________________ पारिट्ठावणिया 866 - अभिधानराजेन्द्रः - भाग 5 पारिट्ठावणिया प्रयोजने क्रियाभेदे, प्रव० ४द्वार। (पारिष्ठापनिकी विधिस्तु परिलवणा' शब्देऽस्मिन्नेव भागे 570 पृष्ठे उक्तः) नवरमसंयतमनुष्यपरिस्थापनानन्तरमिदं दृश्यम्गामाणुगामं दूइज्जमाणे भिक्खू य आहच्च वीसं भवेज्जा, तं च सरीरयं केइ साहम्मिया पासिज्जा, कप्पति से तं सरीरयं मा सागारियं ति कटु तं सरीरयं एगते अचित्ते बहुफासुए उथंडिले पडिले हित्ता पमञ्जित्ता परिदृवित्तए अस्थि या इत्थ के इ साहम्मियसंतिए उवगरणजाए सलक्खणे परिहरणारिहे कप्पति से सागारकडं गहाय दोचं पि ओग्गहा अणुण्णवेत्ता परिहारं परिहरित्तए।।१७ ग्रामानुग्राम (दूइज्जमाणे इति) विहरन् 'आह च' कदाचित् शरीरात् विष्यक् पृथक् भवेत्, मियते इत्यर्थः। तच शरीरक के चित्साधमिकाःसंयताः पश्येयुः, तत्र साधम्मिकस्य तत् शरीरं मा सागारिक भवत्विति कृत्वा एकान्ते विविक्ते अचित्ते स्थण्डिले बहुप्रासुके कीटकाऽऽदिसत्त्वरहिते प्रत्युपेक्ष्य प्रमायं च परिस्थापयितुम् (अस्थि या इत्थ इत्यादि) अस्ति चात्र किञ्चित्साधर्मिमकसत्कमुपकरणजात सलक्षणं पतद्ग्रहाऽऽदि परिहरणाऽहं करिष्यति (स इत्यादि) कल्पते (से) तस्य सागारकृतं गृहीत्वा सागारकृतं नाम नाऽऽत्मना रवीकरोति आचार्यसत्कमेतत् आचार्य एव एतस्य ज्ञायक एवं गृहीत्वा आचार्याणां समर्प्य यदिदम् आचार्यस्तस्यैव ददातिततः स मस्तकेन वन्देइति बुवाणे आचार्यवचः प्रमाणं करोति, एष द्वितीयोऽवग्रहस्तमनुज्ञाप्य द्विविधन परिहारेण परिहर्तुं परिभोगयितुम्, अथाऽऽचार्योऽन्यस्मै ददाति, तदा तस्य तदिति सूत्रसंक्षेपाऽर्थः। सम्प्रति नियुक्तिविस्तरःतं चेव पुव्वभणियं, सुत्तनिवातो उपंथे गामे वा। गामे एगमणेगो, बहू व एमेव पंथे वि॥४२१॥ यत्पूर्व कल्पाध्ययने चतुर्थे उद्देशके विष्वग् भवनं भणित, तदेवात्राऽपि द्रष्टव्यं, नवरमिह विशेषो भण्यतेसूत्रनिपातो ग्रामे वा भवेत् पथि वा ''गामाणुगामं दूइजमाणे" इति वचनात् / ग्रामे एको वा भवेदनेके वा, तत्र येऽनेके ते द्विप्रभृतयो यावत्सप्त बहवो वा द्रष्टव्याः। एवमेव पथ्यपि द्रष्टव्यम् एको वाऽनेके वा, तत्राऽनेके द्विप्रभृतयो यावत्सप्त बहवो वा। एतदेवाऽऽहएगो एगो चेव उ, दुप्पभिई अणेग सत्त बहुगा वा। कालगय गामें पंथे, व जाणगा उज्झणविहीए।।४२२।। एकस्तावदेक एव,तस्यैकत्वेन भेदाभावात्; द्विप्रभृतयो यावत्सप्त, तावदनेके, ततः परं बहवः। एतेषां मध्ये कदाचिदेको ग्रामे पथि कालगतो भवेत्। तत्र उज्झनविधिः परिष्टापनविधेर्ये ज्ञायकारते यथोक्तविधिना परिष्ठापयन्ति। अथाऽनेके द्विप्रभृतयो यावत्सप्तेति कस्मादुक्तं न पञ्च षट् वेति? उच्यते-सप्तानामेव समाप्तकल्पत्वादन्यथा त्वविधिरिति ज्ञापनाऽर्थम्। तथा चाऽऽहचउरो वहति एगो, कुसादि रक्खइ उवस्सयं एगो। एगो य समुग्घातो, इति सत्तण्हं अहाकप्पो / / 423 // चत्वारो जना विष्वग्भूतं वहन्ति, एकः कुशान् दर्भान पानं च गृहीत्वा पुरता याति, एक: षष्ठ उपाश्रयं रक्षति, एकः सप्तमः समुद्घातः कालगत इति / एवममुना प्रकारेण ससानां यथाकल्पो विधिकल्पः / सत्तण्ह हेतुणं, अविही उन कप्पर विहरिलं जे / एगगियस्स अविही, उ अत्थिउंगच्छिउँ वा वि।।४२४॥ सप्तानामधस्तादविधिस्ततस्तेषां षट्पञ्चप्रभृतीनां विहर्तुं न कल्पते / 'जे' इति पादपूरणे / एकाकिनः पुनरासितुं गन्तुं वा नियमादविधिः / तेषामपि कदाचित कारणवशतः स्थितानां यः परिष्ठापनविधिः साऽग्रेडभिधास्यते। तथा च एकाने केषामेव विधिमभिधित्सुः प्रथमतो न केषां प्रतिजानीतेनेगाण विहिं वुच्छं, नायमनाए व पुव्वखेत्तम्मि। दिसि थंडिलझामिय बिं-बमादीसु य पदेसेसु / / 425 / / पूर्वमके नेके चोक्ताः, तत्र प्रथमतोऽनेकेषां विधिं वक्ष्यामि। प्रतिज्ञातमेव करोतितत्र ज्ञाते वा पूर्वक्षेत्रे दिक् परिभावनीया. तथा त्रिषु प्रदेशेषु स्थण्डिल,तच्च स्वाभाविक शिलातलाऽऽदिरूप,ध्यामितमग्निना दग्धं, बिम्बाऽऽदीनां समीपे च। तत्र प्रथमतो ज्ञातक्षेत्रविषयविधिमाहनाए अपुव्वदिटुं, तं चेव य थंडिलं हवति तत्थ। अन्नाते वेलपत्ता, सन्नादिगया उपेहंति॥४२६|| ज्ञाते क्षेत्रे यत्पूर्व दृष्ट, तदेव तत्र स्थण्डिलं भवति। अज्ञाते यदि वेलायां प्राप्तास्तदा संज्ञाऽऽदिगताः स्थण्डिलं प्रेक्षन्ते। अह पुण विकाले पत्ता-इंता चेव उ करेंति उवओगं। अकरणे हवंति लहुगा, वेलं पत्ताण चउगुरुगा / / 427|| अथ पुनर्विकालवेलायां प्राप्तास्तत आगच्छन्त एव स्थण्डिलविषयमुपयोगं कुर्वन्ति तदा उपयोगस्याकरणे चत्वारो लघुकाः प्रायश्चित्तं, वेला प्राप्ताना पुनः स्थण्डिलविषयोपयोगाकरणे प्रायश्चित्तं चत्वारो गुरुकाः। आणादिणो य दोसा, कालगतेसुंभमादिसुं हुज्जा। अत्यंतमपेच्छंता, विणास गरिहं च पार्वेति॥४२८|| न केवलं प्रायश्चित्तं,किं त्वाज्ञाऽऽदयश्च दोषाः। तथा तेषां मध्ये कोऽपि रात्री कदाचित्कालं कुर्यात् तत्र स्थण्डिलं न प्रत्युपेक्षितमिति न परिष्ठापयन्ति। अपरिष्ठापयतां च वेतालोत्थानदोषः। अथ परिष्ठापयन्ति तस्थिण्डिलदोषाऽऽसङ्गः / तथाहि-रात्रौ वह्निसम्भवो वा स्तेनसम्भ्रमो वा, परचक्रबिभ्रमो वा जातः, सोऽपि च व्रती कालगतः,स्थण्डिलं न प्रत्युपेक्षितमिति न परिष्ठापितः, तत्र यदि अग्निसंभ्रमाऽऽदिषु कथमनाथकलेवरमिव त्यक्त्वा व्रजामो, मा प्रवचनस्योड्डाहोऽभूदिति विचिन्त्य तिष्ठन्ति तस्य समीपे, तदा तेषामग्न्यादेविनाश उपधेर्वा स्तेनाऽऽदिभिरपहरणम् / अथ न तिष्ठन्ति किं तु तत्त्यक्त्वा पलायन्ते तदा ते जनमध्ये गहीं प्राप्नुवन्ति। अथवा-स्थण्डिलं न प्रत्युपेक्षितमिति प्रभाते परिष्ठापयन्ति तदा मलिनैर्वस्त्रैस्तस्मिन्परिष्ठाप्यमाने प्रवच