________________ वसहि ९९२-अमिधानराजेन्द्रः - भाग 6 वसहि गतार्थम्। ते चेव तत्थ दोसा, मोरियआणाए जे भणियपुटिव। आलावणाएँ मोत्तुं, तेरिच्छे सेवमाणस्स // 412 / / मौर्यदृष्टान्तद्वारेण या भगवतामाज्ञा बलीयसी प्रसाधिता तस्या भङ्गे ये दोषाः पूर्वं दिव्यद्वारेण मनुष्यद्वारेण च भणिताः,तेऽपि तथैवात्र द्रष्टव्याः, परम् आलापनादीन् मुक्त्वा शेषास्तत्र तैरश्चे देहयुते सेवमानस्य भवन्ति। एतदेवालापनादिपदं व्याचष्टेजह हासखेड्डआगार, विन्भमा हो ति मणुयइत्थीसुं। आलावगा बहुविहा,तह नऽस्थितिरिक्खइत्थीसं॥४१३|| यथा मनुष्यस्त्रीषु हास्यक्रीडा आकारविभ्रमालापाश्च बहुविधा भवन्ति तथा तिर्यक्रत्रीषु अभावात् मनुष्यस्त्रीभ्यः तिर्यक्रस्त्रीणां विशेषः / अथ चतुर्भङ्गीमाहसुहविन्नप्पा सुहमो-इयाय सुहविन्नप्पॉ दुहमोया। दुहविन्नप्पा य सुहा, दुहविन्नप्पा य दुहमोया // 41 // गतार्था। अत्रोदाहरणानिअमिलाई उभयसुहा, अरहण्णगभाइमक्कडि दुमोया। गोणाइ तइयभङ्गे, उभयदुहा सीहिवग्धीओ॥४१५॥ अमिलाः-पटकास्ता आदिशब्दाद्-अजाखरिकादयश्च तिर्यक् स्त्रिय उभयसुखाः-तत्रातिप्रत्ययापत्त्या सुखविज्ञप्याः,लोकगर्हितत्वेन तुच्छसुखास्वादहेतुत्वाच सुखमोच्याः / 'अरहन्नगभाइ-मकडि' त्ति अरहन्नकस्य भ्रातृजाया तदनुरागात् मृत्वा या मर्कटी जाता, तदादयस्तिरश्च्यो दुःखमोच्याः,परं सुखविज्ञप्याः / (अरहन्नकदृष्टान्तश्च 'अरहण्णग' शब्दादवसातव्यः)२। तृतीयभङ्गे तु-गोमहिष्यादयः, ते स्वपक्षेऽपि दुःखेन सङ्गमं कारयन्ति किं पुनः परपक्षे मनुजेषु, ततो दुःखविज्ञपनाः। लोकजुगुप्सितश्च तासु संगम इति कृत्वा सुखमोच्याः३, यास्तु सिंहव्याघ्रीप्रभृतयस्ता उभयदुःखास्तत्र जीवितान्तकारिणीत्वाद् दुःखविज्ञपना, अनुरक्ताश्च सत्यः प्रतिबन्धवन्धुरतया दुःखमोच्याः / / अत्र नोदकः प्रश्नयति-को नाम प्रकृतोऽप्येतास्तिरश्ची, लोक-- जुगुप्सिताःप्रतिसेवेत विशेषतो जिनवचनपरिगलितमतिरित्यत्रोच्यतेजइ ताव णरवईसुं,मेहुणभावं तु पावए पुरिसो। जीवियदोचं जहि यं, किं पुण सेसासु जाईसु // 416|| यदि तावत् नरपतिपत्नीषु पुरुषो मैथुनभावं प्राप्नोति यत्र जीवितदोचं' ति जीवितभयं प्रायः जीवने संदेहो यासु भवतीत्यर्थः, किं पुनः शेषासु खरिकादिजातिषु / तथा चात्र दृष्टान्तः- "एका सीरिसी रिउकाले मेहुणचा साजाइपुरिसं अलभमाणी पंथेवहतं इक्कं पुरिसं चित्तुंगुहं पविठ्ठा / बाहुं काउमाढत्ता, सा य तेण पडिसेविता। तत्थ तसिंदोण्ह वि संसाराणुभावतो अणुरागो जातो। गुहाए ठियस्स सा दिणे दिणे पोग्गलं आणेउ देइ, सो वितं पडिसेवइ। किमंग ! पुण जासुजीवियभयं नऽत्थितासुन पडिसेवियव्यं" इति। यच्चोक्तम्-'विशेषतोजिनवचनपरिगलितबुद्धिरिति तदप्ययुक्तम्, ततः किमेषोऽपि श्लोको भवतो न कर्णकोटरमध्यमध्यासिष्ट-"मात्रा स्वस्रा दुहित्रा वा, न विविक्तासनो भवेत्। बलवानिन्द्रियग्रामः, पण्डितोऽप्यत्र मुह्यति" ||1|| उक्तं तैरवं रूपम्। तदुक्ती चसमर्थितंभावसागारिकम् एवं निर्ग्रन्थानामु-तम्। बृ०१उ०३प्रक०। (18) गृहमध्यान्मार्गवत्युपाश्रये न निवसेत्से भिक्खू वा मिक्खुणी वा से जं पुण जाणेजा गाहावइकुलस्स मज्झं मज्झेणं गंतुं पंथए पडिबद्धं वा नो पन्नस्स०जाव चिंताए तह० उध्वस्सए नो ठाणं चेइज्जा। (सू०-६२) 'से' इत्यादि यस्योपाश्रयस्य गृहस्थगृहमध्येन पन्थास्तत्र बहुपापसंभवान्न स्थातव्यमिति / तथा गृहपतिकुलस्य मध्येन निर्गमप्रवेशे वस्तुम्। आचा०२ श्रु०२ चू०२ अ०३ उ०। कप्पइ निग्गंथाणं गाहावइकु लस्स मज्झं मज्झेणं गंतुं वत्थए।॥३॥ अस्य व्याख्या प्राग्वत्। अथ भाष्यम्एसेव गमो नियमा, निग्गंथीणं पि नवरि चउलहुगा। नवरं पुण नाणत्तं,सालाए छिंडिमझे य॥५२०॥ एष एव निर्ग्रन्थसूत्रोक्तक्रमो निर्ग्रन्थीनामपि ज्ञातव्यः, नवरं तासां तत्र तिष्ठन्तीनां चतुर्लधुकं प्रायश्चित्तम्, वैक्रियापावृतादर्शविषयाश्च दोषा भवन्ति। शेषं सर्वमपि प्राग्वद्रष्टव्यम्, नवरं पुनर्नानात्वं विशेषः, शालायां छिण्डिकायां मध्ये त्रिष्वपि वक्तव्यम्। तत्र शालायां तावदाहसालाए कम्मकरा, उडुंचयगीयसयउवसहणं। घरखामणं च दाणं, बहुसो गमणं च संबंधो // 531 / / शालायां स्थितानामार्यिकाणां कर्मकरा उड्डुचकान कुर्युः। यथा यादृशी इयमार्यिका तादृशी मम शालिका मातुलदुहिता वा विदधते गीतेन वा ते कर्मकरादयः / प्रपञ्चन्ते यथा- 'चंदा सुखंति पडपंडरयं सुधंति,रज्जा ऍति तरुणाण मणं हरंति' इत्यादि उपहसनं वा कश्चित्करोति। ततश्च भिक्षार्थं गृहं गतायास्तस्याःक्षामणं दानं चवस्त्रपात्रादेर्गमनंच बहु तस्याः समीपे करोति। ततश्चैवं संबन्धस्तयोः परस्परं घटनं भवति। अथ पुनरेवोपहसनादीनि गाथात्रयेण भावयति-- पाणसमा तुज्झ मया, इमाय सरिसी सरिव्वया तीसे। संखे खीरनिसेओ, जुज्जइ तत्तेण तत्तं च // 532 // सो तत्थ तीऍ अन्ना-हि वावि निब्मथिओ गओ गेहं। खामितो किल सुदिओ, अक्खुन्नइ अग्गहत्थेहिं // 533 / / पाएसु चेडरूवे,पाडेत्तु भणाइ एस भे माता। जं इच्छइ तं दिज व, तुम पि साइज जायाई // 53 //