________________ विणय 1176 - अमिधानराजेन्द्रः - भाग 6 विणय यार्थसंपत्सिाक्षात्कारितया परिस्फुटा घटपटादयः पदार्थाः प्रतीयन्ते एवं सर्वज्ञप्रणीतागमेनापि सूक्ष्मव्यवहितविप्रकृष्टस्वर्गापवर्गदेवतादयः परिस्फुटा निःशकं प्रतीयन्त इति / अपि च-कदा-चिचक्षुषाऽन्यथाभूतोऽप्यर्थोऽन्यथा परिच्छिद्यते, तद्यथा-मरुमरीचिकानिचयो जलभ्रान्त्या किंशुकनिचयोऽग्न्याकारणापीति।नच सर्वज्ञप्रणीतस्यागमस्य क्वचिदपि व्यभिचारः तद्व्यभिचारे हि सर्वज्ञत्वहानिप्रसङ्गात्, तत्संभवस्य चासर्वज्ञेनप्रतिषे मशक्यत्वादिति।।१३।। शिक्षको हिगुरुकुलवासितया जिनवचनाभिज्ञो भवति, तत्कोविदश्च मूलोत्तरगुणान् जानाति, तत्र मूलगुणानधिकृत्याह-ऊर्ध्वमधस्तिर्यग् दिक्षु विदिक्षु चेत्यनेन क्षेत्रमङ्गीकृत्य प्राणातिपातविरतिरभिहिताः, द्रव्यतस्तु दर्शयति-त्रस्यन्तीति त्रसाः-तेजोवायुद्वीन्द्रियादयश्च, तथा ये च स्थावराः-स्थावरनामकर्मोदयवर्तिनः पृथिव्यब्वनस्पतयः, तथा ये चैतद्भेदाः सूक्ष्मबादरपर्याप्तकाऽपर्याप्तकरूपा दशविधप्राणधारणात्प्राणिनस्तेषु, सदासर्वकालम्, अनेनतुकालमधिकृत्य विरतिरभिहिता,यतः पविजेत्-परिसमन्ताद् व्रजेत् संयमानुष्ठायी भवेत्, भावप्राणातिपातविरतिं दर्शयति-स्थावरजनमेषु प्राणिषु तदपकारे उपकारे वा मनागपि मनसा प्रदेषं न गच्छेद, आस्तां तावद् दुर्वचनदण्डप्रहारादिकं, तेष्वपकारिष्वपि मनसाऽपि न मङ्गुलं चिन्तयेद्, अविकम्पमानः-संयमादचलन् सदाचारमनुपालयेदिति / तदेवं योगत्रिककरणत्रिकेण द्रव्यक्षेत्रकालभावरूपां प्राणातिपातविरतिं सम्यगरक्तद्विष्टतयाऽनुपालयेद्एवं शेषाण्यपि महाव्रतान्युत्तरगुणांश्च ग्रहणासेवनाशिक्षासमन्वितः सम्यगनुपालयेदिति।।१४।। गुरोरन्तिके वसतो विनयमाह-सूत्रार्थं तदुभयं वा विशिष्टनप्रष्टव्य-कालेनाचार्यादरवसरं ज्ञात्वा प्रजायन्त इतिप्रजाजन्तवस्तासुप्रजासुजन्तुविषये चतुर्दशभूतग्रामसंबद्धं कञ्चिदाचार्यादिकं सम्यगित-सदाचारानुष्ठायिनं. सम्यग्वा समन्ताद्वा जन्तुगतंपृच्छेदिति। सच तेन पृष्ट आचार्यादिराचक्षाणः शुश्रूषयितव्यो भवति। यदा-चक्षाणस्तद्दर्शयति-मुक्तिगमनयोग्यो भव्यो द्रव्यं रागद्वेषविरहाद्वा द्रव्यं तस्य द्रव्यस्य-वीतरागस्यतीर्थकरस्य वा वृत्तम्-अनुष्ठानं संयमं ज्ञानं वा तत्प्रणीतमागर्म वा सम्यगाचक्षाणः सपर्याऽयं मान-नीयो भवति। कथमित्याह-'तद् आचार्यादिनाकथितं श्रोत्रे-कर्णे कर्तु शीलमस्य श्रोत्रकारी-यथोपदेशकारी आज्ञाविधायी सन् पृथक् पृथगुपन्यस्तमादरेण हृदये प्रवेशयेद्-चेतसि व्यवस्थापेत् / व्यवस्थापनीयं दर्शयति-संख्याय- सम्यक् ज्ञात्वा 'इम' मिति वक्ष्यमाणं केवलिन इदं कैवलिकं-केवलिना कथितं समाधि सन्मार्ग सम्यग्ज्ञानादिकं मोक्षमार्गमाचार्यादिना कथितं यथोपदेशं प्रवर्तकः पृथग् विविक्तं हृदये पृथग्व्यवस्थापयेदिति॥१५॥ किंचान्यत्-अस्मिन् गुरुकुलवासे निवसता यच्छुतं श्रुत्वा च सम्यक् हृदयव्यवस्थापनद्वारेणावधारितं तस्मिन् / समाधिभूते मोक्षमार्गे सुष्टु स्थित्वा त्रिविधेनेति-मनोवाक्कायकर्मभिः कृतकारितानुमतिभिर्वाऽऽत्मानं त्रातुं शीलमस्येति त्रायी जन्तूनां सदुपदेशदानतस्वाणकरणशीलो वातस्य स्वपरत्रायिणः, एतेषु च समितिगुप्त्यादिषु समाधिमार्गेषु स्थितस्य शान्तिर्भवति अशेषद्वन्द्वोपरमो भवति / तथा निरोधम्-अशेषकर्मक्षयरूपम् आहुः-तद्विदः प्रतिपादित- वन्तः। क एवमाहुरित्याह-त्रिलोकम्-ऊर्ध्वाधस्तिर्यग्लक्षणं द्रुष्टुं शीलं येषां ते त्रिलोकदर्शिनः तीर्थकृतः सर्वज्ञास्ते एवम् अनन्तरोक्तया नीत्या सर्वभावान् केवलालोकेन दृष्ट्वा आचक्षते-प्रतिपादयन्तीति / एतदेव समितिगुप्त्यादिकं संसारोत्तारणसमर्थं ते त्रिलोकदर्शिनः कथितवन्तो न पुनर्भूय एतं (नं) प्रमादसङ्गं मद्यविषयादिकं सम्बन्धं विधेयत्वेन प्रतिपादितवन्तः // 16 // ___ किञ्चान्यत्निसम्म से भिक्खू समीहियऽहं, पडिमाण होइ विसारएय। आयाण अट्ठीबोदाणमोणं, उर्वच सुद्धेण उदेति मोक्खं // 17 // सगुरुकुलवासी भिक्षुः द्रव्यस्य वृत्तं निशम्य-अवगम्य स्वतः समीहितं चार्थ-मोक्षार्थं बुद्धा हेयोपादेयं सम्यक् परिज्ञाय नित्यं गुरुकुलवासतः प्रतिभानवान्-उत्पन्न प्रतिभो भवति, तथा सम्यक् स्वसिद्धान्तपरिज्ञानाच्छ्रोतृणां यथावस्थितार्थानां विशारदो भवति-प्रतिपादको भवति। मोक्षार्थिनाऽऽदीयत इत्यादानं-सम्यग्ज्ञानादिकं तेनार्थः स एव वाऽर्थः आदानार्थः स विद्यते यस्या--सावादानार्थी स एवंभूतो ज्ञानादिप्रयोजनवान् व्यवदानं-द्वादश-प्रकारं तपो मौनं संयम आश्रवनिरोधरूपस्तदेवमेतौ तपःसंयमावुपेत्यप्राप्यग्रहणासेवनरूपया द्विविधयाऽपि शिक्षया समन्वितः सर्वत्र प्रमादरहितः प्रतिभानवान् विशारदश्च शुद्धन-निरुपाधिना उद्मादिदोषशुद्धेन चाहारेणात्मानं यापयन्नशेषकर्मक्षयलक्षणं मोक्षमुपैति'न उवेइमारं ति क्वचित्पाठः, बहुशो नियन्ते स्वकर्मपरवशाः प्राणिनो यस्मिन् स मारः- संसारस्तं जातिजरामरणरोगशोकाकुलं शुद्धेन मार्गेणात्मानं वर्तयन् न उपैति। यदि वा-मरणं-प्राणत्यागलक्षणं मारस्तंबहुशोनोपैति। तथाहि-अप्रति-पतितसम्यक्त्वउत्कृष्टतः सप्ताष्टौ वा भवान् म्रियते नोर्ध्वमिति / / 17 / / सूत्र०१ श्रु०१४अ० (गुरुकुलनिवासितया धर्मे सुस्थिता बहुश्रुता प्रतिभानवन्तोऽर्थविशार-दाश्च सन्तोयत्कुर्वन्ति तद्दर्शितम्'धम्मकहा' शब्देचतुर्थभागे 2712 पृष्ठे।) सच प्रश्नमुदाहरन् कदाचिदन्यथाऽपि ब्रूयादतस्तत्प्रतिषेधार्थमाहणो छायए णोऽवियलूसएज्जा, माणं ण सेवेज पगासणं च। ण याऽवि पन्ने परिहास कुज्जा, ण याऽऽसिया वाय वियागरेज्जा॥१६॥ भूतामिसंकाइ दुगुंछमाणे, ण णिव्वहे मंतपदेण गोयं / ण किंचि मिच्छे मणुए पयासुं, असासु धम्माणिण संवएना / / 20 / / सः - प्रश्नस्योदाहा सर्वाथाश्रयत्वाद्रत्नक रण्ड कल्पः कुत्रिकाप-णकल्पो वा चतुर्दशपूर्विणामन्यतरो वा क