________________ विणय 1181 - अभिधानराजेन्द्रः - भाग 6 विणय हेतूदाहरणसद्युक्तिप्रकटनप्रकारेण मूर्खस्त्वमसि तथा दुर्दुरूढः खसूचिरित्यादिना कर्कशवचनेनानियिन्यथा यथाऽसौ बुध्यते तथा तथासाधुःसुष्टु बोधयेत् न कुत्रचित्क्रुद्धमुखहस्तौष्ठनेत्रविकारैरनादरेण कथयन् मनःपीडामुत्पादयेत्। तथा प्रश्नयतस्तद्भाषामपशब्दादिदोषदुष्टामपि धिङ् मूर्खासंस्कृतमते! किं तवानेन संस्कृतेन पूर्वोत्तरव्याहतेन वोच्चारितेनेत्येवं न विहिस्यात्-नतिरस्कुर्याद् असंबद्धोद्घट्टनतस्तं प्रश्रयितारन विडम्बयेदिति / नथा निरुद्धम्-अर्थस्तोकंदीर्घवाक्यैर्महता शब्ददुधरणार्कविटपिकाठिकान्यायेन न कथयेत् निरुद्धं वा स्तोककालीन व्याख्यानं व्याकरणतर्कादिप्रवेशनद्वारेण प्रसक्त्यानुप्रसक्त्या न दीर्घयेत्-न दीर्घकालिकं कुर्यात् / तथा चोक्तम्- 'सो अत्थो क्त्तव्यो, जो भण्णइ अक्खरेहि थोवेहि। जो पुण थोवो बहुअक्खरेहिं सो होइनिस्सारो॥१॥" तथा किंचित्सूत्रमल्पाक्षरमल्पार्थं वा इत्यादिचतुर्भङ्गिका। तत्रयदल्पाक्षरं महार्थ तदिह प्रशस्यत इति // 23 // अपि च यत्पुनरतिविषमत्वादल्पाक्षरैर्न सम्यगवबुध्यते तत्सम्यग्-शोभनेन प्रकारेण समन्तात्पर्यायशब्दोचारणतो भावार्थकथनतश्चालपेभाषेत समालपेत्, नाल्पैरेताक्षरैक्त्वा कृतार्थो भवेद्, अपितु-ज्ञेयगहनार्थभाषणे सद्धेतुयुक्त्यादिभिः श्रोतारमपेक्ष्य प्रतिपूर्णभाषी स्याद्, अस्खलितामिलिताहीनाक्षरार्थवादी भवेदिति / तथा आचार्यादः सकाशाद्यथावदर्थ श्रुत्वानिशम्य अवगम्य च सम्यग्- यथावस्थितमर्थं यथा गुरुसकाशादवधारितम) प्रतिपाद्यं दृष्टुं शीलमस्य स भवति सम्यगर्थदर्शी; स एवंभूतः संस्तीर्थकराज्ञया सर्वज्ञप्रणीतागमानुसारेण शुद्धम्-अवदात पूर्वापराविरुद्धम् निरवद्यं वचनमभियुञ्जीतोत्सर्गविषये सतिउत्सर्गमपवादविषये चापवाद तथा स्वपरसमययोर्यथास्वं वचनमभिवदेत् / एवं चाभियुञ्जन् भिक्षः पापविवेकं लाभसत्कारादिनिरपेक्षतया काङ्खमाणो निर्दोषं वचनमभिसन्धयेदिति // 4|| पुनरपि भाषाविधिमधिकृत्याहअहावुझ्याइंसुसिक्खएखा, जइज्जमाणातिवेलं वदेजा। से दिद्विमं दिट्टिण लूसएजा, से जाणई भासितं समाहिं // 25 // अलूसएणो पच्छन्नमासी, णो सुत्तमत्थं च करेन्ज ताई। सत्थारभत्ती अणुवीइवायं, सुयं च सम्म पडिवाययंति॥२६|| यथोक्तानि तीर्थकरगणधरादिभिस्तान्यहर्निशं सुष्ठु शिक्षेतग्रहणशिक्षया | सर्वज्ञोक्तमागमं सम्यक् गृह्णीयाद् आसेवनाशिक्षया त्वनवरतमुधुक्तविहारितयाऽऽसेवेत, अन्येषां च तथैव प्रतिपादयेत्, अतिप्रसक्तलक्षणनिवृत्तये त्वपदिश्यते सदा ग्रहणासेवनाशिक्षयोर्देशनायां यतेत, सदा यतमानोऽपि यो यस्य कर्त्तव्यस्य कालोऽध्ययनकालो वातां वेलामतिलभ्य नातिवेलं वदेद् अध्ययनकर्तव्यमर्यादा नातिलवयेत्स(दस) / दनुष्ठानं प्रतिव्रजेता, यथावसरंपरस्पराबाधया सर्वाः क्रियाः कुर्यादित्यर्थः / स एवंगुणजातीयो यथाकालवादी यथाकालचारी च सम्यग्दृष्टिमान्यथावस्थितान् पदार्थान् श्रद्दधानो देशनां व्याख्यानं वा कुर्वन् दृष्टिसम्यग्दर्शनं न लूषयेत्-न दूषयेत्। इदमुक्तं भवति-पुरुषविशेषज्ञात्वा तथा तथा कथनीयमपसिद्धान्तदेशनापरिहारेण यथा यथा श्रोतुः सम्यक्त्वं स्थिरीभवति, न पुनः शङ्कोत्पादनतो दूष्यते, यश्चैवंविधः स जानाति-अवबुध्यते भाषितुं-प्ररूपयितुं समाधिं सम्यग्दर्शन-ज्ञानचारित्राख्यं सम्यक्चित्तव्यवस्थानाख्यं वातं सर्वज्ञोकं समाधि सम्यगवगच्छतीति / / 25 / किञ्चान्यत्- 'अलूसए' इत्यादि सर्वज्ञोक्तभागर्म कथयन् 'नो लूषयेत्' नान्यथाऽपसिद्धान्तव्याख्यानेन दूषयेत्, तथा न प्रच्छन्नभाषी भवेत् सिद्धान्तार्थमविरुद्धमवदातं सार्वजनीनं तत्प्रच्छन्नभाषणेन न गोपयेत्, यदिवा-प्रच्छन्नं वाऽर्थमपरिणताय न भाषेत्, तद्धि सिद्धान्तरहस्यमपरिणतशिष्यविध्वंसनेन दोषायैव संपद्यते / तथा चोक्तम्-"अप्रशान्तमतौ शास्त्र-सद्भावप्रतिपादनम् / दोषायाभिनवोदीर्णे,शमनीयमिव ज्वरे / / 1 // " इत्यादि, न च सूत्रमन्यत् स्वमतिविकल्पनतः स्वपरत्रायी कुर्वीतान्यथा वा सूत्रं तदर्थं वा संसारात् त्रायी त्राणशीलो जन्तूनां न विदधीत, किमित्यन्यथा सूत्रं न कर्त्तव्यमित्याह-- परहितैकरतः शास्ता तस्मिन् शास्तरि या व्यवस्थिता भक्तिः बहुमानस्तया तद्भक्त्या अनुविचिन्त्य ममानेनोक्तेन न कदाचिदागमबाधा स्यादित्येवंपर्यालोच्य वादं वदेत्। तथा यच्छुतमाचार्यादिभ्यः सकाशात्तत्तथैव सम्यक्त्याराधनामनुवर्तमानोऽन्येभ्य ऋणमोक्ष प्रतिपद्यमानः प्रतिपादयेत्-प्ररूपयेन्न सुखशीलतां मन्यमानो यथाकथंचित्तिष्ठेदिति // 26|| सूत्र०१ श्रु०१४ अ०) इयाणिं विणएणं-जहा मगहविसएगोवरगामे पुप्फसालो गिहवती। भद्दा भारिया पुत्तो से पुप्फसालसुतो सो मायापियरं पुच्छईको धम्मो? तेहिं भण्णइ मायापियरं सुस्सूसियव्वं दो चेव देवयाई माया पियरो य जीवलोगम्मि। तत्थ वि पिया विसिट्ठो, जस्स वसे वट्टइ माया। ताहे सो ताण पायमुहधावणाई विभासा देवयाणि वसुस्सूसई। अन्नया गामभोइओ आगतो ताणि संभंताणि पाहुण्णं करेंति / सो वि चिंतेइ एयाणि वि एस देवयं एवं पूएमि तो धम्मो होहिइ। तस्स सुस्सूसा कया। अन्नया तस्स भोइयस्स अन्नो महल्लो दिट्ठो० जाव सेणिओरायातओलग्गिउमारद्धो या सामी समोसढो सेणिओ इड्डिए गंतूण बंदइ, ताहे सो सामि भणइ अहं तुब्भो ओलग्गामि, सामिणा भणियं--अहं रयहरणपडिग्गहतायाए ओलग्गिज्जामि ताणं सुणणाए संबुद्धो। एवं विणएणं सामाइयं लब्भइ / आ०म०१ अ०। ('विणयकम्म' शब्देऽप्येतत्कथानकं स्फुटं वक्ष्यते।) "विणएण णरो गंधे-ण चंदणं सोमयाइ रयणिययरो। महुररसेणं अमयं, जणप्पियत्तं लहइ भुवणे // 2 // सुविसुद्धसीलजुत्तो, पावइ कित्तिं जसं च इहलोए। सव्वजणवल्लहो विय, सुहगइभागीय परलोए॥३॥" ध००१ अधि०४ गुण / नीती, उत्त०१ अ०