________________ पुंडरीय 647 - अभिधानराजेन्द्रः - भाग 5 पुंडरीय यण व्यवस्थितं प्रासांदीयं यावत्प्रतिरूपम् / अत्र चास्मिन तीरे सवस्थितस्तं च पूर्वव्यवस्थितमेकं पुरुष पश्यति, किंभूतम्? तीरात्परिनष्टमनवाप्तपद्मवरपोण्डरीकमुभयभ्रष्टमन्तराल एवावसीदन्तं. दृष्ट्वा च तमेवमवस्थं पुरुषं ततोऽसौ द्वितीयः पुरुषस्तं प्राक्तनं पुरुषमेव वदेत्अहो इति खेदे। सर्वत्र णमिति वाक्यालङ्कारे द्रष्टव्यः। योऽथं कर्दम निमग्नः पुरुषः सोऽखेदज्ञोऽकुशलोऽपण्डितोऽव्यक्तोऽमेधावी, बालोन मार्गस्थो नमाज्ञो नो मार्गस्य गतिपराक्रमज्ञः। अकुशलत्वाऽऽदिके कारणमाहयद्यरमादेषपुरुष एतत्कृतवान्, तद्यथाऽहं खेदज्ञः कुशल इत्यादि भणित्वा पद्मवरपौण्डरीकमुत्क्षेप्स्यामीत्येवं प्रतिज्ञातवान् / न चैतत् पद्मवरपाण्डरीकम, एवमनेन प्रकारेण यथाऽनेनोत्क्षेप्तुमारब्धमेवमुत्क्षेप्तव्यं यथाऽयं पुरुषो मन्यत इति / ततोऽहमेवास्योत्क्षेपणे कुशल इति दर्शयितुमाह- (अहमसीत्यादिजाव दोच्चे पुरिसाजाए त्ति) सुगमम् / / 3 / / तृतीय पुरुषमधिकृत्याऽऽह-(अहावरे तचे इत्यादि) सुगमम्।यावचतुर्थः पुरुषजात इति।।४-५|| साम्प्रतमपरं पञ्चमं तद्विलक्षण पुरुषजातमधिकृत्याऽऽहअह भिक्खू लूहे तीरट्ठी खेयन्ने०जाव परक्कमण्णू अन्नतराओ दिसाओ वा अणुदिसाओ वा आगम्म तं पुक्खरिणिं तीसे पुक्खरिणीए तीरे ठिचा पासति तं महं एगं पउमवरपों डरीयं जाव पडिरूवं, ते तत्थ चत्तारि पुरिसजाए पासति पहीणे तीरं अपत्ते०जाव पउमवरपोंडरीयं णो हटवाए णो पाराए अंतरा पुक्खरिणीए सेयंसि णिसन्ने,तए णं से भिक्खू तं एवं बयासीअहोणं इमे पुरिसा अखेयन्ना ०जावणो मग्गस्स गतिपरक्कमण्णू, जं एते पुरिसा एवं मन्ने अम्हे एयं पउमवरपोंडरीयं उन्निक्खिस्सामो णो य खलु, एयं पउमवरपोंडरीयं एवं उन्निक्खेत्तव्वं जहा णं एते पुरिसा मन्ने अहमंसि भिक्खू लूहे तीरट्ठी खेयन्ने० जाव मग्गस्स गतिपरक्कमण्णू अहमे यं पउमवरपॉडरीयं उण्णिक्खिस्सामि त्ति कटु इति वुचा से भिक्खू णो अमिक्कमे तं पुक्खरिणिं तीसे पुक्खरिणीए तीरे ठिचा सह कुजा, उप्पयाहि खलु भो पउमवरपोंडरीया ! उप्पयाहि, अह से उप्पतितेपउमवरपोंडरीए।। (सूत्रं 6) / (अह भिक्खू लूहे इत्यादि) अथेत्यानन्तर्थे, चतुर्थपुरुषादयमनन्तरः पुरुषस्तस्यामूनि विशेषणानिभिक्षणशीलो भिक्षुः-पचनपाचनाऽऽदिसावद्यानुष्ठानरहिततया निर्दोषाऽऽहारभोजी, तथा रूक्षो रागद्वेषरहितः, तौ हि कर्मबन्धहेतुतया स्निग्धौ, यथा हि स्नेहाभावाद् रजो न लगति तथा रागद्वेषाभावात्कर्मरणुन लगत्यतस्तद्रहितो रूक्ष इत्युच्यते। तथा संसारसागरस्य तीरार्थी, तथा क्षेत्रज्ञः खेदज्ञो वा / पूर्व व्याख्यातानेव विशेषणानि, यावन्मार्गस्य गतिपराक्रमज्ञः, सचान्यतरस्या दिशोऽनुदिशो वाऽऽगत्य तां पुष्करिणीं तस्याश्च तीरे स्थित्वा समन्तादवलोकयन् बहुमध्यदेशभागेतन्महदेकं पद्मवरपौण्डरीकं पश्यति। तांश्च चतुरःपुरुषान् पश्यति / यत्र च व्यवस्थितानिति, किंभूतान्? त्यक्ततीरानप्राप्तपद्मवरपुण्डरीकान् पङ्कजलावमग्रान् पुनस्तीरमप्यागन्तुमसमर्थान् दृष्ट्वा च तास्तदवस्थान् ततोऽसौ भिक्षुः एवमितिवक्ष्यमाणनीत्या वदेत् / तद्यथा-अहो इति खेदे, णमिति वाक्यालंकारे. इमे पुरुषाश्चत्वारोऽपि अखेदज्ञायावन्नो मार्गस्य गतिपराक्रमज्ञाः, यस्मात्ते पुरुषा एवं ज्ञातवन्तो यथा वयं पद्मवरपौण्डरीकमुत्क्षेस्यामः उत्खनिष्यामः, न च खलु तत्पौण्डरीकमेवम्-अनेन प्रकारेण यथैते मन्यन्ते तथोत्क्षेतव्यम्। अपि त्वहमस्मि भिक्षु रूक्षो यावदतिपराक्रमज्ञः, एतद्गुणविशिष्टोऽहमेतत् पोण्डरीकमुत्क्षेप्स्यामिउरखनिष्यामि समुद्धरिष्यामीत्येवमुक्त्वा असो नाभिक्रामत तां पुष्करिणीं न प्रविशेत्। तत्रस्थ एव यत्कुर्यात्तदर्शयतितस्यास्तीरे स्थि-त्वातथाविधं शब्दं कुर्यात्। तद्यथा-ऊर्ध्वमुत्पतोत्पत, खलुशब्दो वाक्यालंकारे, हे पद्मवरपौण्डरीक ! तस्याः पुष्करिण्या मध्यदेशादेवमुत्पतोत्पत। अथ तच्छब्दश्रवणादनन्तरतदुत्पतितमिति।६। तदेवं दृष्टान्तं प्रदर्श्य दार्शन्तिकं दर्शयितुकामः श्रीमन्महावीरवर्धमानस्वामी स्वशिष्यानाहकिट्टिए नाए समणाउसो ! अढे पुण से जाणितव्वे भवति, मंत्ते ति समणं भगवं महावीरं निग्गंथा य निग्गंथीओ य वंदंति, नमसंति, वंदेतानमंसित्ता एवं वयासी-किट्टिए नाए समणाउसो ! अट्ठ पुण से ण जाणामो समणाउसो ! त्ति, समणे भगवं महावीरे ते य बहवे निग्गंथे य निग्गंथीओ य आमंतेत्ता एवं बयासी-हंत समणाउसो! आइक्खामि, विभावेमि, किट्टेमि, पवेदेमि सअर्ड्स सहेउ सनिमित्तं भुञ्जो भुञ्जो उवदंसेमि, सेवेमि // (सूत्रं 7) / कीर्तिते कथिते प्रतिपादिते मयाऽस्मिन् ज्ञाते उदाहरणे हे श्रमणाः! आयुष्मन्तोऽर्थः पुनरस्य ज्ञातव्यो भवति भवद्भिः / एतदुक्तं भवतिनास्योदाहरणस्य परमार्थ यूयं जानीथ, एवमुक्ते भगवता ते बहवो निर्ग्रन्था निर्ग्रन्थ्यश्च तं श्रमणं भगवन्तं महावीरं ते निम्रन्थाऽऽदयो वन्दन्ते कायन, नमस्यन्ति तत् प्रव्हैः शब्दैः स्तुवन्ति, वन्दित्वा नमस्यित्वा चैवं वक्ष्यमाणं वदेयुः / तद्यथा-कीर्तितं प्रतिपादित ज्ञातमुदाहरणं भगवता अर्थ पुनरस्य न सम्यक् जानीमः, इत्येवं पुष्टो भगवान् श्रमणो महावीरस्तान्निग्रन्थाऽऽदीनेवं वेदत्-हन्तेति संप्रेषणे। हे श्रमणाः ! आयुष्मन्तो यद्भवद्भिरह पृष्टस्तत्सोपपत्तिकमाख्यामि भवता, तथा विभावयाम्याविर्भावयामि प्रकटार्थकरोमि, तथा कीर्तयामि, पर्यायकथनद्वारेणेति, तथा प्रवेदयामि प्रकर्षण हेतुदृष्टान्तैश्वित्तसन्ततावारोपयामि। अथ वैकार्थिकानि चैतानि। कथं प्रतिपादयामीति दर्शयतिसहार्थन दार्शन्तिकेन वर्तत इति सार्थः पुष्करिणीदृष्टान्तस्तं, तथा सह हेतुना अन्वयव्यतिरेकरूपेण वर्तत इति सहेतुस्त तथाभूमर्थ प्रतिपादयिष्यामि, यथा ते पुरुषा अप्राप्तप्राथितार्थाः पुष्करिणीकर्दमे दुरत्तारे निमग्ना एवं वक्ष्यमाणास्तीथिका अपारगाः संसार-सागरस्यतरैव निमजन्तीत्येवल्पोऽर्थः सोपपत्तिकः प्रदर्शयि