुद्गलानांपर्यादाने अपर्यादानेच वैक्रियरूपस्यैकानेकरूपस्य देवेषु दर्शनाद्रूपवानेव जीव इत्यवसायो जायते तस्य अरूपस्य कदाचनाप्यदर्शनादिति६। 'सुहुमे त्यादि सूक्ष्मेण-मन्देन नतु सूक्ष्मनामकर्मोदयवर्तिना तस्य वस्तुचालनासमर्थत्वात् / 'फुड' ति स्पृष्ट पुगलकायं-पुद्रलराशिम् 'एयंतं' ति एजमान-कम्पमानं वेजमानंविशेषेण कम्पमानं चलन्तं स्वस्थानादन्यत्र गच्छन्तं क्षुभ्यन्तम् अधोनिमज्जन्तं स्पन्दन्तम्-ईषचलन्तं घट्टयन्तं वस्त्वन्तरं स्पृशन्तमुदीरयन्तं वस्त्वन्तरं प्रेरयन्तं तं तमनाख्येयमनेकविध भावं पर्यायं परिणमन्तं-- गच्छन्तम् 'तं सव्वमिणं' ति सर्वमिदंचलत्पुद्रलजातं जीवाः स्पन्दनलक्षण-जीवधर्मोपेतत्वाद्यच चलदपि श्रमणादयो जीवाश्चाजीवाश्चेति प्राहुस्तन्मिथ्येति तदध्यवसाय इति,'तस्सणं' ति तस्य विभङ्गज्ञानवतः 'इमे' ति वक्ष्यमाणान सम्यगुपगताः अचलनावस्थायां जीवत्वेनन बोधविषयीभूताः, तद्यथा-पृथिव्यप्तेजोवायवः, चलनदोह-दादिधर्मवतां सानामेव दोहदादित्रसधर्मवतां वनस्पतीनामेव च जीवतया प्रज्ञानात्। पृथिव्यादीनां तु वायुचलनेन स्वतश्चलनेन च त्रसत्वेनैव प्रज्ञानात् स्थावरजीवतया तु तेषामनभ्युपगमाचेति। 'इचेएहिं' ति इति हेतोरेतेषु चतुर्यु जीवनिकायेषु मिथ्यात्वपूर्वो दण्डो हिंसामिथ्यादण्डस्तं प्रवर्त्तयति तद्रूपानभिज्ञः संस्तान् हिनस्ति निहनुते चेति भाव इति सप्तम विभङ्गज्ञानमिति 7 / स्था० 7 ठा० ३उ०। पा०। अनु०॥