________________ विणय 1172 - अभिधानराजेन्द्रः - भाग 6 विणय इत्यर्थः, देव यक्षाश्च गुह्यका इति पूर्ववदेव, दृश्यन्ते सुखमेधमाना अर्हत्कल्याणादिषु, ऋद्धिं प्राप्ता-इति देवाधिपादिप्राप्तर्द्धयो महायसशयो विख्यातसद्गुणा इति सूत्रार्थः / / 11 / / एवं नारकापोहेन व्यवहारतो येषु सुखदुःखसंभवस्तेषु विनया-विनयफलमुक्तम्। अधुना विशेषतो लोकोत्तरविनयफलमाहजे आयरिअउवज्झा-याणं सुस्सूसाँवयणकरा। तेसिं सिक्खा पवखंति, जलसित्ता इव पायवा॥१२॥ अप्पणट्ठा परहावा, सिप्पाणेउणिआणि / गिहिणो उवभोगट्ठा, इहलोगस्स कारणा / / 13 / / जेणं बंधं बहं घोरं, परिआवं च दारुणं। सिक्खमाणा निअच्छंति, जुत्ता ते ललिइंदिआ॥१४॥ तेऽवितं गुरुं पूअंति, तस्स सिप्पस्स कारणा। सकारंति नमसंति, तुद्वा निद्देसवत्तिणो॥१५॥ किं पुणं जे सुअग्गाही, अणंतहिअकामए। आयरिया जं वए भिक्खू तम्हातं नाइवत्तए।१६।। 'जे आयरिअ' त्ति सूत्रं, य आचार्योपाध्याययोः-प्रतीतयोः शुश्रूषावचनकरा-पूजाप्रधानवचनकरणशीलास्तेषांपुण्यभाजां शिक्षाग्रहणासेवनालक्षणा भावार्थरूपाः प्रवर्द्धन्ते-वृद्धिमुपयान्ति दृष्टान्तमाहजलसिक्ता इव पादपावृक्षा इति सूत्रार्थः / / 12 / / एतच्च मनस्याधाय विनयः कार्य इत्याह-आस्मार्थम्- आत्मनिमित्तमनेन मे जीविका भविष्यतीति, एवं परार्थं वा परनिमित्तं वा पुत्रमहमेतद्ग्राहयिष्यामीत्येवं शिल्पानि-कुम्भकार-क्रियादीनि नैपुण्यानि च आलेख्यादिकलालक्षणानि गृहिणः-असंयता उपभोगार्थम् अन्नपानादिभोगाय, शिक्षन्त इति वाक्य-शेषः / इह लोकस्य कारणम्-इह लोकनिमित्तमिति सूत्रार्थः ||13|| येनशिल्पादिना शिक्ष्यमाणेन बन्धं निगडादिभिः बधं कषादिभिः धोरं-रौद्रं परितापं च दारुणम्-एतज्जनितमनिष्टं निर्भर्त्सनादिवचनजनितंच शिक्षमाणा गुरोः सकाशात् नियच्छन्ति-प्राप्नुवन्ति 'युक्ता' इति नियुक्ताः शिल्पादिग्रहणे ते ललितेन्द्रियागर्भेश्वरा राजपुत्रादय इति सूत्रार्थः / / 14 / / तेऽपीत्वरं शिल्पादि शिक्षमाणास्तगुरुं बन्धादिकारकमपि पूजयन्ति सामान्यतो मधुरवचना भिनन्दनेन तस्य शिल्पस्येत्वरस्य कारणात्, तन्निमित्तत्वा दिति भावः। तथा सत्कारयन्ति वस्त्रादिना, नमस्यन्तिअञ्जलिप्रग्रहादिना। तुष्टा-इत्यमुत इदमवाप्यत इति हृष्टानिर्देशवर्त्तिन:-आज्ञाकारिण इति सूत्रार्थः / / 15 / / यदि तावदेतेऽपि तं गुरुं पूजयन्ति अत:--'कि' सूत्र, किं पुनर्यः साधुः श्रुतग्राहीपरमपुरुषप्रणीतागमग्रहणाभिलाषी 'अनन्तहितकामुकः' मोक्षं यः कामयत इत्यभिप्रायः, तेन तु सुतरां गुरवः पूजनीया इति। यतश्चैवमाचार्या यद्दन्ति किमपि तथा तथाऽनेकप्रकारं भिक्षुः-साधुस्तस्मात्तदाचार्यवचनं नातिवर्तेत, युक्तत्वात्सर्वमेव संपादयेदिति सूत्रार्थः // 16 // विनयोपायमाहनीसिजंगई ठाणं, नीअंच आसणाणि अ। नीअंच पाएँ वंदिञ्जा, नीअंकुजाअ अंजलिं // 17 // संघट्टइत्ता काएणं,तहा उवहिणामवि। खमेह अवराह मे, वइज न पुणुत्ति अ॥१८॥ दुग्गओ वा पओएणं, चोइओ वहई रहं। एवं दुब्बुद्धिकिचाणं, वुत्तो वुत्तो पकुव्वई ||16|| (आलवंते लवंते वा, न निसिजाइ पडिस्सुणे। मुत्तूण आसणं धीरो, सुस्सूसाए पडिस्सुणे) कालं छंदोवयारं च, पडिलेहित्ता ण हेउहिं। तेण तेण उवाएणं,तं तं संपडिवावए // 20 // नीचां शय्या-संस्तारकलक्षणामाचार्यशय्यायाः सकाशात्कुर्यादिति योगः, एवं नीचां गतिम् आचार्यगतेः, तत्पृष्ठतो नातिदूरेण नातिद्रुतं यायादित्यर्थः / एवं नीचं स्थानमाचार्यस्थानात्, यत्राचार्य आस्ते तस्मान्नीचतरे स्थाने स्थातव्यमिति भावः / तथा नीधानि लघुतराणि कदाचित्कारणजाते आसनानि पीठकानि तस्मिन्नुपविष्ट तदनुज्ञातः सेवेत, नान्यथा। तथा नीचंच सम्यगवनतोत्तमाङ्गः सन्पादावाचार्यसत्को वन्देत, नावज्ञया / तथा क्वचित्प्रश्रादौ नीचं नम्रकायं कुर्यात्--संपादयेचाञ्जलिं, नतुस्थाणुवस्तब्ध एवेति सूत्रार्थः // 17 // एवं कायविनयमभिधाय वाग्विनयमाह-संघट्टियस्पृष्ट्वा कायेन-देहेन कथञ्चित्तथाविधप्रदेशोपविष्टमाचार्य तथा उपधिनाऽपिकल्पादिना कथञ्चित्संघढ्यं मिथ्यादुष्कृतपुरः सरमभिवन्द्य क्षमस्व-सहस्व अपराधंदोषं में मन्दभाग्यस्यैवं वदेद-ब्रूयात्नपुनरिति च नाहमेनं भूयः करिष्यामीति सूत्रार्थः / / 18|| एतच्च बुद्धिमान् स्वयमेव करोति, तदन्यस्तु कथमित्याह-दुगौरिवगलिबलीववत् प्रतोदेन-आरादण्डलक्षणेन चोदितो-विद्धः सन् वहति-नयति क्वापि रथंप्रतीतम्, एवं-दुर्गोरिद दुर्बुद्धिः-अहितावहबुद्धिः शिष्यः कृत्यानाम्-आचार्यादीनां कृत्यानि वातदभिरुचितकायोणि उक्त उक्तः-पुनः पुनरभिहित इत्यर्थः, प्रकरोतिनिष्पादयति प्रयुङ्क्ते चेति सूत्रार्थः / / 16|| एवं च कृतान्यमूनि न शोभनानीत्यतः (आह)-काल-शरदादिलक्षणं, छन्दः तदिच्छारूपम् उपचारम्-आराधनाप्रकारं, चशब्दाद्देशादिपरिग्रहः, एतत् प्रत्युपेक्ष्य-- ज्ञात्वा हेतुभिः- यथानुरूपैः कारणैः, किमित्याह-तेन तेनोपायेन गृहस्थावर्जनादिना तत्तत्-पित्तहरादिरूपमशनादि सम्प्रतिपादयेत्, यथा काले शरदादौ पित्तहरादिभोजनं प्रवातनिवातादिरूपा शय्या इच्छानुलोमं वा यद्यस्य हितं रोचते च आराधनाप्रकारोऽनुलोमं भाषणं ग्रन्थाभ्यासवैयावृत्त्यकरणादिदेशे अनुपदेशाधुचितं निष्ठीवनादिभिहेतुभिः श्लेष्माद्याधिक्यं विज्ञाय तदुचितं संपादयेदिति सूत्रार्थः // 20 //