________________ वसहि 1046 - अभिघानराजेन्द्रः - भाग 6 वसहि गृहिभिर्दृष्टाः प्रविष्टास्ततो भक्ता-विकल्पिताः। दृष्टा वा अदृष्टा वा निर्गच्छन्तीति भावः। तत्थऽण्णत्थ व दिवसं, अच्छंता परिहरंति निहाई। जयणाएव सुवंति, उभयं पिय मग्गए वसहिं // 76|| तत्र रजन्यामुषित्वादिकं च ततस्तत्र वा संयतीवसतावन्यत्र वा उद्यानादिषु तिष्ठन्ति, निद्राप्रचलादिकं परिहरन्ति / यवनिकान्तरिता यतनया स्वपन्ति, यथा सागारिको न पश्यति / यदि तत्र कियन्तमपि कालं स्थातुकामास्तत उभयमपि साधवः साध्वयश्चान्यां वसति मार्गयन्ति, लब्धायां तत्र साधवस्तिष्ठन्ति। गतं प्रा (घूर्ण)घुणकद्वारम्। अथ गणधरद्वारमाहअहिणा विमूहका वा, सहसा डाहो व होज सासो वा। जति आगाढं अजा-ण होइगमणं गणहरस्स / / 77|| अहिना सर्पण काचिदार्यिका दष्टा, अतिमात्रे वा भुक्ते विसूचिका कस्याश्चिदजनिष्ट, सहसाऽपि तेनाग्निना वा दाहो दाहज्यरो वा भवेत्, श्वासो वा कस्याश्चिदकस्मादजनि। एवमादिकं यद्यागाद कार्यमार्याणां भवति ततो दिवा रात्रौ वा गणधरस्य गमनमनुज्ञातम्। अथवापडिणीयमेच्छमालव-गयगोणामहिसतेणगाई वा। आसन्ने उवसग्गे, कप्पइ गमणं गणहरस्स७८|| प्रत्यनीकम्लेच्छमालवस्तेनगजगोमहिषस्तेनकादयो वा संयती-. नामुपसर्ग कर्तुमारब्धाः। यद्वा न तावदेवोपसर्गयन्ति, परं तेषामासन्न उपसर्गो वर्तते तत्क्षणादेवभावीत्यर्थः। ततः कल्पते गणधरस्य वा सामान्यस्य वा समर्थस्य वा तन्निवारणार्थं गमनम्। गतंगणधरद्वारम्। __अथ महर्द्धिकद्वारमाहरायाऽमच्चे सेट्ठी, पुरोहिओ सत्थवाहपुत्ते य। गामउडे रहउडे, जे य गणहरे महिड्डीए ||7|| राजा-पृथिवीपतिः अमात्यो मन्त्री, अष्टादशानां प्रकृतीनां महत्तरः श्रेष्ठी, पौरजनपदयुक्तस्य राज्ञो होमादिना अशिवायुपद्रवप्रशमकः पुरोहितः, यस्तु क्रयाणकजातं गृहीत्वा लोभार्थमन्यदेशं व्रजन् सार्थ वाहयति योगक्षेमचिन्तया पालयति ससार्थवाहः, पुत्रशब्दः प्रत्येकमभिसम्बध्यते-राजा राजपुत्र इत्यादि, तथा ग्रामकूटो-ग्राममहत्तरः, राष्ट्रकूटो-राष्ट्रमहत्तरः, एते प्रव्रजिता इह गृह्यन्ते। यश्च गणधरो राजादिबहुमतो विद्याऽतिशयसंपन्नो वा एते सर्वेऽपि महर्द्धिका उच्यन्ते। एतेषां संयतीवसतिं गच्छताममी गुणा भवन्तिअजाण तेयजणाणं, दुजणसचकारया य गोरवया। तम्हा समणुण्णायं, गणहरगमणं महड्डीए।।८०|| आर्याणां तेजोजननं महात्म्योत्पादनं दुर्जनानां च सचमत्कारतासाशङ्कता भवति, न किंचित् प्रत्यनीकत्वं कुर्वन्तीत्यर्थः। लोके चार्याणां गौरवमुपजायते, तस्मात् गणधरस्य महर्द्धिकस्य च राजप्रव्रजितादेगमनमार्थिकाप्रतिश्रये समनुज्ञातम् / ताश्चार्यिकास्तान् राजादिदीक्षितान् दृष्ट्वा इत्थं चिन्तयन्तिसंतविमवा जइ तवं, करेंति अवज्झिऊण इडीओ। सीयंतथिरीकरणं, तित्थविवड्डी य वण्णो य|१|| यदि राजादिः संपदः अपोह्य-परित्यज्य तपः कुर्वन्ति ततो वयम् संपदं प्रार्थ्यमानाः किमेवं प्रमादमनास्तिष्ठाम इत्येवं सीदन्तीनामार्यिकाणां स्थिरीकरणं कृतं भवति। स्थिरीकरणे च क्रियमाणे तीर्थस्य वृद्धिस्तीर्थवृद्धो प्रवचनस्य वर्णोयशः-प्रवादप्रभाविता भवति।गतं महर्द्धिकद्वारम्। प्रच्छादना च शैक्ष इति द्वारमाहवीसुं(भी)भूतो राया, लक्खणजुत्तो न विज्जती कुमरो। पडिणीएहिं कहिए, आहावंती दवदवस्स // 2 // कस्यापि नृपतेस्त्रयः पुत्राः सम्यग्दर्शनलब्धबुद्धयो दीक्षां कक्षीकृतवन्तः। कालान्तरेण च सराजा विष्वग्भूतः-शरीरात् पृथग्भूतः कालगत इत्यर्थः। ततोऽमात्यादयो वयमराजकाः सन्तो नार्थभाज इति परिभाव्य राज्यलक्षणोपेतं कुमारं प्रयत्नेन गवेषितवन्तः, परं न विद्यतेकोऽपिलक्षणयुक्त कुमारः। ततः कथितं प्रत्यनीकैः स्ववचनिकादिभिर्यथा ये अस्यैवनृपतेः पुत्राः सन्ति ते साधवो विहरमाणा इहैवोद्याने संप्राप्ताः / ततस्ते अमात्यादयः सम्यग् ज्ञात्वा छत्रचामरखङ्गादिकं राजार्ह वस्तु गृहीत्वा द्रुतं द्रुतमाधावन्ति साधूनां समीपमागच्छन्ति। अथ प्रत्यनीकाः केन कारणेन कथयन्तीत्युच्यतेअइसिंजणम्मि वण्णो, आयती इड्डिमंतपूया य। रायसुयदिक्खिएणं, तित्थविवडीयलद्धीय // 3 // अमुनाराजसुतेन दीक्षितेन अमीषां श्रमणानामतीवजनेलोके वर्णवादः प्रवादो विजृम्भते, यथाऽहो अमीषामेव धर्मः प्रतिपत्तव्यः योदृशाः प्रव्रजन्ति / आयतिश्च संततिरमीषामेतेनाविच्छिन्ना भविष्यति / ऋद्धिमन्तश्च श्रेष्ठ्यादय एतत्प्रभावेणामीषां पूजां कुर्वन्ति। तथा राजसुतोऽत्र प्रव्रजित इति कृत्वा अपि बहवः प्रव्रजिष्यन्तीति तीर्थवृद्धिलब्धिश्चाहारवस्त्रादीनां प्रचुरा भवति। उत्प्रव्रजितेन पुनरमुना वण्णीदयो न भविष्यन्तीति बुद्ध्या प्रत्यनीकाः कथयन्ति। ततस्तानमात्यादीनुत्प्रव्रजनार्थमागच्छतः श्रुत्वा ते राजपुत्राः किं कुर्वन्तीत्याहदठूण य रायिडिं, परीसहपराइतो तहिं कोऽई। आपुच्छह आयरिए, सम्मत्ते अप्पमादो हु॥४॥ तां राजसमृद्धिमागच्छन्तीं दृष्ट्वा तत्र कोऽपि राजपुत्रः परीषह-पराजितः संस्तानाचार्यानापृच्छति-भगवन् ! अशक्तोऽहं प्रव्रज्यामनुपालयितुम् / ततः आचार्या भणन्ति-सौम्य ! सम्यक्त्वे भगवता हुनिश्चितमप्रमादः कर्तव्यः। नाऊण य माणुस्सं, दुल्लभं जीवितं च निस्सारं। संघस्स चेतियाण य, वच्छलत्तं करेजाहि ||5|| ज्ञात्वा मानुष्यं मनुष्यभवं सुदुर्लभं जीवितं च निःसारंमत्वा संघस्य चैत्यानां च वत्सलत्वं भक्तिं कुर्यादिति। द्वितीयः पुनराहकिं काहिंति ममेते, पडलग्गतणंत मे जटा इडी। को वाऽनिट्टफलेसुं, विभवेसु बलेसु र जा // 86|| किं करिष्यन्ति ममेते अमात्यादयः, पटलतृणमिव मया