________________ पाणबह 840 - अभिधानराजेन्द्रः - भाग 5 पाणबह दिश्य पुनः पुनस्तत्रोत्पादहेतुकर्मबन्धनात्, किंभूताम? महदयं यस्यां सा महाभया ता महाभयान, अविश्रामवेदना विश्रान्तरहितामसातवेदना दीर्घकालं यावत् बहुभिः दुःखेः शारीरमानसेः या संकुला सा दीर्धकालबहुदुःखसकटा ता नरकेषु तिर्यक्षु च या योनिरुत्पत्तिहेतु-वात सा नरकतिर्यग्योनिस्ता, ततश्च इतो मनुष्यजन्मनः सकाशादायुःक्षये मरणे सति च्युतास्सन्तः (तस्सेत्यादि) च सूत्र क्वचिदेव दृश्यते। अशुभफर्मबहुलाः कलुषकर्मप्रचुराः, उपपद्यन्ते जायन्ते नरकेषु (हुलिय ति) शीव्र महालयेषु क्षेत्रस्थितिभ्यां महत्सु, कथंभूतेषु? वज्रमयकुड्या रुन्द्रा विस्तीर्णा निस्संधयो निर्विवराः द्वारविरहिताः अद्वाराः निर्माईवभूमितलाश्च कर्कशभूमयः ये नरकास्ते तथा (खलफास त्ति) कर्कशस्पर्शाः विषमा निभ्रोन्नताः निरयगृहसंबन्धिनो नारकाः कुट्यकुटा नारकोत्पत्तिस्थानभूताः येषु नरकेषु ते तथा। ततः पदद्वयरय कर्मधारयः / अतस्तेषु तथा महोष्णाः अत्युष्णाः सदा प्रतप्ताः नित्यतप्ताः दुर्गन्धाः अशुभगन्धाः विश्राः आमगन्धयः कुथितेत्यर्थ / उद्विज्यते उद्विग्नेर्भूयते यस्मिन् ते उद्वेजनकारते ये ते तथा जेषु तथा वीभत्सदर्शनीथेषु विरूपेषु नित्यं सदा हिमपटलमिव हिमवृन्दमिव शीतलाये ते तथा तेषु च कालः आवभासःप्रभा येषां ले तथा कालावभासास्तेषु च, भीमगम्भीराश्व ते अत एव लोमहर्षणाश्च समहर्षकारिणो भीमगम्भीरलोमहर्षणास्तेषुनिरभिरामवनभिरमणीयेषु निःप्रतीकारा अचिकित्स्या ये व्याधयः कुष्ठाऽऽद्याःजरा च प्रतीता रोगाश्च सद्योधातिनो ज्वरशूलाऽऽदयः तैः पीडिता ये ते तथा तेषु / इदं च नारकधर्माध्यारोपान्नरकाणां विशेषणमुक्तम। अतीव प्रकृष्ट नित्य शाश्वतमन्धकार येषु ते तथा तमिस्रव () अन्धकारप्रकर्षास्ते अतीव नित्यान्धकारतिमिसा। अथवा-- अतीवनित्यान्धकारण तिमिसेव ये ते तथा तेषु / अत एव प्रतिभयेषु वस्तुं वरतुं प्रतिभय येषु ते तथा तषु व्यपगलग्रहचन्द्रसूर्यनक्षत्रज्योतिष्केषु / इह ज्योतिषशब्देन तारका गृह्यान्ते / मेदश्च शरीरधातुविशषः , वसा च शरीरस्नेहः, मासं च पिशित, तेषां यत्पटल वृन्दं (पोचड ति) अनिविडं च पूवरुधिराभ्यां पक्करक्तशोणिताभ्यां (उक्किण्ण ति) उत्कीर्ण मिश्रित विलीन जुगुप्सितंचिक्कण - माश्लेषवत् रसिकया शारीररसविशेषण व्याधनं विनष्ट स्वरूपमत एव कुथित कोथवत् तदेव चिक्खलं प्रबलकदमः कदमश्च तदितरो यषु से तथा तेषु, कुंकूलानलश्च कारीषाग्निः प्रदीप्तज्याला व गुर्मुर भस्मानिः, असिक्षुरकरपत्राणां धारासु निशिता वृश्चिकदण्डकस्य तत्पुछकण्टकस्य च निपात इति द्वन्द्वः। एभिरौपम्यमुपमा यस्य स तथा तथाविधः स्पर्शः अति दुःसहो येषां ते तथा तेषु, अत्राणा अनर्थप्रतिघातकवर्जिताः, अशरणा स्वार्थप्रापकवर्जिता जीवाः कटुकदुःखैः दारुणः दुःखः परिताप्यन्तेयेषु ते अत्राणाशरणकटुकदुखपरितापनारसेषु अनुबद्धनिरन्तरा अत्यन्तनिरन्तरा वेदना येषुते तथा तेषु, यमरस दक्षिागतिकपालस्य पुरुषाः अम्बाऽऽदयः असुरविशेषा यमपुरुषा एतैः संकुला यषु ते तथा तेषु,तत्र च उत्पत्ती सति अन्तर्मुहूर्तश्च कालमानविशेषः, लब्धिश्व वैक्रियलब्धिर्भवप्रत्ययश्चभवलक्षणो हेतुरन्तर्मुहूर्तलब्धिश्च भवप्रत्ययं तन निर्वर्तयन्ति कुर्वन्ति, ते पुनः पापाः, शरीर किंभूतम्? हुण्ड सर्वत्रासस्थित, वीभत्सदर्शनीय दुर्दर्शन (बीहाणगंसि) भयजनकनस्थिस्नायुनखरोमवर्जितम् असुभगं च तत् दुःखविषहं चेत्यसुभगदुःखविषहम् / पाठान्तरेणाऽशुभं दुःखविषय च यत् तत्तथा, ततः शरीरनिर्वर्तनानन्तरं पर्याप्तिमिन्द्रियपर्याप्तिमानप्राणपर्याप्ति भाषापयाप्ति मनःपर्याप्ति चोपगताः प्राप्ता इन्द्रियः पञ्चभिर्वेदयन्ति अनुभवन्तिा कं? दुःख महाकुम्भिपचनाऽऽदीनि दुःखकारणानीति योगः। कया कालतान्य शुभया वेदनया दुःखरूपयेत्यर्थः / कि भूतयेत्याह- (उञ्जलेत्यादि तत्रोज्ज्वला विपक्षलेशेनाप्यकलङ्किता बला बलवती निवर्तयितुमशक्या विपुला सर्वशरीरावयवध्यापिनी / पाठान्तरेण-(तिउलं ति) त्रीन् मनोवा - कायोस्तुलयत्यभिभवति या सा वितुला, उत्कटा प्रकषपर्यन्तवर्तिनी, खरममृदुशिलावत् यद द्रव्य तत्सम्पोतजनिता खरा, परुष कर्कशं कूष्माण्डीदलमिव यत्तत्सम्पातसंभवाः परुपाः प्रचण्डाः शीघ्रं शरीरव्यापिकाः प्रचण्डापरिवर्तितत्वाद्वा प्रचडा घोरा झमिति जीवितक्षयकारिणी औदारिकवतां परिजीवितानपक्षा वा ये ते तथा, घोरास्तत्प्रवर्तित्वात घोरा इति। (वीहणग त्ति) भयोत्पादिका। किमुक्तं भवति?.. दारुणा, तत एतेषां कर्मधारयः। अतः तया वेदयन्तीति प्रकृतम्। (कि ते त्ति) तद्यथा कन्दुर्लाही, महाकुम्भी महत्युरखा, तयोः पचनंच भक्तस्येव (पउलणं ति) पचनविशेषस्य पृथुकस्येव (तवगं ति) तापिका, तत्र तलने च सुकुमारिकाऽऽदेरिव भ्राष्टे अवरीषेव भर्जनं च पाकविशेषकरण चणकाऽऽदेरिवेतिद्वन्द्वोऽतस्तानिचलोहकटाह कथनानि चेक्षुर--सस्येव (कोट्ट ति) क्रीडा, तेन बलिकरण चण्डिकाऽऽदेः पुरतो पश्वादेरियोपहारविधानम् / पाठान्तरे- 'कोट्टाकोट्टकिरिया'' दुर्गा तस्येव कोट्टाय पा प्राकाराय बलिकरण, तच कुट्टनं च कुटिलत्वकरण वैकल्यकरणं वा कुट्टन वा चूर्णन तानि च शाल्मल्या वृक्षविशेषस्य तीक्ष्णाग्रा ये लोहकण्टका इव लोहकण्टकास्तेष्यभिसरणं चापेक्षिकमभिमुखाऽऽगमनमपसरणं च निवर्त्तनं शाल्मलीतीक्ष्णाग्रलोहकण्टकाभिसरणापसराणः स्फाटनं च सकवारणं च विदारण च विविधप्रकारैरिति / ते चावकोटकबन्धनानि बाहुशिरसा पृष्ठदेशे बन्धनानि यष्टिशतताडनानि च प्रतीतानि, गलक कण्टे बलात् हठात् यान्युल्लम्बनानि वृक्षशाखाऽऽदावुद्न्धनानि तानि गलकम्बलोल्लम्बनानि शूलाग्रभेदनानि च व्यक्तान्यादेशप्रपश्चानान्यसत्यादिशतो विप्रतारणानि, खिंसनविमाननानि च तत्र खिसनानि निन्दनानि, विमाननान्यपमानजनतानि (विधुट्ठपणिज्जणाणि ति) विधुष्टानाम् एते पापाः प्राप्नुवन्ति, स्वकृतं पापफलमित्यादे चाग्निसंशब्दितानां प्रणयनानि वध्यभूमिप्रापणानि विधुष्टप्रणयनानि बध्यशतानि व्यक्तानि तान्येव माता उत्पत्ति भूमियेषां तानि बध्यशतमातृकाणि, बध्याऽऽश्रितदुःखानीत्यर्थः / तानि चैवमित्युक्तक्रमग ते पापकर्मकारिण इत्यनेन संबन्धः / (पुस्वकामकरसंबवता ति) पूर्वकृतकर्मणां सञ्चोनीपतता आपन्नसन्तापाये ते तथा निरय एवं अग्निर्नेरयाग्निस्तेन महाग्निनेव संप्रदीमा ये से तथा गाढदुःखां गढदुःखरूपां द्विविधा वेदना वेदयन्तीति योगः / किं भूताम्? महाद्वयं यस्यां सा तथा